अर्थशास्त्रम् अध्याय १४ - भाग १

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


(पर.बल.घात.प्रयोगह्)

१.०१
चातुर्वर्ण्य.रक्षा.अर्थम् औपनिषदिकम् अधर्मिष्ठेषु प्रयुञ्जीत ॥

१.०२
काल.कूट.आदिर् विष.वर्गः श्रद्धेय.देश.वेष.शिल्प.भाषा.अभिजन.अपदेशैः कुब्ज.वामन.किरात.मूक.बधिर.जड.अन्धच्.छद्मभिर् म्लेच्छ.जातीयैर् अभिप्रेतैः स्त्रीभिः पुम्भिश् च पर.शरीर.उपभोगेष्व् अवधातव्यः ॥

१.०३
राज.क्रीडा.भाण्ड.निधान.द्रव्य.उपब्भोगेषु गूढाः शस्त्र.निधानं कुर्युः, सत्त्र.आजीविनश् च रात्रि.चारिणो_अग्नि.जीविनश् च_अग्नि.निधानम् ॥

१.०४
चित्र.भेक.कौण्डिन्यक.कृकण.पञ्च.कुष्ठ.शत.पदी.चूर्णम् उच्चि.दिण्ग.कम्बली.शत.कन्द(कर्दम?).इध्म.कृकलास.चूर्णं गृह.गोलिक.अन्ध.अहि.कक्र.कण्टक.पूति.कीट.गोमारिका.चूर्णं भल्लातक.अवल्गु.जर.सम्युक्तं सद्यः.प्राण.हरम्, एतेषां वा धूमः ॥

१.०५
कीटो वा_अन्यतमस् तप्तः कृष्ण.सर्प.प्रियङ्गुभिः ।

१.०५
शोषयेद् एष सम्योगः सद्यः.प्राण.हरो मतः ॥

१.०६
धाम.अर्गव.यातु.धान.मूलं भल्लातक.पुष्प.चूर्ण.युक्तम् आर्धमासिकः ॥

१.०७
व्याघातक.मूलं भल्लातक.पुष्प.चूर्ण.युक्तं कीट.योगो मासिकः ॥

१.०८
कला.मात्रं पुरुषाणाम्, द्वि.गुणं खर.अश्वानाम्, चतुर्.गुणं हस्त्य्.उष्ट्राणाम् ॥

१.०९
शत.कर्दम.उच्चिदिङ्ग.कर.वीर.कटु.तुम्बी.मत्स्य.धूमो मदन.कोद्रव.पलालेन हस्ति.कर्ण.पलाश.पलालेन वा प्रवात.अनुवाते प्रणीतो यावच् चरति तावन् मारयति ॥

१.१०
पूकि.कीट.मस्त्य.कटु.तुम्बी.शत.कर्दम.इध्म.इन्द्र.गोप.चूर्णं पूति.कीट.क्षुद्र.आराला.हेम.विदारी.चूर्णं वा बस्त.शृङ्ग.खुर.चूर्ण.युक्तम् अन्धी.करो धूमः ॥

१.११
पूति.करञ्ज.पत्त्र.हरि.ताल.मनः.शिला.गुञ्ज.आरक्त.कार्पास.पलाल.अन्य.आस्फोट.काच.गो.शकृद्.रस.पिष्टम् अन्धी.करो धूमः ॥

१.१२
सर्प.निर्मोकं गो.अश्व.पुरीषम् अन्ध.अहिक.शिरश् च_अन्धी.करो धूमः ॥

१.१३
पारावत.प्लवक.क्रव्य.अदानां हस्ति.नर.वराहाणां च मूत्र.पुरीषं कासीस.हिङ्गु.यव.तुष.कण.तण्डुलाः कार्पास.कुटज.कोश.अतकीनां च बीजानि गो.मूत्रिका.भाण्डी.मूलं निम्ब.शिग्रु.फणिर्ज.काक्षीव.पीलुक.भङ्गः सर्प.शफरी.चर्म हस्ति.नख.शृङ्ग.चूर्णम् इत्य् एष धूमो मदन.कोद्रव.पलालेन हस्ति.कर्ण.पलाश.पलालेन वा प्रणीतः प्रत्येकशो यावच् चरति तावन् मारयति ॥

१.१४
काली.कुष्ठ.नड.शतावली.मूलं सर्प.प्रचलाक.कृकण.पञ्च.कुष्ठ.चूर्णं वा धूमः पूर्व.कल्पेन_आर्द्र.शुष्क.पलालेन वा प्रणीतः संग्राम.अवतरण.अवस्कन्दन.संकुलेषु कृत.नेजन.उदक.अक्षि.प्रतीकारैः प्रणीतः सर्व.प्राणिनां नेत्रघ्नः ॥

१.१५
शारिका.कपोत.बक.बलाका.लेण्डम् अर्क.अक्षि.पीलुक.स्नुहि.क्षीर.पिष्टम् अन्धी.करणम् अञ्जनम् उदक.दूषणं च ॥

१.१६
यवक.शालि.मूल.मदन.फल.जाती.पत्त्र.नर.मूत्र.योगः प्लक्ष.विदारी.मूल.युक्तो मूक.उदुम्बर.मदन.कोद्रव.क्वाथ.युक्तो हस्ति.कर्ण.पलाश.क्वाथ.युक्तो वा मदन.योगः ॥

१.१७
शृङ्गि.गौतम.वृक.कण्टक.अर.मयूर.पदी.योगो गुञ्जा.लाङ्गली.विष.मूलिक.इङ्गुदी.योगः कर.वीर.अक्षि.पीलुक.अर्क.मृग.मारणी.योगो मद्न.कोद्रव.क्वाथ.युक्तो हस्ति.कर्ण.पलाश.क्वाथ.युक्तो वा मदन.योगः ॥

१.१८
समस्ता वा यवस.इन्धन.उदक.दूषणाः ॥

१.१९
कृत.कण्डल.कृकलास.गृह.गोलिक.अन्ध.अहिक.धूमो नेत्र.वधम् उन्मादं च करोति ॥

१.२०
कृकलास.गृह.गोलिका.योगः कुष्ठ.करः ॥

१.२१
स एव चित्रम् एक.अन्त्र.मधु.युक्तः प्रमेहम् आपादयति, मनुष्य.लोहित.युक्तः शोषम् ॥

१.२२
दूषी.विषं मदन.कोद्रव.चूर्णम् अपजिह्विका.योगः ॥

१.२३
मातृ.वाहक.अञ्जलि.कार.प्रचलाक.भेक.अक्षि.पीलुक.योगो विषूचिका.करः ॥

१.२४
पञ्च.कुष्ठक.कौण्डिन्य.कराज.वृक्ष.पुष्प.मधु.योगो ज्वर.करः ॥

१.२५
भासन.कुल.जिह्वा.ग्रन्थिका.योगः खरी.क्षीर.पिष्टो मूक.बधिर..करो मास.अर्ध.मासिकः ॥

१.२६
कला.मात्रं पुरुषाणाम् इत् समानं पूर्वेण ॥

१.२७
भङ्ग.क्वाथ.उपनयनम् औषधानाम्, चूर्णं प्राण.भृताम्, सर्वेषां वा क्वाथ.उपनयनम्, एवं वीर्यवत्तरं भव्ति ॥

१.२८
इति योग.सम्पत् ॥

१.२९
शाल्मली विदारी.धान्य.सिद्धो मूल.वत्स.नाभ.सम्युक्तश् चुच्छुन्दरी.शोणित.प्रलेपेन दिग्धो बाणो यं विध्यति स विद्धो_अन्यान् दश.पुरुषान् दशति, ते दष्टा दश_अन्यान् दशन्ति पुरुषान् ॥

१.३०
बल्लातक.यातु.धानाव.अनुधा.मार्गव.बाणानां पुष्पैर् एलक.अक्षि.गुग्गुलु.हालाहलानां च कषायं बस्त.नर.शोणित.युक्तं दंश.योगः ॥

१.३१
ततो_अर्ध.धरणिको योगः सक्तु.पिण्याकाभ्याम् उदके प्रणीतो धनुः.शत.आयामम् उदक.आशयं दूषयति ॥

१.३२
मत्स्य.परम्परा ह्य् एतेन दष्टा_अभिमृष्टा वा विषी.भवति, यश् च_एतद् उदकं पिबति स्पृशति वा ॥

१.३३
रक्त.श्वेत.सर्षपैर् गोधा त्रि.पक्षम् उष्ट्रिकायां भूमौ निखातायां निहिता वध्येन_उद्धृता यावत् पश्यति तावन् मारयति, कृष्ण.सर्पो वा ॥

१.३४
विद्युत्.प्रदग्धो_अङ्गारो ज्वालो वा विद्युत्.प्रदग्धैः काष्ठैर् गृहीतश् च_अनुवासितः कृत्तिकासु भरणीषु वा रौद्रेण कर्मणा_अभिहुतो_अग्निः प्रणीतश् च निस्प्रतीकारो दहति ॥

१.३५
कर्माराद् अग्निम् आहृत्य क्षौद्रेण जुहुयात् पृथक् ।

१.३५
सुरया शौण्डिकाद् अग्निं मार्गतो_अग्निं घृतेन च ॥

१.३६
माल्येन च_एक.पत्न्य्.अग्निं पुंश्चल्य्.अग्निं च सर्षपैः ।

१.३६
दध्ना च सूतिकास्व् अग्निम् आहित.अग्निं च तण्डुलैः ॥

१.३७
चण्डाल.अग्निं च मांसेन चित.अग्निं मानुषेण च ॥

१.३७
समस्तान् बस्त.वसया मानुषेण ध्रुवेण च ॥

१.३८
जुहुयाद् अग्नि.मन्त्रेण राज.वृक्षस्य दारुभिः ।

१.३८
एष निष्प्रतिकारो_अग्निर् द्विषतां नेत्र.मोहनः ॥

१.३९
अदिते नमस्ते, अनुमते नमस्ते, सरस्वति नमस्ते, देव सवितर् नमास्ते ॥

१.४०
अग्नये स्वाहा, सोमाय स्वाहा, भूः स्वाहा भुवः स्वाहा ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP