अर्थशास्त्रम् अध्याय ०९ - भाग २

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


२.०१
मौल.भृतक.श्रेणी.मित्र.अमित्र.अटवी.बलानां समुद्दान.कालाः ॥

२.०२
मूल.रक्षणाद् अतिरिक्तं मौल.बलम्, अत्यावाप.युक्ता वा मौला मूले विकुर्वीरन्, बहुल.अनुरक्त.मौल.बलः सार.बलो वा प्रतियोद्धा, व्यायामेन योद्धव्यम्, प्रकृष्टे_अध्वनि काले वा क्षय.व्यय.सहत्वान् मौलानाम्, बहुल.अनुरक्त.सम्पाते च यातव्यस्य_उपजाप.भयाद् अन्य.सैन्यानां भृत.आदीनाम् अविश्वासे, बल.क्षये वा सर्व.सैन्यानां - इति मौल.बल.कालः  ॥

२.०३
"प्रभूतं मे भृत.बलम् अल्पं च मौल.बलम्ण्" "परस्य_अल्पं विरक्तं वा मौल.बलम्, फल्गु.प्रायम् असारं वा भृत.सैन्यम्ण्" "मन्त्रेण योद्धव्यम् अल्प.व्यायामेनण्" "ह्रस्वो देशः कालो वा तनु.क्षय.व्ययह्ण्" "अल्प.आवापं शान्त.उपजापं विश्वस्तं वा मे सैन्यम्ण्" "परस्य_अल्पः प्रसारो हन्तव्यह्ण्" - इति भृत.बल.कालः ॥

२.०४
"प्रभूतं मे श्रेणी.बलम्, शक्यं मूले यात्रायां च_आधातुम्ण्" ह्रस्वः प्रवासः, श्रेणी.बल.प्रायः प्रतियोद्धा मन्त्र.व्यायामाभ्यां प्रतियोद्धु.कामः, दण्ड.बल.व्यवहारः - इति श्रेणी.बल.कालः ॥

२.०५
"प्रभूतं मे मित्र.बलं शक्यं मूले यात्रायां च_आधातुम्ण्" "अल्पः प्रवासो मन्त्र.युद्धाच् च भूयो व्यायाम.युद्धम्ण्" "मित्र.बलेन वा पूर्वम् अटवीं नगर.स्थानम् आसारं वा योधयित्वा पश्चात् स्व.बलेन योद्धयिष्यामिण्" "मित्र.साधारणं वा मे कार्यम्ण्" "मित्र.आयत्ता वा मे कार्य.सिद्धिह्ण्" "आसन्नम् अनुग्राह्यं वा मे मित्रम्ण्" "अत्यावापं वा_अस्य सादयिष्यामि" - इति मित्र.बल.कालः ॥

२.०६
"प्रभूतं मे शत्रु.बलम्, शत्रु.बलेन योधयिष्यामि नगर.स्थानम् अटवीं वा, तत्र मे श्व.वराहयोः कलहे चण्डालस्य_इव_अन्यतर.सिद्धिर् भविष्यतिण्" "आसाराणाम् अटवीनां वा कण्टक.मर्दनम् एतत् करिष्यामिण्" - अत्युपचितं वा कोप.भयान् नित्यम् आसन्नम् अरि.बलं वासयेद्, अन्यत्र.अभ्यन्तर.कोप.शङ्कायाः - शत्रु.युद्ध.अवर.युद्ध.कालश् च - इत्य् अमित्र.बल.कालः ॥

२.०७
तेन_अटवी.बल.कालो व्याख्यातः ॥

२.०८
मार्ग.आदेशिकम्, पर.भूमि.योग्यम्, अरि.युद्ध.प्रतिलोमम्, अटवी.बल.प्रायः शत्रुर् वा, "बिल्वं बिल्वेन हन्यताम्ण्" अल्पः प्रसारो हन्तव्यः - इत्य् अटवी.बल.कालः ॥

२.०९
सैन्यम् अनेकम् अनेकस्थम् उक्तम् अनुक्तं वा विलोप.अर्थं यद् उत्तिष्ठति तद् औत्साहिकं - अभक्त.वेतनं विलोप.विष्टि.प्रताप.करं भेद्यं परेषाम्, अभेद्यं तुल्य.देश.जाति.शिल्प.प्रायं संहतं महत् ॥ [इति बल.उपादान.कालाह्]

२.१०
तेषां कुप्य.भृतम् अमित्र.अटवी.बलं विलोप.भृतं वा कुर्यात् ॥

२.११
अमित्रस्य वा बल.काले प्रत्युत्पन्ने शत्रु.बलम् अवगृह्णीयात्, अन्यत्र वा प्रेषयेत्, अफलं वा कुर्यात्, विक्षिप्तं वा वासयेत्, काले वा_अतिक्रान्ते विसृजेत् ॥

२.१२
परस्य च_एतद् बल.समुद्दानं विघातयेत्, आत्मनः सम्पादयेत् ॥

२.१३
पूर्वं पूर्वं च_एषां श्रेयः सम्नाहयितुम् ॥

२.१४
तद्.भाव.भावित्वान् नित्य.सत्कार.अनुगमाच् च मौल.बलं भृत.बलात्_श्रेयः ॥

२.१५
नित्य.अनन्तरं क्षिप्र.उत्थायि वश्यं व भृत.बलं श्रेणी.बलात्_श्रेयः ॥

२.१६
जानपदम् एक.अर्थ.उपगतं तुल्य.संघर्ष.अमर्ष.सिद्धि.लाभं च श्रेणी.बलं मित्र.बलात्_श्रेयः ॥

२.१७
अपरिमित.देश.कालम् एक.अर्थ.उपगमाच् च मित्र.बलम् अमित्र.बलात्_श्रेयः ॥

२.१८
आर्य.अधिष्ठितम् अमित्र.बलम् अटवी.बलात्_श्रेयः ॥

२.१९
तद् उभयं विलोप.अर्थम् ॥

२.२०
अविलोपे व्यसने च ताभ्याम् अहि.भयं स्यात् ॥

२.२१
"ब्राह्मण.क्षत्रिय.वैश्य.शूद्र.सैन्यानां तेजः.प्राधान्यात् पूर्वं पूर्वं श्रेयः सम्नाहयितुम्" इत्य् आचार्याः ॥

२.२२
न_इति कौटिल्यः ॥

२.२३
प्रणिपातेन ब्राह्मण.बलं परो_अभिहारयेत् ॥

२.२४
प्रहरण.विद्या.विनीतं तु क्षत्रिय.बलं श्रेयः, बहुल.सारं वा वैश्य.शूद्र.बलम् इति ॥

२.२५
तस्माद् एवं.बलः परः, तस्य_एतत् प्रतिबलम् इति बल.समुद्दानं कुर्यात् ॥

२.२६
हस्ति.यन्त्र.शकट.गर्भ.कुन्त.प्रास.हाटक.वेणु.शल्यवद् हस्ति.बलस्य प्रतिबलम् ॥

२.२७
तद् एव पाषाण.लगुड.आवरण.अङ्कुश.कच.ग्रहणी.प्रायं रथ.बलस्य प्रतिबलम् ॥

२.२८
तद् एव_अश्वानां प्रतिबलम्, वर्मिणो वा हस्तिनो_अश्वा वा वर्मिणः ॥

२.२९
कवचिनो रथा आवरणिनः पत्तयश् च चतुर्.अङ्ग.बलस्य प्रतिबलम् ॥

२.३०
एवं बल.समुद्दानं पर.सैन्य.निवारणम् ।

२.३०
विभवेन स्व.सैन्यानां कुर्याद् अङ्ग.विकल्पशः ॥

(पश्चात्.कोप.चिन्ता - बाह्य.अभ्यन्तर.प्रकृति.कोप.प्रतीकारह्)

N/A

References : N/A
Last Updated : October 12, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP