अर्थशास्त्रम् अध्याय ०७ - भाग ५

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


५.०१
तुल्य.सामन्त.व्यसने यातव्यम् अमित्रं वा_इत्य् अमित्रम् अभियायात्, तत्.सिद्धौ यातव्यम् ॥

५.०२
अमित्र.सिद्धौ हि यातव्यः साहाय्यं दद्यान् न_अमित्रो यातव्य.सिद्धौ ॥

५.०३
गुरु.व्यसनं यातव्यं लघु.व्यसनम् अमित्रं वा_इति "गुरु.व्यसनं सौकर्यतो यायाद्" इत्य् आचार्याः ॥

५.०४
न_इति कौटिल्यः ॥

५.०५
लघु.व्यसनम् अमित्रं यायात् ॥

५.०६
लघ्व् अपि हि व्यसनम् अभियुक्तस्य कृच्छ्रं भवति ॥

५.०७
सत्यं गुर्व् अपि गुरुतरं भवति ॥

५.०८
अनभियुक्तस् तु लघु.व्यसनः सुखेन व्यसनं प्रतिकृत्य_अमित्रो यातव्यम् अभिसरेत्, पार्ष्णिं वा गृह्णीयात् ॥

५.०९
यातव्य.यौगपद्ये गुरु.व्यसनं न्याय.वृत्तिं लघु.व्यसनम् अन्याय.वृत्तिं विरक्त.प्रकृतिं वा_इति विरक्त.प्रकृतिं यायात् ॥

५.१०
गुरु.व्यसनं न्याय.वृत्तिम् अभियुक्तं प्रकृतयो_अनुगृह्णन्ति, लघु.व्यसनम् अन्याय.वृत्तिम् उपेक्षन्ते, विरक्ता बलवन्तम् अप्य् उच्छिन्दन्ति ॥

५.११
तस्माद् विरक्त.प्रकृतिम् एव यायात् ॥

५.१२
क्षीण.लुब्ध.प्रकृतिम् अपचरित.प्रकृतिं वा_इति क्षीण.लुब्ध.प्रकृतिं यायात्, क्षीण.लुब्धा हि प्रकृतयः सुखेन_उपजापं पीडां वा_उपगच्छन्ति, न_अपचरिताः प्रधान.अवग्रह.साध्याः" इत्य् आचार्याः ॥

५.१३
न_इति कौटिल्यः ॥

५.१४
क्षीण.लुब्धा हि प्रकृतयो भर्तरि स्निग्धा भर्तृ.हिते तिष्ठन्ति, उपजापं वा विसंवादयन्ति, अनुरागे सार्वगुण्यम् इति ॥

५.१५
तस्माद् अपचरित.प्रकृतिम् एव यायात् ॥

५.१६
बलवन्तम् अन्याय.वृत्तिं दुर्बलं वा न्याय.वृत्तिम् इति बलवन्तम् अन्याय.वृत्तिं यायात् ॥

५.१७
बलवन्तम् अन्याय.वृत्तिम् अभियुक्तं प्रकृतयो न_अनुगृह्णन्ति, निष्पातयन्ति, अमित्रं वा_अस्य भजन्ते ॥

५.१८
दुर्बलं तु न्याय.वृत्तिम् अभियुक्तं प्रकृतयः परिगृह्णन्ति, अनुनिष्पतन्ति वा ॥

५.१९
अवक्षेपेण हि सताम् असतां प्रग्रहेण च ।

५.१९
अभूतानां च हिंसानाम् अधर्म्याणां प्रवर्तनैः ॥

५.२०
उचितानां चरित्राणां धर्मिष्ठानां निवर्तनैः ।

५.२०
अधर्मस्य प्रसङ्गेन धर्मस्य_अवग्रहेण च ॥

५.२१
अकार्याणां च करणैः कार्याणां च प्रणाशनैः ।

५.२१
अप्रदानैश् च देयानाम् अदेयानां च साधनैः ॥

५.२२
अदण्डनैश् च दण्ड्यानाम् अदण्ड्यानां च दण्डनैः ।

५.२२
अग्राह्याणाम् उपग्राहैर् ग्राह्याणां च_अनभिग्रहैः ॥

५.२३
अनर्थ्यानां च करणैर् अर्थ्यानां च विघातनैः ।

५.२३
अरक्षणैश् च चोरेभ्यः स्वयं च परिमोषणैः ॥

५.२४
पातैः पुरुष.काराणां कर्मणां गुण.दूषणैः ।

५.२४
उपघातैः प्रधानानां मान्यानां च_अवमाननैः ॥

५.२५
विरोधनैश् च वृद्धानां वैषम्येण_अनृतेन च ।

५.२५
कृतस्य_अप्रतिकारेण स्थितस्य_अकरणेन च ॥

५.२६
राज्ञः प्रमाद.आलस्याभ्यां योग.क्षेम.वधेन वा ।

५.२६
प्रकृतीनां क्षयो लोभो वैराग्यं च_उपजायते ॥

५.२७
क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागताम् ।

५.२७
विरक्ता यान्त्य् अमित्रं वा भर्तारं घ्नन्ति वा स्वयम् ॥

५.२८
तस्मात् प्रकृतीनां क्षय.लोभ.विराग.कारणानि न_उत्पादयेत्, उत्पन्नानि वा सद्यः प्रतिकुर्वीत ॥

५.२९
क्षीणा लुब्धा विरक्ता वा प्रकृतय इति ॥

५.३०
क्षीणाः पीडन.उच्छेदन.भयात् सद्यः संधिं युद्धं निष्पतनं वा रोचयन्ते ॥

५.३१
लुब्धा लोभेन_असंतुष्टाः पर.उपजापं लिप्सन्ते ॥

५.३२
विरक्ताः पर.अभियोगम् अभ्युत्तिष्ठन्ते ॥

५.३३
तासां हिरण्य.धान्य.क्षयः सर्व.उपघाती कृच्छ्र.प्रतीकारश् च, युग्य.पुरुष.क्षयो हिरण्य.धान्य.साध्यः ॥

५.३४
लोभ ऐकदेशिको मुख्य.आयत्तः पर.अर्थेषु शक्यः प्रतिहन्तुम् आदातुं वा ॥

५.३५
विरागः प्रधान.अवग्रह.साध्यः ॥

५.३६
निष्प्रधाना हि प्रकृतयो भोग्या भवन्त्य् अनुपजाप्याश् च_अन्येषाम्, अनापत्.सहास् तु ॥

५.३७
प्रकृति.मुख्य.प्रग्रहैस् तु बहुधा भिन्ना गुप्ता भवन्त्य् आपत्.सहाश् च ॥

५.३८
सामवायिकानाम् अपि संधि.विग्रह.कारणान्य् अवेक्ष्य शक्ति.शौच.युक्तैः सम्भूय यायात् ॥

५.३९
शक्तिमान् हि पार्ष्णि.ग्रहणे यात्रा.साहाय्य.दाने वा शक्तः, शुचिः सिद्धौ च_असिद्धौ च यथा.स्थित.कारी_इति ॥

५.४०
तेषां ज्यायसा_एकेन द्वाभ्यां समाभ्यां वा सम्भूय यातव्यम् इति द्वाभ्यां समाभ्यां श्रेयः ॥

५.४१
ज्यायसा ह्य् अवगृहीतश् चरति, समाभ्याम् अतिसंधान.आधिक्ये वा ॥

५.४२
तौ हि सुखौ भेदयितुम्, दुष्टश् च_एको द्वाभ्यां नियन्तुं भेद.उपग्रहं च_उपगन्तुम् इति ॥

५.४३
समेन_एकेन द्वाभ्यां हीनाभ्यां वा_इति द्वाभ्यां हीनाभ्यां श्रेयः ॥

५.४४
तौ हि द्वि.कार्य.साधकौ वश्यौ च भवतः ॥

५.४५
कार्य.सिद्धौ तु - कृत.अर्थाज् ज्यायसो गूढः स.अपदेशम् अपस्रवेत् ।

५.४५
अशुचेः शुचि.वृत्तात् तु प्रतीक्षेत_आ विसर्जनात् ॥

५.४६
सत्त्राद् अपसरेद् यत्तः कलत्रम् अपनीय वा ।

५.४६
समाद् अपि हि लब्ध.अर्थाद् विश्वस् तस्य भयं भवेत् ॥

५.४७
ज्यायस्त्वे च_अपि लब्ध.अर्थः समो_अपि परिकल्पते ।

५.४७
अभ्युच्चितश् च_अविश्वास्यो वृद्धिश् चित्त.विकारिणी ॥

५.४८
विशिष्टाद् अल्पम् अप्य् अंशं लब्ध्वा तुष्ट.मुखो व्रजेत् ।

५.४८
अनंशो वा ततो_अस्य_अङ्के प्रहृत्य द्वि.गुणं हरेत् ॥

५.४९
कृत.अर्थस् तु स्वयं नेता विसृजेत् सामवायिकान् ।

५.४९
अपि जीयेत न जयेन् मण्डल.इष्टस् तथा भवेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP