अर्थशास्त्रम् अध्याय ०७ - भाग ४

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


४.०१
संधि.विग्रहयोर् आसनं यानं च व्याख्यातम् ॥

४.०२
स्थानम् आसनम् उपेक्षणं च_इत्य् आसन.पर्यायाः ॥

४.०३
विशेषस् तु - गुण.एकदेशे स्थानम्, स्व.वृद्धि.प्राप्त्य्.अर्थम् आसनम्, उपायानाम् अप्रयोग उपेक्षणम् ॥

४.०४
अतिसंधान.कामयोर् अरि.विजिगीष्वोर् उपहन्तुम् अशक्तयोर् विगृह्य_आसनं संधाय वा ॥

४.०५
यदा वा पश्येत् "स्व.दण्डैर् मित्र.अटवी.दण्डैर् वा समं ज्यायांसं वा कर्शयितुम् उत्सहे" इति तदा कृत.बाह्य.अभ्यन्तर.कृत्यो विगृह्य_आसीत ॥

४.०६
यदा वा पश्येत् "उत्साह.युक्ता मे प्रकृतयः संहता विवृद्धाः स्व.कर्माण्य् अव्याहताश् चरिष्यन्ति परस्य वा कर्माण्य् उपहनिष्यन्ति" इति तदा विगृह्य_आसीत ॥

४.०७
यदा वा पश्येत् "परस्य_अपचरिताः क्षीणा लुब्धाः स्व.चक्र.स्तेन.अटवी.व्यथिता वा प्रकृतयः स्वयम् उपजापेन वा माम् एष्यन्ति, सम्पन्ना मे वार्त्ता, विपन्ना परस्य, तस्य प्रकृतयो दुर्भिक्ष.उपहता माम् एष्यन्ति॑ विपन्ना मे वार्त्ता, सम्पन्ना परस्य, - ॥

४.०७
तं मे प्रकृतयो न गमिष्यन्ति, विगृह्य च_अस्य धान्य.पशु.हिरण्यान्य् आहरिष्यामि, स्व.पण्य.उपघातीनि वा पर.पण्यानि निवर्तयिष्यामि, - ॥

४.०७
पर.वणिक्.पथाद् वा सरवन्ति माम् एष्यन्ति विगृहीते, न_इतरम्, दूष्य.अमित्र.अटवी.निग्रहं वा विगृहीतो न करिष्यति, तैर् एव वा विग्रहं प्राप्स्यति, - ॥

४.०७
मित्रं मे मित्र.भाव्य् अभिप्रयातो बह्व्.अल्प.कालं तनु.क्षय.व्ययम् अर्थं प्राप्स्यति, गुणवतीम् आदेयां वा भूमिम्, - ॥

४.०७
सर्व.संदोहेन वा माम् अनादृत्य प्रयातु.कामः कथं न यायाद्" इति पर.वृद्धि.प्रतिघात.अर्थं प्रताप.अर्थं च विगृह्य_आसीत ॥

४.०८
"तम् एव हि प्रत्यावृत्तो ग्रसते" इत्य् आचार्याः ॥

४.०९
न_इति कौटिल्यः ॥

४.१०
कर्शन.मात्रम् अस्य कुर्याद् अव्यसनिनः, पर.वृद्ध्या तु वृद्धः समुच्छेदनम् ॥

४.११
एवं परस्य यातव्यो_अस्मै साहाय्यम् अविनष्टः प्रयच्छेत् ॥

४.१२
तस्मात् सर्व.संदोह.प्रकृतं विगृह्य_आसीत ॥

४.१३
विगृह्य.आसन.हेतु.प्रातिलोम्ये संधाय_आसीत ॥

४.१४
विगृह्य.आसन.हेतुभिर् अभ्युच्चितः सर्व.संदोह.वर्जं विगृह्य यायात् ॥

४.१५
यदा वा पश्येत् "व्यसनी परः, प्रकृति.व्यसनं वा_अस्य शेएष.प्रकृतिभिर् अप्रतिकार्यम्, स्व.चक्र.पीडिता विरक्ता वा_अस्य प्रकृतयः कर्शिता निरुत्साहाः परस्पराद् वा भिन्नाः शक्या लोभयितुम्, अग्न्य्.उदक.व्याधि.मरक.दुर्भिक्ष.निमित्तं क्षीण.युग्य.पुरुष.निचय.रक्षा.विधानः परः" इति तदा विगृह्य यायात् ॥

४.१६
यदा वा पश्येत् "मित्रम् आक्रन्दश् च मे शूर.वृद्ध.अनुरक्त.प्रकृतिः, विपरीत.प्रकृतिः परः पार्ष्णि.ग्राहश् च_आसारश् च, शक्ष्यामि मित्रेण_आसारम् आक्रन्देन पार्ष्णि.ग्राहं वा विगृह्य यातुम्" इति तदा विगृह्य यायात् ॥

४.१७
यदा वा फलम् एक.हार्यम् अल्प.कालं पश्येत् तदा पार्ष्णि.ग्राह.आसाराभ्यां विगृह्य यायात् ॥

४.१८
विपर्यये संधाय यायात् ॥

४.१९
यदा वा पश्येत् "न शक्यम् एकेन यातुम् अवश्यं च यातव्यम्" इति तदा सम.हीन.ज्यायोभिः सामवायिकैः सम्भूय यायाद्, एकत्र निर्दिष्टेन_अंशेन, अनेकत्र_अनिर्दिष्टेन_अंशेन ॥

४.२०
तेषाम् असमवाये दण्डम् अन्यतमस्मान् निविष्ट.अंशेन याचेत ॥

४.२१
सम्भूय.अभिगमनेन वा निर्विश्येत, ध्रुवे लाभे निर्दिष्टेन_अंशेन, अध्रुवे लाभ.अंशेन ॥

४.२२
अंशो दण्ड.समः पूर्वः प्रयास.सम उत्तमः ।

४.२२
विलोपो वा यथा.लाभं प्रक्षेप.सम एव वा ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP