अर्थशास्त्रम् अध्याय ०४ - भाग १२

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


१२.०१
सवर्णाम् अप्राप्त.फलां प्रकुर्वतो हस्त.वधः, चतुः.शतो वा दण्डः ॥

१२.०२
मृतायां वधः ॥

१२.०३
प्राप्त.फलां प्रकुर्वतो मध्यमा.प्रदेशिनी.वधो, द्वि.शतो वा दण्डः ॥

१२.०४
पितुश् च_अवहीनं दद्यात् ॥

१२.०५
न च प्राकाम्यम् अकामायां लब्भेत ॥

१२.०६
सकामायां चतुष्.पञ्चाशत्.पणो दण्डः, स्त्रियास् त्व् अर्ध.दण्डः ॥

१२.०७
पर.शुल्क.अवरुद्धायां हस्त.वधः, चतुः.शतो वा दण्डः, शुल्क.दानं च ॥

१२.०८
सप्त.आर्तव.प्रजातां वरणाद् ऊर्ध्वम् अलभमानः प्रकृत्य प्राकामी स्यात्, न च पितुर् अवहीनं दद्यात् ॥

१२.०९
ऋतु.प्रतिरोधिभिः स्वाम्याद् अपक्रामति ॥

१२.१०
त्रि.वर्ष.प्रजात.आर्तवायास् तुल्यो गन्तुम् अदोषः, ततः परम् अतुल्यो_अप्य् अनलंकृतायाः ॥

१२.११
पितृ.द्रव्य.आदाने स्तेयं भजेत ॥

१२.१२
परम् उद्दिश्य_अन्यस्य विन्दतो द्वि.शतो दण्डः ॥

१२.१३
न च प्राकांयम् अकामायां लभेत ॥

१२.१४
कन्याम् अन्यां दर्शयित्वा_अन्यां प्रयच्छतः शत्यो दण्डस् तुल्यायाम्, हीनायां द्वि.गुणः ॥

१२.१५
प्रकर्मण्य् अकुमार्याश् चतुष्.पञ्चाशत्.पणो दण्डः, शुल्क.व्यय.कर्मणी च प्रतिदद्यात् ॥

१२.१६
अवस्थाय तज्.जातं पश्चात्.कृता द्वि.गुणं दद्यात् ॥

१२.१७
अन्य.शोणित.उपधाने द्विशतो दण्डः, मिथ्या.अभिशंसिनश् च पुंसः ॥

१२.१८
शुल्क.व्यय.कर्मणी च जीयेत ॥

१२.१९
न च प्राकांयम् अकामायां लभेत ॥

१२.२०
स्त्री.प्रकृता सकामा समाना द्वादश.पणं दण्डं दद्यात्, प्रकर्त्री द्वि.गुणम् ॥

१२.२१
अकामायाः शत्यो दण्ड आत्म.राग.अर्थम्, शुल्क.दानं च ॥

१२.२२
स्वयं प्रकृता राज.दास्यं गच्छेत् ॥

१२.२३
बहिर्.ग्रामस्य प्रकृतायां मिथ्या.अभिशंसने च द्वि.गुणो दण्डः ॥

१२.२४
प्रसह्य कन्याम् अपहरतो द्वि.शतः, स-सुवर्णाम् उत्तमः ॥

१२.२५
बहूनां कन्या.अपहारिणां पृथग् यथा.उक्ता दण्डाः ॥

१२.२६
गणिका.दुहितरं प्रकुर्वतश् चतुष्.पञ्चाशत्.पणो दण्डः, शुल्कं मातुर् भोगः षोडश.गुणः ॥०४.१२.२७
दासस्य दास्या वा दुहितरम् अदासीं प्रकुर्वतश् चतुर्.विंशति.पणो दण्डः शुल्क.आबन्ध्य.दानं च ॥

१२.२८
निष्क्रय.अनुरूपां दासीं प्रकुर्वतो द्वादश.पणो दण्डो वस्त्र.आबन्ध्य.दानं च ॥

१२.२९
साचिव्य.अवकाश.दाने कर्तृ.समो दण्डः ॥

१२.३०
प्रोषित.पतिकाम् अपचरन्तीं पति.बन्धुस् तत्.पुरुषो वा संगृह्णीयात् ॥

१२.३१
संगृहीता पतिम् आकाङ्क्षेत ॥

१२.३२
पतिश् चेत् क्षमेत विसृज्येत_उभयम् ॥

१२.३३
अक्षमायां स्त्रियाः कर्ण.नास.आच्छेदनम्, वधं जारश् च प्राप्नुयात् ॥

१२.३४
जारं चोर इत्य् अभिहरतः पञ्च.शतो दण्डः, हिरण्येन मुञ्चतस् तद्.अष्ट.गुणः ॥

१२.३५
केशाकेशिकं संग्रहणम्, उपलिङ्गनाद् वा शरीर.उपभोगानाम्, तज्.जातेभ्यः(तज्.ज्ञातेभ्यः? च्f.ण्१२.६०)), स्त्री.वचनाद् वा ॥

१२.३६
पर.चक्र.अटवी.हृताम् ओघ.प्रव्यूढाम् अरण्येषु दुर्भिक्षे वा त्यक्तां प्रेत.भाव.उत्सृष्टां वा पर.स्त्रियं निस्तारयित्वा यथा.संभाषितं समुपभुञ्जीत ॥

१२.३७
जाति.विशिष्टाम् अकामाम् अपत्यवतीं निष्क्रयेण दद्यात् ॥

१२.३८
चोर.हस्तान् नदी.वेगाद् दुर्भिक्षाद् देश.विभ्रमात् ।

१२.३८
निस्तारयित्वा कान्तारान् नष्टां त्यक्तां मृता_इति वा ॥

१२.३९
भुञ्जीत स्त्रियम् अन्येषां यथा.संभाषितं नरः ।

१२.३९
न तु राज.प्रतापेन प्रमुक्तां स्वजनेन वा ॥

१२.४०
न च_उत्तमां न च_अकामां पूर्व.अपत्यवतीं न च ।

१२.४०
ईदृशीं त्व् अनुरूपेण निष्क्रयेण_अपवाहयेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP