अर्थशास्त्रम् अध्याय ०३ - भाग १७

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


१७.०१
साहसम् अन्वयवत् प्रसभ.कर्म ॥

१७.०२
निरन्वये स्तेयम्, अपव्ययने च ॥

१७.०३
"रत्न.सार.फल्गु.कुप्यानां साहसे मूल्य.समो दण्डः" इति मानवाः ॥

१७.०४
"मूल्य.द्वि.गुणः" इत्य् औशनसाः ॥

१७.०५
यथा.अपराध इति कौटिल्यः ॥

१७.०६
"पुष्प.फल.शाक.मूल.कन्द.पक्व.अन्न.चर्म.वेणु.मृद्.भाण्ड.आदीनां क्षुद्रक.द्रव्याणां द्वाद्श.पण.अवरश् चतुर्विंशति.पण.परो दण्डः ॥

१७.०७
काल.आयस.काष्ठ.रज्जु.द्रव्य.क्षुद्र.पशु.पट.आदीनां स्थूलक.द्रव्याणां चतुर्विंशति.पण.अवरो_अष्ट.चत्वारिंशत्.पण.परो दण्डः ॥

१७.०८
ताम्र.वृत्त.कंस.काच.दन्त.भाण्ड.आदीनां स्थूलक.द्रव्याणाम् अष्ट.चत्वारिंशत्.पण.अवरः षण्.णवति.परः पूर्वः साहस.दण्डः ॥

१७.०९
महा.पशु.मनुष्य.क्षेत्र.गृह.हिरण्य.सुवर्ण.सूक्ष्म.वस्त्र.आदीनां स्थूलक.द्रव्याणां द्विशत.अवरः पञ्च.शत.परो मध्यमः साहस.दण्डः ॥

१७.१०
स्त्रियं पुरुषं वा_अभिषह्य बध्नतो बन्धयतो बन्धं वा मोक्षयतः पञ्च.शत.अवरः सहस्र.पर उत्तमः साहस.दण्डः ॥ इत्य् आचार्याः ॥

१७.११
"यः साहसं "प्रतिपत्ता" इति कारयति स द्वि.गुणं दद्यात् ॥

१७.१२
"यावद्द् हिरण्यम् उपयोक्ष्यते तावद् दास्यामि" इति स चतुर्.गुणं दण्डं दद्यात् ॥

१७.१३
यः "एतावद्द् हिरण्यं दास्यामि" इति प्रमाणम् उद्दिश्य कारयति स यथा.उक्तं हिरण्यं दण्डं च दद्यात्" इति बार्हस्पत्याः ॥

१७.१४
स चेत् कोपं मदं मोहं वा_अपदिशेद् यथा.उक्तवद् दण्डम् एनं कुर्याद् इति कौटिल्यः ॥

१७.१५
दण्ड.कर्मसु सर्वेषु रूपम् अष्ट.पणं शतम् ।

१७.१५
शतात् परेषु व्याजीं च विद्यात् पञ्च.पणं शतम् ॥

१७.१६
प्रजानां दोष.बाहुल्याद् राज्ञां वा भाव.दोषतः ।

१७.१६
रूप.व्याज्याव् अधर्मिष्ठे धर्म्या तु प्रकृतिः स्मृता ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP