अर्थशास्त्रम् अध्याय ०३ - भाग १६

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


१६.०१
दत्तस्य_अप्रदानम् ऋण.आदानेन व्याख्यातम् ॥

१६.०२
दत्तम् अव्यवहार्यम् एकत्र_अनुशये वर्तेत ॥

१६.०३
सर्व.स्वं पुत्र.दारम् आत्मानं वा प्रदाय_अनुशयिनः प्रयच्छेत् ॥

१६.०४
धर्म.दानम् असाधुषु कर्मसु च_औपघातिकेषु वा, अर्थ.दानम् अनुपकारिष्व् अपकारिषु वा, काम.दानम् अनर्हेषु च ॥

१६.०५
यथा च दाता प्रतिग्रहीता च न_उपहतौ स्यातां तथा_अनुशयं कुशलाः कल्पयेयुः ॥

१६.०६
दण्ड.भयाद् आक्रोश.भयाद् अनर्थ.भयाद् वा भय.दानं प्रतिगृह्णतः स्तेय.दण्डः, प्रयच्छतश् च ॥

१६.०७
रोष.दानं पर.हिंसायां, राज्ञाम् उपरि दर्प.दानं च ॥

१६.०८
तत्र_उत्तमो दण्डः ॥

१६.०९
प्रातिभाव्यं दण्ड.शुल्क.शेषम् आक्षिकं सौरिकं च न_अकामः पुत्रो दायादो वा रिक्थ.हरो दद्यात् ॥ इति दत्तस्य_अनपाकर्म ।

१६.१०
अस्वामि.विक्रयस् तु - नष्ट.अपहृतम् आसाद्य स्वामी धर्मस्थेन ग्राहयेत् ॥

१६.११
देश.काल.अतिपत्तौ वा स्वयं गृहीत्वा_उपहरेत् ॥

१६.१२
धर्मस्थश् च स्वामिनम् अनुयुञ्जीत "कुतस् ते लब्धम्" इति ॥

१६.१३
स चेद् आचार.क्रमं दर्शयेत, न विक्रेतारं, तस्य द्रव्यस्य_अतिसर्गेण मुच्येत ॥

१६.१४
विक्रेता चेद् दृश्येत, मूल्यं स्तेय.दण्डं च दद्यात् ॥

१६.१५
स चेद् अपसारम् अधिगच्छेद् अपसरेद् आ.अपसार.क्षयात् ॥

१६.१६
क्षये मूल्यं स्तेय.दण्डं च दद्यात् ॥

१६.१७
नाष्टिकश् च स्व.करणं कृत्वा नष्ट.प्रत्याहृतं लभेत ॥

१६.१८
स्व.करण.अभावे पञ्च.बन्धो दण्डः ॥

१६.१९
तच् च द्रव्यं राज.धर्म्यं स्यात् ॥

१६.२०
नष्ट.अपहृतम् अनिवेद्य_उत्कर्षतः स्वामिनः पूर्वः साहस.दण्डः ॥

१६.२१
शुल्क.स्थाने नष्ट.अपहृत.उत्पन्नं तिष्ठेत् ॥

१६.२२
त्रि.पक्षाद् ऊर्ध्वम् अनभिसारं राजा हरेत्, स्वामी वा स्व.करणेन ॥

१६.२३
पञ्च.पणिकं द्विपद.रूपस्य निष्क्रयं दद्यात्, चतुष्पणिकम् एक.खुरस्य, द्विपणिकं गोमहिषस्य, पादिकं क्षुद्र.पशूनाम् ॥

१६.२४
रत्न.सार.फल्गु.कुप्यानां पञ्चकं शतं दद्यात् ॥

१६.२५
पर.चक्र.अटवी.हृतं तु प्रत्यानीय राजा यथा.स्वं प्रयच्छेत् ॥

१६.२६
चोर.हृतम् अविद्यमानं स्व.द्रव्येभ्यः प्रयच्छेत्, प्रत्यानेतुम् अशक्तो वा ॥

१६.२७
स्वयं.ग्राहेण_आहृतं प्रत्यानीय तन्.निष्क्रयं वा प्रयच्छेत् ॥

१६.२८
पर.विषयाद् वा विक्रमेण_आनीतं यथा.प्रदिष्टं राज्ञा भुञ्जीत, अन्यत्र_आर्य.प्राणेभ्यो देव.ब्राह्मण.तपस्वि.द्रव्येभ्यश् च ॥ इत्य् अस्वामि.विक्रयः ।

१६.२९
स्व.स्वामि.सम्बन्धस् तु - भोग.अनुवृत्तिर् उच्छिन्न.देशानां यथा.स्वं द्रव्याणाम् ॥

१६.३०
यत् स्वं द्रव्यम् अन्यैर् भुज्यमानं दश वर्षाण्य् उपेक्षेत, हीयेत_अस्य, अन्यत्र बाल.वृद्ध.व्याधित.व्यसनि.प्रोषित.देश.त्याग.राज्य.विभ्रमेभ्यः ॥

१६.३१
विंशति.वर्ष.उपेक्षितम् अनवसितं वास्तु न_अनुयुञ्जीत ॥

१६.३२
ज्ञातयः श्रोत्रियाः पाषण्डा वा राज्ञाम् असंनिधौ पर.वास्तुषु विवसन्तो न भोगेन हरेयुः, उपनिधिम् आधिं निधिं निक्षेपं स्त्रियं सीमानं राज.श्रोत्रिय.द्रव्याणि च ॥

१६.३३
आश्रमिणः पाषण्डा वा महत्य् अवकाशे परस्परम् अबाधमाना वसेयुः ॥

१६.३४
अल्पां बाधां सहेरन् ॥

१६.३५
पूर्व.आगतो वा वास.पर्यायं दद्यात् ॥

१६.३६
अप्रदाता निरस्येत ॥

१६.३७
वानप्रस्थ.यति.ब्रह्म.चारिणाम् आचार्य.शिष्य.धर्म.भ्रातृ.समान.तीर्थ्या रिक्थ.भाजः क्रमेण ॥

१६.३८
विवाद.पदेषु च_एषां यावन्तः पणा दण्डास् तावती रात्रीः क्षपण.अभिषेक.अग्नि.कार्य.महा.कच्छ.वर्धनानि राज्ञश् चरेयुः ॥

१६.३९
अहिरण्य.सुवर्णाः पाषढाः साधवः ॥

१६.४०
ते यथा.स्वम् उपवास.व्रतैर् आराधयेयुः, अन्यत्र पारुष्य.स्तेय.साहस.संग्रहणेभ्यः ॥

१६.४१
तेषु यथा.उक्ता दण्डाः कार्याः ॥

१६.४२
प्रव्रज्यासु वृथा.आचारान् राजा दण्डेन वारयेत् ।

१६.४२
धर्मो ह्य् अधर्म.उपहतः शास्तारं हन्त्य् उपेक्षितः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP