अर्थशास्त्रम् अध्याय ०३ - भाग १५

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


१५.०१
विक्रीय पण्यम् अप्रयच्छतो द्वादश.पणो दण्डः, अन्यत्र दोष.उपनिपात.अविषह्येभ्यः ॥

१५.०२
पण्य.दोषो दोषः ॥

१५.०३
राज.चोर.अग्न्य्.उदक.बाध उपनिपातः ॥

१५.०४
बहु.गुण.हीनम् आर्त.कृतं वा_अविषह्यम् ॥

१५.०५
वैदेहकानाम् एक.रात्रम् अनुशयः, कर्षकाणां त्रि.रात्रं, गो.रक्षकाणां पञ्च.रात्रम् ॥

१५.०६
व्यामिश्राणाम् उत्तमानां च वर्णानां वृत्ति.विक्रये सप्त.रात्रम् ॥

१५.०७
आतिपातिकानां पण्यानां "अन्यत्र.अविक्रेयम्" इत्य् अवरोधेन_अनुशयो देयः ॥

१५.०८
तस्य_अतिक्रमे चतुर्.विंशति.पणो दण्डः, पण्य.दश.भागो वा ॥०३.१५.०९
क्रीत्वा पण्यम् अप्रतिगृह्णतो द्वादश.पणो दण्डः, अन्यत्र दोष.उपनिपात.अविषह्येभ्यः ॥

१५.१०
समानश् च_अनुशयो विक्रेतुर् अनुशयेन ॥

१५.११
विवाहानां तु त्रयाणां पूर्वेषां वर्णानां पाणि.ग्रहणात् सिद्धम् उपावर्तनं, शूद्राणां च प्रकर्मणः ॥

१५.१२
वृत्त.पाणि.ग्रहणयोर् अपि दोषम् औपशायिकं दृष्ट्वा सिद्धम् उपावर्तनम् ॥

१५.१३
न त्व् एव_अभिप्रजातयोः ॥

१५.१४
कन्या.दोषम् औपशायिकम् अनाख्याय प्रयच्छतः कन्यां षण्.णवतिर् दण्डः, शुल्क.स्त्री.धन.प्रतिदानं च ॥

१५.१५
वरयितुर् वा वर.दोषम् अनाख्याय विन्दतो द्वि.गुणः, शुल्क.स्त्री.धन.नाशश् च ॥

१५.१६
द्विपद.चतुष्पदानां तु कुण्ठ.व्याधित.अशुचीनाम् उत्साह.स्वास्थ्य.शुचीनाम् आख्याने द्वादश.पणो दण्डः ॥

१५.१७
आ.त्रि.पक्षाद् इति चतुष्पदानाम् उपावर्तनम्, आ.संवत्सराद् इति मनुष्याणाम् ॥

१५.१८
तावता हि कालेन शक्यं शौच.आशौचे ज्ञातुम् ॥

१५.१९
दाता प्रतिग्रहीता च स्यातां न_उपहतौ यथा ।

१५.१९
दाने क्रये वा_अनुशयं तथा कुर्युः सभासदः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP