अर्थशास्त्रम् अध्याय ०३ - भाग १२

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


१२.०१
उपनिधिर् ऋणेन व्याख्यातः ॥

१२.०२
पर.चक्र.आटविकाभ्यां दुर्ग.राष्ट्र.विलोपे वा, प्रतिरोधकैर् वा ग्राम.सार्थ.व्रज.विलोपे, चक्र.युक्त.नाशे वा, ग्राम.मध्य.अग्न्य्.उदक.आबाधे ज्वाला.वेग.उपरुद्धे वा, नावि निमग्नायां मुषितायां वा स्वयम् उपरूढो न_उपनिधिम् अभ्यावहेत् ॥

१२.०३
उपनिधि.भोक्ता देश.काल.अनुरूपं भोग.वेतनं दद्यात्, द्वादश.पणं च दण्डम् ॥

१२.०४
उपभोग.निमित्तं नष्टं विनष्टं वा_अभ्यावहेत्, चतुर्.विंशति.पणश् च दण्डः, अन्यथा वा निष्पतने ॥

१२.०५
प्रेतं व्यसन.गतं वा न_उपनिधिम् अभ्यावहेत् ॥

१२.०६
आधान.विक्रय.अपव्ययनेषु च_अस्य चतुर्.गुण.पञ्च.बन्धो दण्डः ॥

१२.०७
परिवर्तने निष्पातने वा मूल्य.समः ॥

१२.०८
तेन_आधि.प्रणाश.उपभोग.विक्रय.आधान.अपहारा व्याख्याताः ॥

१२.०९
न_आधिः स-उपकारः सीदेत्, न च_अस्य मूल्यं वर्धेत, अन्यत्र निसर्गात् ॥

१२.१०
निरुपकारः सीदेत्, मूल्यं च_अस्य वर्धेत ॥

१२.११
उपस्थितस्य_आधिम् अप्रयच्छतो द्वादशण्पणो दण्डः ॥

१२.१२
प्रयोजक.असम्निधाने वा ग्राम.वृद्धेषु स्थापयित्वा निष्क्रयम् आधिं प्रतिपद्येत ॥

१२.१३
निवृत्त.वृद्धिको वा_आधिस् तत्.काल.कृत.मूल्यस् तत्र_एव_अवतिष्ठेत, अनाश.विनाश.करण.अधिष्ठितो वा ॥

१२.१४
धारणिक.असम्निधाने वा विनाश.भयाद् उद्गत.अर्घं धर्मस्थ.अनुज्ञातो विक्रीणीत, आधि.पाल.प्रत्ययो वा ॥

१२.१५
स्थावरस् तु प्रयास.भोग्यः फल.भोग्यो वा प्रक्षेप.वृद्धि.मूल्य.शुद्धम् आजीवम् अमूल्य.क्षयेण_उपनयेत् ॥

१२.१६
अनिसृष्ट.उपभोक्ता मूल्य.शुद्धम् आजीवं बन्धं च दद्यात् ॥

१२.१७
शेषम् उपनिधिना व्याख्यातम् ॥

१२.१८
एतेन_आदेशो_अन्वाधिश् च व्याख्यातौ ॥

१२.१९
सार्थेन_अन्वाधि.हस्तो वा प्रदिष्टां भूमिम् अप्राप्तश् चोरैर् भग्न.उत्सृष्टो वा न_अन्वाधिम् अभ्यावहेत् ॥

१२.२०
अन्तरे वा मृतस्य दायादो_अपि न_अभ्यावहेत् ॥

१२.२१
शेषम् उपनिधिना व्यकह्यातम् ॥

१२.२२
याचितकम् अवक्रीतकं वा यथा.विधं गृह्णीयुस् तथा.विधम् एव_अर्पयेयुः ॥

१२.२३
भ्रेष.उपनिपाताभ्यां देश.काल.उपरोधि दत्तं नष्टं विनष्टं वा न_अभ्यावहेयुः ॥

१२.२४
शेषम् उपनिधिना व्याख्यातम् ॥

१२.२५
वैयावृत्य.विक्रयस् तु - वैयावृत्य.करा यथा.देश.कालं विक्रीणानाः पण्यं यथा.जातं मूल्यम् उदयं च दद्युः ॥

१२.२६
देश.काल.अतिपातने वा परिहीणं सम्प्रदान.कालिकेन_अर्घेण मूल्यम् उदयं च दद्युः ॥

१२.२७
यथा.सम्भाषितं वा विक्रीणाना न_उदयम् अधिगच्छेयुः, मूल्यम् एव दद्युः ॥

१२.२८
अर्घ.पतने वा परिहीणं यथा.परिहीणं मूल्यम् ऊनं दद्युः ॥

१२.२९
सांव्यवहारिकेषु वा प्रात्ययिकेष्व् अराज.वाच्येषु भ्रेष.उपनिपाताभ्यां नष्टं विनष्टं वा मूल्यम् अपि न दद्युः ॥

१२.३०
देश.काल.अन्तरितानां तु पण्यानां क्षय.व्यय.विशुद्धं मूल्यम् उदयं च दद्युः, पण्य.समवायानां च प्रत्यंशम् ॥

१२.३१
शेषम् उपनिधिना व्याख्यातम् ॥

१२.३२
एतेन वैयावृत्य.विक्रयो व्याख्यातः ॥

१२.३३
निक्षेपश् च_उपनिधिना ॥

१२.३४
तम् अन्येन निक्ष्पितम् अन्यस्य_अर्पयतो हीयेत ॥

१२.३५
निक्षेप.अपहारे पूर्व.अपदानं निक्षेप्तारश् च प्रमाणम् ॥

१२.३६
अशुचयो हि कारवः ॥

१२.३७
न_एषां करण.पूर्वो निक्षेप.धर्मः ॥

१२.३८
करण.हीनं निक्षेपम् अपव्ययमानं गूढ.भित्ति.न्यस्तान् साक्षिणो निक्षेप्ता रहसि प्रणिपातेन प्रज्ञापयेत्, वन.अन्ते वा मद्य.प्रहवण.विश्वासेन ॥

१२.३९
रहसि वृद्धो व्याधितो वा वैदेहकः कश्चित् कृत.लक्षणं द्रव्यम् अस्य हस्ते निक्षिप्य_अपगच्छेत् ॥

१२.४०
तस्य प्रतिदेशेन पुत्रो भ्राता वा_अभिगम्य निक्षेपं याचेत ॥

१२.४१
दाने शुचिः, अन्यथा निक्षेपं स्तेय.दण्डं च दद्यात् ॥

१२.४२
प्रव्रज्या.अभिमुखो वा श्रद्धेयः कश्चित् कृत.लक्षणं द्रव्यम् अस्य हस्ते निक्षिप्य प्रतिष्ठेत ॥

१२.४३
ततः काल.अन्तर.आगतो याचेत ॥

१२.४४
दाने शुचिः, अन्यथा निक्षेपं स्तेय.दण्डं च दद्यात् ॥

१२.४५
कृत.लक्षणेन वा द्रव्येण प्रत्यानयेद् एनम् ॥

१२.४६
बालिश.जातीयो वा रात्रौ राज.दायिका.क्षण.भीतः सारम् अस्य हस्ते निक्षिप्य_अपगच्छेत् ॥

१२.४७
स एनं बन्धन.अगार.गतो याचेत ॥

१२.४८
दाने शुचिः, अन्यथा निक्षेपं स्तेय.दण्डं च दद्यात् ॥

१२.४९
अभिज्ञानेन च_अस्य गृहे जनम् उभयं याचेत ॥

१२.५०
अन्यतर्त.आदाने यथा.उक्तं पुरस्तात् ॥

१२.५१
द्रव्य.भोगानाम् आगमं च_अस्य_अनुयुञ्जीत, तस्य च_अर्थस्य व्यवहार.उपलिङ्गनम्, अभियोक्तुश् च_अर्थ.सामर्थ्यम् ॥

१२.५२
एतेन मिथः.समवायो व्याख्यातः ॥

१२.५३
तस्मात् साक्षिमद् अच्छन्नं कुर्यात् सम्यग्.विभाषितम् ।

१२.५३
स्वे परे वा जने कार्यं देश.काल.अग्र.वर्णतः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP