अर्थशास्त्रम् अध्याय ०३ - भाग ८

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


८.०१
सामन्त.प्रत्यया वास्तु.विवादाः ॥

८.०२
गृहं क्षेत्रम् आरामः सेतु.बन्धस् तटाकम् आधारो वा वास्तुः ॥

८.०३
कर्ण.कील.आयस.सम्बन्धो_अनुगृहं सेतुः ॥

८.०४
यथा.सेतु.भोगं वेश्म कारयेत् ॥

८.०५
अभूतं वा पर.कुड्याद् अपक्रम्य द्वाव् अरत्नी त्रिपदीं वा देश.बन्धं कारयेत् ॥

८.०६
अवस्करं भ्रमम् उद.पानं वा न गृह.उचिताद् अन्यत्र, अन्यत्र सूतिका.कूपाद् आ.निर्दश.अहाद् इति ॥

८.०७
तस्य_अतिक्रमे पूर्वः साहस.दण्डः ॥

८.०८
तेन_इन्धनावघातन.कृतं कल्याण.कृत्येष्व् आचाम.उदक.मार्गाश् च व्याख्याताः ॥

८.०९
त्रिपदी.प्रतिक्रान्तम् अध्यर्धम् अरत्निं वा गाढ.प्रसृतम् उदक.मार्गं प्रस्रवण.प्रपातं वा कारयेत् ॥

८.१०
तस्य_अतिक्रमे चतुष्.पञ्चाशत्.पणो दण्डः ॥

८.११
एकपदी.प्रतिक्रान्तम् अरत्निं वा चक्रि.चतुष्पद.स्थानम् अग्निष्ठम् उदन्.जर.स्थानं रोचनीं कुट्टनीं वा कारयेत् ॥

८.१२
तस्य_अतिक्रमे चतुर्.विंशति.पणो दण्डः ॥

८.१३
सर्व.वास्तुकयोः प्राक्षिप्तकयोर् वा शालयोः किष्कुर् अन्तरिका त्रिपदी वा ॥

८.१४
तयोश् चतुर्.अङ्गुलं नीप्र.अन्तरम्<नीव्र.अन्तरम्?> समारूढकं वा ॥

८.१५
किष्कु.मात्रम् आणि.द्वारम् अन्तरिकायां खण्ड.फुल्ल.अर्थम् असम्पातं कारयेत् ॥

८.१६
प्रकाश.अर्थम् अल्पम् ऊर्ध्वं वात.अयनं कारयेत् ॥

८.१७
तद्.अवसिते वेश्मनिच्_छादयेत् ॥

८.१८
सम्भूय वा गृह.स्वामिनो यथा.इष्टं कारयेयुः, अनिष्टं वारयेयुः ॥

८.१९
वान.लट्याश् च_ऊर्ध्वम् आवार्य.भागं कट.प्रच्छन्नम् अवमर्श.भित्तिं वा कारयेद् वर्ष.आबाध.भयात् ॥

८.२०
तस्य_अतिक्रमे पूर्वः साहस.दण्डः, प्रतिलोम.द्वार.वात.अयन.बाधायां च, अन्यत्र राज.मार्ग.रथ्याभ्यः ॥

८.२१
खात.सोपान.प्रणाली.निश्रेण्य्.अवस्कर.भागैर् बहिर्.बाधायां भोग.निग्रहे च ॥

८.२२
पर.कुड्यम् उदकेन_उपघ्नतो द्वादश.पणो दण्डः, मूत्र.पुरीष.उपघाते द्वि.गुणः ॥

८.२३
प्रणाली.मोक्षो वर्षति, अन्यथा द्वादश.पणो दण्डः ॥

८.२४
प्रतिषिद्धस्य च वसतः, निरस्यतश् च_अवक्रयिणम् अन्यत्र पारुष्य.स्तेय.साहस.संग्रहण.मिथ्या.भोगेभ्यः ॥

८.२५
स्वयं.अभिप्रस्थितो वर्ष.अवक्रय.शेषं दद्यात् ॥

८.२६
सामान्ये वेश्मनि साहाय्यम् अप्रयच्छतः, सामान्यम् उपरुन्धतो भोगं च गृहे द्वादश.पणो दण्डः ॥

८.२७
विनाशयतस् तद्.द्वि.गुणः ॥

८.२८
कोष्ठक.अङ्गण.वर्चानाम् अग्नि.कुट्टन.शालयोः ।

८.२८
विवृतानां च सर्वेषां सामान्यो भोग इष्यते ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP