अर्थशास्त्रम् अध्याय ०१ - भाग १९

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


१९.०१
राजानम् उत्थितम् अनूत्तिष्ठन्ते भृत्याः ॥

१९.०२
प्रमाद्यन्तम् अनुप्रमाद्यन्ति ॥

१९.०३
कर्माणि च_अस्य भक्षयन्ति ॥

१९.०४
द्विषद्भिश् च_अतिसंधीयते ।

१९.०५
तस्माद् उत्थानम् आत्मनः कुर्वीत ॥

१९.०६
नालिकाभिर् अहर् अष्टधा रात्रिं च विभजेत्, छाया.प्रमाणेन वा ॥

१९.०७
त्रिपौरुषी पौरुषी चतुर्.अङ्गुला नष्टच्.छायो मध्य.अह्न_इति चत्वारः पूर्वे दिवसस्य_अष्ट.भागाः ॥

१९.०८
तैः पश्चिमा व्याख्याताः ॥

१९.०९
तत्र पूर्वे दिवसस्य_अष्ट.भागे रक्षा.विधानम् आय.व्ययौ च शृणुयात् ॥

१९.१०
द्वितीये पौर.जानपदानां कार्याणि पश्येत् ॥

१९.११
तृतीये स्नान.भोजनं सेवेत, स्वाध्यायं च कुर्वीत ॥

१९.१२
चतुर्थे हिरण्य.प्रतिग्रहम् अध्यक्षांश् च कुर्वीत ॥

१९.१३
पञ्चमे मन्त्रि.परिषदा पत्त्र.सम्प्रेषणेन मन्त्रयेत, चार.गुह्य.बोधनीयानि च बुध्येत ॥

१९.१४
षष्ठे स्वैर.विहारं मन्त्रं वा सेवेत ॥

१९.१५
सप्तमे हस्त्य्.अश्व.रथ.आयुधीयान् पश्येत् ॥

१९.१६
अष्टमे सेना.पति.सखो विक्रमं चिन्तयेत् ॥

१९.१७
प्रतिष्ठिते_अहनि संध्याम् उपासीत ॥

१९.१८
प्रथमे रात्रि.भागे गूढ.पुरुषान् पश्येत् ॥

१९.१९
द्वितीये स्नान.भोजनं कुर्वीत, स्वाध्यायं च ॥

१९.२०
तृतीये तूर्य.घोषेण संविष्टश् चतुर्थ.पञ्चमौ शयीत ॥

१९.२१
षष्ठे तूर्य.घोषेण प्रतिबुद्धः शास्त्रम् इतिकर्तव्यतां च चिन्तयेत् ॥

१९.२२
सप्तमे मन्त्रम् अध्यासीत, गूढ.पुरुषांश् च प्रेषयेत् ॥

१९.२३
अष्टमे ऋत्विग्.आचार्य.पुरोहित.स्वस्त्ययनानि प्रतिगृह्णीयात्, चिकित्सक.माहानसिक.मौहूर्तिकांश् च पश्येत् ॥

१९.२४
सवस्तां धेनुं वृषभं च प्रदक्षिणी.कृत्य_उपस्थानं गच्छेत् ॥

१९.२५
आत्म.बल.आनुकूल्येन वा निशा.अहर्.भागान् प्रविभज्य कार्याणि सेवेत ॥

१९.२६
उपस्थान.गतः कार्य.अर्थिनाम् अद्वार.आसङ्गं कारयेत् ॥

१९.२७
दुर्दर्शो हि राजा कार्य.अकार्य.विपर्यासम् आसन्नैः कार्यते ॥

१९.२८
तेन प्रकृति.कोपम् अरि.वशं वा गच्छेत् ॥

१९.२९
तस्माद् देवता.आश्रम.पाषण्ड.श्रोत्रिय.पशु.पुण्य.स्थानानां बाल.वृद्ध.व्याधित.व्यसन्य्.अनाथानां स्त्रीणां च क्रमेण कार्याणि पश्येत्, कार्य.गौरवाद् आत्ययिक.वशेन वा ॥

१९.३०
सर्वम् आत्ययिकं कार्यं शृणुयान् न_अतिपातयेत् ।

१९.३०
कृच्छ्र.साध्यम् अतिक्रान्तम् असाध्यं वा_अपि जायते ॥

१९.३१
अग्न्य्.अगार.गतः कार्यं पश्येद् वैद्य.तपस्विनाम् ।

१९.३१
पुरोहित.आचार्य.सखः प्रत्युत्थाय_अभिवाद्य च ॥

१९.३२
तपस्विनां तु कार्याणि त्रैविद्यैः सह कारयेत् ।

१९.३२
माया.योगविदां चैव न स्वयं कोप.कारणात् ॥

१९.३३
राज्ञो हि व्रतम् उत्थानं यज्ञः कार्य.अनुशासनम् ।

१९.३३
दक्षिणा वृत्ति.साम्यं तु दीक्षा तस्य_अभिषेचनम् ॥

१९.३४
प्रजा.सुखे सुखं राज्ञः प्रजानां च हिते हितम् ।

१९.३४
न_आत्म.प्रियं हितं राज्ञः प्रजानां तु प्रियं हितम् ॥

१९.३५
तस्मान् नित्य.उत्थितो राजा कुर्याद् अर्थ.अनुशासनम् ।

१९.३५
अर्थस्य मूलम् उत्थानम् अनर्थस्य विपर्ययः ॥

१९.३६
अनुत्थाने ध्रुवो नाशः प्राप्तस्य_अनागतस्य च ।

१९.३६
प्राप्यते फलम् उत्थानाल् लभते च_अर्थसम्पदम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP