अर्थशास्त्रम् अध्याय ०१ - भाग १४

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


१४.०१
कृत्य.अकृत्य.पक्ष.उपग्रहः स्व.विषये व्याख्यातः, पर.विषये वाच्यः ॥

१४.०२
संश्रुत्य_अर्थान् विप्रलब्धः, तुल्य.कारिणोः शिल्पे वा_उपकारे वा विमानितः, वल्लभ.अवरुद्धः, समाहूय पराजितः, प्रवास.उपतप्तः, कृत्वा व्ययम् अलब्ध.कार्यः, स्वधर्माद् दायाद्याद् वा_उपरुद्धः, मान.अधिकाराभ्यां भ्रष्टः, कुल्यैर् अन्तर्हितः, प्रसभ.अभिमृष्ट.स्त्रीकः, कार.अभिन्यस्तः, पर.उक्त.दण्डितः, मिथ्या.आचार.वारितः, सर्व.स्वम् आहारितः, बन्धन.परिक्लिष्टः, प्रवासित.बन्धुः - इति क्रुद्ध.वर्गः ॥

१४.०३
स्वयम् उपहतः, विप्रकृतः, पाप.कर्म.अभिख्यातः, तुल्य.दोष.दण्डेन_उद्विग्नः, पर्यात्त.भूमिः, दण्डेन_उपनतः, सर्व.अधिकरणस्थः, सहसा.उपचित.अर्थः, तत्.कुलीन.उपाशंसुः, प्रद्विष्टो राज्ञा, राज.द्वेषी च - इति भीत.वर्गः ॥

१४.०४
परिक्षीणः, अन्य.आत्त.स्वः, कदर्यः, व्यसनी, अत्याहित.व्यवहारश् च - इति लुब्ध.वर्गः ॥

१४.०५
आत्म.सम्भावितः, मान.कामः, शत्रु.पूजा.अमर्षितः, नीचैर् उपहितः, तीक्ष्णः, साहसिकः, भोगेन_असंतुष्टः - इति मानि.वर्गः ॥

१४.०६
तेषां मुण्ड.जटिल.व्यञ्जनैर् यो यद्.भक्तिः कृत्य.पक्षीयस् तं तेन_उपजापयेत् ॥

१४.०७
"यथा मद.अन्धो हस्ती मत्तेन_अधिष्ठितो यद् यद् आसादयति तत् सर्वं प्रमृद्नाति, एवम् अयम् अशास्त्र.चक्षुर् अन्धो राजा पौर.जानपद.वधाय_अभ्युत्थितः, शक्यम् अस्य प्रतिहस्ति.प्रोत्साहनेन_अपकर्तुम्, अमर्षः क्रियताम्" इति क्रुद्ध.वर्गम् उपजापयेत् ॥

१४.०८
"यथा लीनः सर्पो यस्माद् भयं पश्यति तत्र विषम् उत्सृजति, एवम् अयं राजा जात.दोष.आशङ्कस् त्वयि पुरा क्रोध.विषम् उत्सृजति, अन्यत्र गम्यताम्" इति भीत.वर्गं.उपजापयेत् ॥

१४.०९
"यथा श्व.गणिनां धेनुः श्वभ्यो दुह्यते न ब्राह्मणेभ्यः, एवम् अयं राजा सत्त्व.प्रज्ञा.वाक्य.शक्ति.हीनेभ्यो दुह्यते न_आत्म.गुण.सम्पन्नेभ्यः, असौ राजा पुरुष.विशेषज्ञः, तत्र गम्यताम्" इति लुब्ध.वर्गं.उपजापयेत् ॥

१४.१०
"यथा चण्डाल.उद.पानश् चण्डालानाम् एव_उपभोग्यो न_अन्येषाम्, एवम् अयं राजा नीचो नीचानाम् एव_उपभोग्यो न त्वद्विधानाम् आर्याणाम्, असौ राजा पुरुष.विशेषज्ञः, तत्र गम्यताम्" इति मानि.वर्गम् उपजापयेत् ॥

१४.११
तथा_इति प्रतिपन्नांस् तान् संहितान् पण.कर्मणा ।

१४.११
योजयेत यथा.शक्ति स-अपसर्पान् स्व.कर्मसु ॥

१४.१२
लभेत साम.दानाभ्यां कृत्यांश् च पर.भूमिषु ।

१४.१२
अकृत्यान् भेद.दण्डाभ्यां पर.दोषांश् च दर्शयन् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP