अर्थशास्त्रम् अध्याय ०१ - भाग ८

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


८.०१
"सह.अध्यायिनो अमात्यान् कुर्वीत, दृष्ट.शौच.सामर्थ्यत्वात्" इति भारद्वाजः ॥

८.०२
"ते ह्य् अस्य विश्वास्या भवन्ति" इति ॥

८.०३
न_इति विशाल.अक्षः ॥

८.०४
"सह.क्रीडितत्वात् परिभवन्त्य् एनम् ॥

८.०५
ये ह्य् अस्य गुह्य.सधर्माणस् तान् अमात्यान् कुर्वीत, समान.शील.व्यसनत्वात् ॥

८.०६
ते ह्य् अस्य मर्मज्ञ.भयान् न_अपराध्यन्ति" इति ॥

८.०७
"साधारण_एष दोषः" इति पाराशराः ॥

८.०८
"तेषाम् अपि मर्मज्ञ.भयात् कृत.अकृतान्य् अनुवर्तेत ॥

८.०९
यावद्भ्यो गुह्यम् आचष्टे जनेभ्यः पुरुष.अधिपः ।

८.०९
अवशः कर्मणा तेन वश्यो भवति तावताम् ॥

८.१०
य_एनम् आपत्सु प्राण.आबाध.युक्तास्व् अनुगृह्णीयुस् तान् अमात्यान् कुर्वीत, दृष्ट.अनुरागत्वात्" इति ॥

८.११
न_इति पिशुनः ॥

८.१२
"भक्तिर् एषा न बुद्धि.गुणः ॥

८.१३
संख्यात.अर्थेषु कर्मसु नियुक्ता ये यथा.आदिष्टम् अर्थं सविशेषं वा कुर्युस् तान् अमात्यान् कुर्वीत, दृष्ट.गुणत्वात्" इति ॥

८.१४
न_इति कौणपदन्तः ॥

८.१५
"अन्यैर् अमात्य.गुणैर् अयुक्ता ह्य् एते ॥

८.१६
पितृ.पैतामहान् अमात्यान् कुर्वीत, दृष्ट.अवदानत्वात् ॥

८.१७
ते ह्य् एनम् अपचरन्तम् अपि न त्यजन्ति, सगन्धत्वात् ॥

८.१८
अमानुषेष्व् अपि च_एतद् दृश्यते ॥

८.१९
गावो ह्य् असगन्धं गो.गणम् अतिक्रम्य सगन्धेष्व् एव_अवतिष्ठन्ते" इति ॥

८.२०
न_इति वातव्याधिः ॥

८.२१
"ते ह्य् अस्य सर्वम् अवगृह्य स्वामिवत् प्रचरन्ति ॥

८.२२
तस्मान् नीतिविदो नवान् अमात्यान् कुर्वीत ॥

८.२३
नवास् तु यम.स्थाने दण्ड.धरं मन्यमाना न_अपराध्यन्ति" इति ॥

८.२४
न_इति बाहु.दन्ती पुत्रः ॥

८.२५
"शास्त्रविद् अदृष्ट.कर्मा कर्मसु विषादं गच्छेत् ॥

८.२६
तस्माद् अभिजन.प्रज्ञा.शौच.शौर्य.अनुराग.युक्तान् अमात्यान् कुर्वीत, गुण.प्राधान्यात्" इति ॥

८.२७
सर्वम् उपपन्नम् इति कौटिल्यः ॥

८.२८
कार्य.सामर्थ्याद्द् हि पुरुष.सामर्थ्यं कल्प्यते ॥

८.२९
सामर्थ्यश् च -- विभज्य_अमात्य.विभवं देश.कालौ च कर्म च ।

८.२९
अमात्याः सर्व एव_एते कार्याः स्युर् न तु मन्त्रिणः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP