अर्थशास्त्रम् अध्याय ०१ - भाग १

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


ॐ नमः.शुक्र.बृहस्पतिभ्यां

१.०१
पृथिव्या लाभे पालने च यावन्त्य् अर्थ.शास्त्राणि पूर्व.आचार्यैः प्रस्थापितानि प्रायशस् तानि संहृत्य_एकम् इदम् अर्थ.शास्त्रं कृतम् ॥

१.०२
तस्य_अयं प्रकरण.अधिकरण.समुद्देशः ॥

१.०३
विद्या.समुद्देशः, वृद्ध.समुद्देशः, इन्द्रिय.जयः, अमात्य.उत्पत्तिः, मन्त्रि.पुरोहित.उत्पत्तिः, उपधाभिः शौच.अशौच.ज्ञानम् अमात्यानाम्, - -

१.०३
गूढ.पुरुष.प्रणिधिः, स्व.विषये कृत्य.अकृत्य.पक्ष.रक्षणम्, पर.विषये कृत्य.अकृत्य.पक्ष.उपग्रहः, -

१.०३
मन्त्र.अधिकारः, दूत.प्रणिधिः, राज.पुत्र.रक्षणम्, अपरुद्ध.वृत्तम्, अपरुद्धे वृत्तिः, राज.प्रणिधिः, निशान्त.प्रणिधिः, आत्म.रक्षितकम्, --, इति विनय.अधिकारिकं प्रथमम् अधिकरणम् ॥

१.०४
जनपद.निवेशः, भूमिच्.छिद्र.अपिधानम्, दुर्ग.विधानम्, दुर्ग.निवेशः, सम्निधातृ.निचय.कर्म, समाहर्तृ.समुदय.प्रस्थापनम्, अक्ष.पटले गाणनिक्य.अधिकारः, -

१.०४
समुदयस्य युक्त.अपहृतस्य प्रत्यानयनम्, उपयुक्त.परीक्षा, शासन.अधिकारः, कोश.प्रवेश्य.रत्न.परीक्षा, आकर.कर्म.अन्त.प्रवर्तनम्, अक्ष.शालायां सुवर्ण.अध्यक्षः -

१.०४
विशिखायां सौवर्णिक.प्रचारः, कोष्ठ.आगार.अध्यक्षः, पण्य.अध्यक्षः, कुप्य.अध्यक्षः, आयुध.अध्यक्षः, तुला.मान.पौतवम्, -

१.०४
देश.काल.मानम्, शुल्क.अध्यक्षः, सूत्र.अध्यक्षः, सीत.अध्यक्षः, सुरा.अध्यक्षः, सून.अध्यक्षः, गणिका.अध्यक्षः, -

१.०४
नाव्.अध्यक्षः, गो.अध्यक्षः, अश्व.अध्यक्षः, हस्त्य्.अध्यक्षः, रथ.अध्यक्षः, पत्त्य्.अध्यक्षः, सेना.पति.प्रचारः, मुद्रा.अध्यक्षः, विवीत.अध्यक्षः, समाहर्तृ.प्रचारः, -

१.०४
गृह.पतिक.वैदेहक.तापस.व्यञ्जनाः प्रणिधयः, नागरिक.प्रणिधिः -- इत्य् अध्यक्ष.प्रचारो द्वितीयम् अधिकरणम् ॥

१.०५
व्यवहार.स्थापना, विवाद.पद.निबन्धः, विवाह.सम्युक्तम्, दाय.विभागः, वास्तुकम्, समयस्य अनपाकर्म, ऋण.अदानम्, औपनिधिकम्, दास.कर्म.कर.कल्पः, -

१.०५
सम्भूय समुत्थानम्, विक्रीत.क्रीत.अनुशयः, दत्तस्य अनपाकर्म, अस्वामि.विक्रयः, स्व.स्वामि.सम्बन्धः, साहसम्, वाक्.पारुष्यम्, दण्ड.पारुष्यम्, द्यूत.समाह्वयम्, प्रकीर्णकं - इति, धर्म.स्थीयं तृतीयम् अधिकरणम् ॥

१.०६
कारु.कर.क्षणम्, वैदेहक.रक्षणम्, उपनिपात.प्रतीकारः, गूढ.आजीविनां रक्षा, सिद्ध.व्यञ्जनैर् माणव.प्रकाशनम्, शङ्का.रूप.कर्म.अभिग्रहः, -

१.०६
आशु.मृतक.परीक्षा, वाक्य.कर्म.अनुयोगः, सर्व.अधिकरण.रक्षणं -

१.०६
एक.अङ्ग.वध.निष्क्रयः, शुद्धश् चित्रश् च दण्ड कल्पः, कन्या.प्रकर्म, अतिचार.दण्डाः - इति कण्टक.शोधनं चतुर्थम् अधिकरणम् ॥

१.०७
दाण्डकर्मिकम्, कोश.अभिसंहरणम्, भृत्य.भरणीयम्, अनुजीवि.वृत्तम्, समय.आचारिकम्, राज्य.प्रतिसंधानम्, एक.ऐश्वर्यं - इति योग.वृत्तं पञ्चमम् अधिकरणम् ॥

१.०८
प्रकृति.सम्पदः, शम.व्यायामिकं - इति मण्डल.योनिः षष्ठम् अधिकरणम् ॥

१.०९
षाड्गुण्य.समुद्देशः, क्षय.स्थान.वृद्धि.निश्चयः, संश्रय.वृत्तिः, समहीन.ज्यायसां गुण.अभिनिवेशः, हीन.संधयः, विगृह्य आसनम्, संधाय आसनम्, विगृह्य यानम्, संधाय यानम्, -

१.०९
सम्भूय प्रयाणम्, यातव्य.अमित्रयोर् अभिग्रह.चिन्ता, क्षय.लोभ.विराग.हेतवः प्रकृतीनाम्, सामवायिक.विपरिमर्शः, -

१.०९
संहित प्रयाणिकम्, परिपणित.अपरिपणित.अपसृताः संधयः, द्वैधी.भाविकाः संधि.विक्रमाः, यातव्य.वृत्तिः, अनुग्राह्य.मित्र.विशेषाः, -

१.०९
मित्र.हिरण्य.भूमि.कर्म.संधयः, पार्ष्णि.ग्राह.चिन्ता, हीन.शक्ति.पूरणम्, बलवता विगृह्य उपरोध.हेतवः, दण्ड.उपनत.वृत्तम्, -

१.०९
दण्ड.उपनायि.वृत्तम्, संधि.कर्म, समाधि.मोक्षः, मध्यम.चरितम्, उदासीन.चरितम्, मण्डल.चरितं - इति षाड्गुण्यं सप्तमम् अधिकरणम् ॥

१.१०
प्रकृति.व्यसन.वर्गः, राज.राज्ययोर् व्यसन.चिन्ता, पुरुष.व्यसन.वर्गः, पीडन.वर्गः, स्तम्भ.वर्गः, कोश.सङ्ग.वर्गः, मित्र.व्यसन.वर्गः - इति व्यसन.आधिकारिकम् अष्टमम् अधिकरणम् ॥

१.११
शक्ति.देश.काल.बल.अबल.ज्ञानम्, यात्रा.कालाः, बल.उपादान.कालाः, सम्नाह.गुणाः, प्रतिबल.कर्म, पश्चात् कोप.चिन्ता, बाह्य.आभ्यन्तर.प्रकृति.कोप.प्रतीकाराः -

१.११
क्षय.व्यय.लाभ.विपरिमर्शः, बाह्य.आभ्यन्तराश् च_आपदः, दुष्य.शत्रु.सम्युक्ताः, अर्थ.अनर्थ.संशय.युक्ताः, तासाम् उपाय.विकल्पजाः सिद्धयः - इत्य् अभियास्यत् कर्म नवमम् अधिकरणम् ॥

१.१२
स्कन्ध.आवार.निवेशः, स्कन्ध.आवार.प्रयाणम्, बल.व्यसन.अवस्कन्द.काल.रक्षणम्, कूट.युद्ध.विकल्पाः, स्व.सैन्य.उत्साहनम्, स्व.बल.अन्य.बल.व्यायोगः, युद्ध.भूमयः, पत्त्य्.अश्व.रथ.हस्ति.कर्माणि, पक्ष.कक्ष.उरस्यानां बल.अग्रतो व्यूह.विभागः, सार.फल्गु.बल.विभागः, पत्त्य्.अश्व.रथ.हस्ति.युद्धानि, दण्ड.भोग.मण्डल.असंहत.व्यूह.व्यूहनम्, तस्य प्रतिव्यूह.स्थापनं - इति सांग्रामिकं दशमम् अधिकरणम् ॥

१.१३
भेद.उपादानानि, उपांशु.दण्डाः - इति संघ.वृत्तम् एकादशम् अधिकरणम् ॥

१.१४
दूत.कर्म, मन्त्र.युद्धम्, सेना.मुख्य.वधः, मण्डल.प्रोत्साहनम्, शस्त्र.अग्नि.रस.प्रणिधयः, वीवध.आसार.प्रसार.वधः, योग.अतिसंधानम्, दण्ड.अतिसंधानम्, एक.विजयः - इत्य् आबलीयसं द्वादशम् अधिकरणम् ॥

१.१५
उपजापः, योग.वामनम्, अपसर्प.प्रणिधिः, पर्युपासन.कर्म, अवमर्दः, लब्ध.प्रशमनं - इति दुर्ग.लम्भ.उपायस् त्रयोदशम् अधिकरणम् ॥

१.१६
पर.बल.घात.प्रयोगः, प्रलम्भनम्, स्व.बल.उपघात.प्रतीकारः - इत्य् औपनिषदिकं चतुर्दशम् अधिकरणम् ॥

१.१७
तन्त्र.युक्तयः - इति तन्त्र.युक्तिः पञ्चदशम् अधिकरणम् ॥

१.१८
शास्त्र.समुद्देशः पञ्चदश.अधिकरणानि स-अशीति.प्रकरण.शतं स-पञ्चाशद्.अध्याय.शतं षट्.श्लोक.सहस्राणि_इति ॥

१.१९
सुख.ग्रहण.विज्ञेयं तत्त्व.अर्थ.पद.निश्चितम् ।

१.१९
कौटिल्येन कृतं शास्त्रं विमुक्त.ग्रन्थ.विस्तरम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP