साहित्य दर्पण - नवमः परिच्छेदः

साहित्य दर्पण संस्कृत भाषा में साहित्य-विषयक महान ग्रन्थ है। इसके रचयिता विश्वनाथ हैं। साहित्य दर्पण के रचयिता का समय 14वीं शताब्दी ठहराया जाता है।


अथोद्देशक्रमप्राप्तमलङ्कारनिरूपणं बहुवक्तव्यत्वेनोल्लङ्घ्य रीतिमाह---
पदसंघटना रीतिरङ्गसंस्थाविरोषवत् ।
उपकर्त्रो रसादीनां---
रसादीनामर्थाच्छब्दार्थशरीरस्य काव्यस्यात्मभूतानाम् ।

---सा पुनः स्याच्चतुर्विधा ॥१॥

वैदर्भो चाथ गौडी च पाञ्चाली लाटिका तथा ।

सरीतिः ।
तत्र---
माधुर्यव्यञ्जकेर्वर्णै रचना ललितात्मिका ॥२॥

अवृत्तिरल्पवृत्तिर्वा वैदर्भो रीतिरिष्यते ।

यथा---"अनङ्गमङ्गलभुवः--" इत्यादि ।
रुद्रटस्त्वाह--- असमस्तैकसमस्ता युक्ता दशभिर्गुणैश्च वैदर्भो ।
वर्गद्वितीयबहुला स्वल्पप्राणाक्षरा च सुविधेया ॥

अत्र दशगुणास्तन्मतोक्ताः श्लेषादयः ।

ओजः प्रकाशकैर्वणैर्बन्ध आडम्बरः पुनः ॥३॥

समासबहुला गौडी---
यथा---"चञ्चद्भुज--" इत्यादि ।
पुरुषोत्तमस्त्वाह--- "बहुतरसमासयुक्ता सुमहाप्राणाक्षरा च गौडीया ।
रीतिरनुप्रासमहिमपरतन्त्रा स्तोकवाक्या च" ॥

---वर्णैः शेषैः पुनर्द्वयोः ।
समस्तपञ्चषपदो बन्धः पाञ्चालिका मता ॥४॥

द्वयोर्वैदर्भोगौड्योः ।
यथा--- "मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे" ॥

भोजस्त्वाह---"समस्तपञ्चषपदामोजः कान्तिसमन्विताम् ।
मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः" ॥

लाटी तु रीतिर्वैदर्भोपाञ्चाल्योरन्तरे स्थिता ।

यथा---"अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम् ।
विरहविधुरकोकद्वन्द्वबन्धुविभिन्दन् कुपितकपिकपोलक्रोडताम्रस्तमांसि" ॥

कश्चिदाह---"मृदुपदसमाससुभगा युक्तैर्वर्णैर्न चातिभूयिष्ठा ।
उचितविशेषणपूरितवस्तुन्यासा भवेल्लाटी" ॥

अन्ये त्वाहुः---"गौडी डम्बरबद्धा स्याद्वैदर्भो ललितक्रमा ।
पाञ्चाली मिश्रभावेन लाटी तु मृदुभैः पदैः" ॥

क्वचित्तु वक्त्राद्यौचित्यादन्यथा रचनादयः ॥५॥

वाक्त्रदीत्यादिशब्दाद्वाच्यप्रबन्धौ . रचनादीत्यादिशब्दाद्वृत्तिवर्णौ ।
तत्र वक्त्रौचित्याद्यथा--- "मन्थायस्तार्णवाम्भः प्लुतकुहरचलन्मन्दरध्वानधईरः कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसङ्घट्टचण्डः ।
कृष्णाक्रोधग्रढूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितो ऽयम्" ॥

अत्र वाच्यक्रोधाद्य(न) भिव्यञ्जकत्वे ऽपि भीमसेनवक्तत्वेनोद्धता रचनादयः ।
वाच्यौचित्याद्यथोदाहृते "मूर्धव्याधूयमान---" इत्यादौ ।
प्रबन्धौचित्याद्यथा नाटकादौ रौद्रे ऽप्यभिनयप्रतिकूलत्वेन न दीर्घसमासादयः ।
एवमाख्यायिकायां शृङ्गारे ऽपि न मसृणवर्णादयः ।
कथायां रौद्रे ऽपि नात्यन्तमुद्धताः ।
एवमन्यदपि ज्ञेयम् ।

इति साहित्यादर्पणे रीतिविवेचनो नाम नवमः परिच्छेदः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP