साहित्य दर्पण - अष्टमः परिच्छेदः

साहित्य दर्पण संस्कृत भाषा में साहित्य-विषयक महान ग्रन्थ है। इसके रचयिता विश्वनाथ हैं। साहित्य दर्पण के रचयिता का समय 14वीं शताब्दी ठहराया जाता है।


गुणानाह---
रसस्याङ्गित्वमाप्तस्य धर्माः शौर्यादयो यथा ।

गुणाः--- यथा खल्वङ्गित्वमाप्तस्यात्मन उत्कर्षहेतुत्वाच्छौर्यादयो गुणशब्दवाच्याः, तथा काव्ये ऽङ्गित्वमाप्तस्य रसस्य धर्माः स्वरूपविशेषा माधुर्यादयो ऽपि स्वसमर्पकपदसन्दर्भस्य काव्यव्यपदेशस्यौपयिकानुगुण्यभाज इत्यर्थः ।
यथा चैषां रसमात्रस्य धर्मत्वं तथा दर्शितमेव ।

माधुर्यमोजो ऽथ प्रसाद इति ते त्रिधा ॥१॥

ते गुणाः ।
तत्र---
चित्तद्रवीभावमयो ङ्लादो माधुर्यमुच्यते ।

यत्तु--केनचिदुक्तम्--"माधुर्यं द्रुतिकारणम्" इति तन्न, द्रवीभावस्यास्वादस्वरूपाह्लादाभिन्नत्वेन कार्यत्वाभावात् ।
द्रवीभावश्च स्वाभाविकानाविष्टत्वात्मककाठिन्यमन्युक्रोधादिकृतदीप्तत्वविस्मयहासाद्युपहितविक्षेपपरित्यागेन रत्याद्याका रानुविद्धानन्दोद्वोधेनसहृदयचित्तार्द्रप्रायत्वम् ।
तच्च---
संभोगे करुणो विप्रलम्भे शान्ते ऽधिकं क्रमात् ॥२॥

सम्भोगादिशब्दा उपलक्षणानि ।
तेन सम्भोगाभासादिष्वप्येतस्य स्थितिर्ज्ञेया ।

मूर्ध्नि वर्गान्त्यवर्णोन युक्ताष्टठडढान्विना ।
रणौ लधू च तद्व्यक्तौ वर्णाः कारणतां गताः ॥३॥

अवृत्तिरल्पवृत्तिर्वा मधुरा रचना तथा ।

यथा--- "अनङ्गमङ्गलभुवस्तदपाङ्गस्य भङ्गयः ।
जनयन्ति मुहुर्यूनामन्तः सन्तापसन्ततिम्" ॥

यथा वा मम--- "लताकुञ्जं गुञ्जन् मदवदलिपुञ्जं चपलयन् समालिङ्गन्नङ्गं द्रुततरमनङ्गं प्रबलयन् ।
मरुन्मन्दं मन्दं दलितमरविन्दं तरलयन् रजोवृन्दं विन्दन् किरति मकरन्दं दिशि दिशि" ॥

ओजश्चित्तस्य विस्ताररूपं दीप्तत्वमुच्यते ॥४॥

वीरबीभत्सरौद्रेषु क्रमेणाधिक्यमस्य तु ।

अस्यौजसः ।
अत्रापि वीरादिशब्दा उपलक्षणानि ।
तेन वीराभासादावप्यस्यावस्थितिः ।

वर्गस्याद्यतृतीयाभायां युक्तौ वर्णौ तदन्तिमौ ॥५॥

उपर्यधो द्वयोर्वा सरेफौ टठडढैः सह ।
शकारश्च षकारश्र तस्य व्यञ्जकतां गताः ॥६॥

तथा समासो बहुलो घटनौद्धत्यशालिनी ।

यथा---"चञ्चद्भुज--" इत्यादि ।

चित्तं व्याप्नोति यः क्षिप्रं शुष्केन्धनमिवानलः ॥७॥

स प्रसादः समस्तेषु रसेषु रचनासु च ।

व्याप्नोति आविष्करोति ।

शब्दास्तद्व्यञ्जका अर्थबोधकाः श्रुतिमात्रतः ॥८॥

यथा--- "सूचीमुखेन सकृदेव कृतव्रणस्त्वं मुक्ताकलाप ! लुठसि स्तनयोः प्रियायाः ।
बाणैः स्मरस्य शतशो विनिकृत्तमर्मा स्वप्ने ऽपि तां कथमहं न विलोकयामि" ॥

एषां शब्दगुणत्वं च गुणवृत्त्योच्यते बुधैः ।

शरीरस्य शौर्यादिगुणयोग इव इति शेषः ।

श्लेषः समाधिरौदार्यः पसाद इति ये पुनः ॥९॥


गुणाश्चिरन्तनैरुक्ता औजस्यान्तर्भवन्ति ते ।

ओजसि भक्त्या औजः पदवाच्ये शब्द (अर्थ) धर्मविशेषे ।
तत्र श्लेषो बहूनामपि पदानामेकपदवद्भासनात्मा ।
यथा--- "उन्मज्जज्जलकुञ्जरेन्द्ररभासास्फालानुबन्धोद्धताः सर्वाः पर्वतकन्दरोदरभुवः कुर्वन् प्रतिध्वानिनीः ।
उच्चैरुच्चरति ध्वनिः श्रुतिपथोन्माथी यथायं तथा प्रायप्रेंखदसंख्यशङ्खधवला वेलेयमुद्रच्छति" ॥

अथं बन्धवैकट्यात्मकत्वादोज एव ।
समाधिरारोहावरोहक्रमः ।
आरोह उत्कर्षः, अवरोहो ऽपकर्षः, तयोः क्रमो वैरस्यतानावहो विन्यासः ।
यथा---"चञ्चद्भुज--" इत्यादि ।
अत्र पदात्रये क्रमेण बन्धस्य गाढता ।
चतुर्थपादे त्वपकर्षः ।
तस्यापि च तीव्रप्रयत्नोच्चार्यतया ओजस्विता ।
उदारता विकटत्वलक्षणा ।
विकटत्वं पदानां नृत्यत्प्रायत्वम् ।
यथा--- सुचरणविनिविष्टैर्नूपुरैर्नर्तकीनां भ्क्तणिति रणितमासीत्तत्र चित्रं कलं च ।
अत्र च तन्मतानुसारेण रसानुसन्धानमन्तरेणैव शब्दप्रौढोक्तिमात्रेणौजः ।
प्रसाद ओजोमिश्रितशौथिल्यात्मा ।
यथा--- "यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदात् पाण्डवीनां चमूनाम्" इति ।

माधुर्यव्यञ्जकत्वं यदसमासस्य दर्शितम् ॥१०॥

पृथक्पदत्वं माधुर्यं तेनैवाङ्गीकृतं पुनः ।

यथा---"श्वासान्मुञ्चति-" इत्यादि ।

अर्थव्यक्तेः प्रसादाख्यगुणेनैव परिग्रहः ॥११॥

अर्थव्यक्तिः पदानां हि झटित्यर्थसमर्पणम् ।

स्पष्टमुदाहरणम् ।

ग्राम्यदुः श्रवतात्यागात्कान्तिश्च सुकुमारता ॥१२॥

अङ्गीकृतेति सम्बन्धः ।
तच्च हालिकादिपदविन्यासवैपरीत्येनालौकिकशोभाशालित्वम् ।
सुकुमारता अपारुष्यम् ।
अनयोरुदाहरणे स्पष्टे ।

क्वचिद्दोषस्तु समता मार्गाभेदस्वरूपिणी ।
अन्यथोक्तगुणेष्वस्या अन्तः पातो यथायथम् ॥१३॥

मसृणेन विकटेन वा मार्गेणोपक्रान्तस्य सन्दर्भस्य तेनैव परिनिष्ठानं मार्गाभेदः ।
स च क्वचिद्दोषः ।
तथाहि--- "अव्यूढाङ्गमरूढपाणिजठराभोगं च बिभ्रद्वपुः पारीन्द्रः शिशुरेष पाणिपुटके सम्मातु किं तावता ।
उद्यद्दुर्धरगन्धसिन्धुरशतप्रोद्दामदानार्णव- स्त्रोतः शोषणरोषणात्पुनरितः कल्पाग्निरल्पायते" ॥

अत्रोद्धतेर्ऽथे वाच्ये सुकुमारबन्धत्यागो गुण एव ।
अनेवंविधस्थाने माधुर्यादावेवान्तः पातः ।
यथा---"लताकुञ्जं गुञ्जन्-" इत्यादि ।

ओजः प्रसादो माधुर्यं सौकुमार्यमुदारता ।
तदभावस्य दोषत्वात्स्वीकृता अर्थगा गुणाः ॥१४॥

ओजः साभिप्रायत्वरूपम् ।
प्रसादोर्ऽथवैमल्यम् ।
माधुर्यमुक्तिवैचित्र्यम् सौकुमार्यमपारुष्यम् ।
उदारता अग्रम्यत्वम् ।
एषां पञ्जानामप्यर्थगुणानां यथाक्रममपुष्टार्थाधिकपदानवीकृतामङ्गलरूपाश्लीलग्राम्याणांनिराकरणेनैवाङ्गीकारः ।
स्पष्टान्युदाहरणानि ।

अर्थव्यक्तिः स्वभावोक्त्यालङ्कारेण तथा पुनः ।
रसध्वनिगुणीभूतव्यङ्ग्यानां कान्तिनामकः ॥१५॥

अङ्गीकृत इति सम्बन्धः ।
अर्थव्यक्तिर्वस्तुस्वभावस्फुटत्वम् ।
कान्तिर्देप्तरसत्वम् ।
स्पष्टे उदाहरणे ।

श्लेषो विचित्रतामात्रमदोषः समता परम् ।

श्लेषः क्रमकौटिल्यानुल्वणत्वोपपत्तियोगरूपघटनात्मा ।
तत्र क्रमः क्रियासन्ततिः, विदग्धचेष्टितं कौटिल्यम्, अप्रसिद्धवर्णनाविरहो ऽनुल्वणत्वम्, उपपादकयुक्तिविन्यास उपपत्तिः एषां योगः सम्मेलनं स एव रूपं यस्या घटनायास्तद्रूपः श्लेषो वैचित्र्यमात्रम् ।
अनन्यसाधारणरसोपकरित्वातिशयविरहादिति भावः ।
यथा--- "दृष्ट्वैकानसांस्थिते प्रियतमे-" इत्यादि ।
अत्र दर्शनादयः क्रियाः, उभयसमर्थनरूपं कौटिल्यम्, लोकसंव्यवहाररुपमनुल्वणत्वम्, एकासनसंस्थिते, "पश्चादुपेत्य" "नयने पिधाय" "ईषद्वक्त्रितकन्धरः" इति चोपपादकानि, एषां योगः ।
अनेन च वाच्योपपत्तिग्रहणव्यग्रतया रसत्वादौ व्यवहितप्राय इत्यस्यागुणता ।
समता च प्रक्रान्तप्रकृतिप्रत्ययाविपर्यासेनार्थस्य विसंवादिताविच्छेदः ।
स च प्रक्रमभङ्गरूपविरह एव ।
स्पष्टमुदाहरणम् ।

न गुणत्वं समाधेश्च---
समाधिश्चायोन्यन्यच्छायायोनिरूपद्विविधार्थदृष्टिरूपः ।
तत्रायोनिरर्थो यथा--- "सद्योमुण्डितमत्तहूणचिबुकप्रस्पर्धि नारङ्गकम् ।
अन्यच्छायायोनिर्यथा--- "निजनयनप्रतिविम्बैरम्बुनि बहुशः प्रतारिता कापि ।
नीलोत्पले ऽपि विमृशति करमर्पयितुं कुसुमलावी" ॥

अत्र नीलोत्पलनयनयोरतिप्रसिद्धं सादृश्यं विच्छित्तिविशेषेण निबद्धम् ।
अस्य चासाधारणशोभानाधायकत्वान्न गुणत्वम्, किन्तु काव्यशरीरमात्रनिर्वर्तकत्वम् ।
क्वचित् "चन्द्रम्" इत्येकस्मिन् पदार्थे वक्तव्ये "अत्रेर्नयनसमुत्थं ज्योतिः" इति वाक्यवचनम् ।
क्वचित् "निदाघशीतलहिमकालोष्ण्सुकुमारशरीरावयवा योषित्" इति वाक्यार्थे वक्तव्ये "वरवणिनी" इति पदाभिधानम् ।
क्वचिदेकस्य वाक्यार्थस्य किञ्चिद्विशेषनिवेशादनेकैर्वाक्यारभिधानमित्येवंरूपो व्यासः ।
क्वचिद्वहुवाक्यप्रतिपाद्यस्यैकवाक्येनाभिधानमित्येवंरूपः समासश्च, इत्येवमादीनामन्यैरुक्तानां न गुणत्वमुचितम्, अपि तुवैचित्र्यमात्रावहत्वम् ।

---तेन नार्थगुणाः पृथक् ॥१६॥

तेनोक्तप्रकारेण ।
अर्थगुण ओजः प्रभृतयः प्रोक्ताः ।

इति साहित्यदर्पणे गुणविवेचनो नामाष्टमः परिच्छेदः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP