साहित्य दर्पण - द्वितीयः परिच्छेदः

साहित्य दर्पण संस्कृत भाषा में साहित्य-विषयक महान ग्रन्थ है। इसके रचयिता विश्वनाथ हैं। साहित्य दर्पण के रचयिता का समय 14वीं शताब्दी ठहराया जाता है।


वाक्यस्वरूपमाह--
वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः ।

योग्यता पदार्थानां परस्परसंबन्धे बाधाभावः ।
पदोच्चयस्यैतदभावे ऽपि वाक्यत्वे "वह्निना सिञ्चिति" इत्याद्यपि वाक्यं स्यात् ।
आकाङ्क्षा प्रतीतिपर्यवसानविरहः ।
स च श्रोतुर्जिज्ञासारूपः ।
निराकाङ्क्षस्य वाक्यत्वे "गौरश्वः पुरुषो इस्ती" इत्यादीनामप वाक्यत्वं स्यात् ।
आसत्तिर्बुद्ध्यविच्छेदः ।
बुद्धिविच्छेदे ऽपि वाक्यत्वे इदानीमुच्चारितस्य देवदत्तशब्दस्य दिनात्नरो च्चारितेन गच्छतीति पदेन सङ्गतिः स्यात् ।
अत्राकाङ्क्षायोग्यतयोरात्मार्थधर्मत्वे ऽपि पदोच्चयधर्मत्वमपचारात् ।

वाक्योच्चयो महावाक्यम्
योग्यताकाङ्क्षासत्तियुक्त इत्येव ।

इत्थं वाक्यं द्विधा मतम् ॥१॥

इत्थमिति वाक्यत्वेन महावाक्यत्वेन च ।
उक्तं च तन्त्रवार्तिके-- "स्वार्थबोधसमाप्तानामङ्गाङ्गित्वव्यपेक्षया ।
वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते" ॥

इति ।
तत्र वाक्यं यथा--"शून्यं वासगृहम्-ऽित्यादि (२२ पृ.) ।
महावाक्यं यथा-- रामायण-महाभारत-रघुवंशादि ।
पदोच्चयो वाक्यमित्युक्तम् ।
तत्र किं पदलक्षणमित्यत आह--
वर्णाः पदं प्रयोगार्हानन्वितेकार्थबोधकाः ।

यथा--घट. ।
प्रयोगार्हेति प्रातिपदिकस्य व्यवच्छेदः ।
अनन्वितेति वाक्यमहावाक्ययोः ।
एकेति साकाङ्क्षानेकपदवाक्यानाम् ।
अर्थबोधका इति कचटतपेत्यादीनाम् ।
वर्णा इति बहुवचनमविवक्षितम् ।

अर्थो वाच्यश्व लक्ष्यश्च व्यङ्ग्यश्चेति त्रिधा मतः ॥२॥

एषां स्वरूपमाह--
वाच्योर्ऽथो ऽभिधया बोध्यो लक्ष्यो लक्षणया मतः ।
व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्त्रः शब्दस्य शक्तयः ॥३॥

ता अभिधाद्याः ।

तत्र संकेतितार्थस्य बोधनादग्रिमाभिधा ।

उत्तमवृद्धेन मध्यमवृद्धमुद्दिश्य "गामानय" इत्युक्ते तं गवानयनप्रवृत्तमुपलभ्य बालो ऽस्य वाक्यस्य "सास्नादिमत्पिण्डानयनमर्थः" इति प्रथमं प्रतिपद्यते, अनन्तरं च "गां बधान" "अश्वमानय" इत्यादावावापोद्वापाभ्यां गोशब्दस्य "सास्नादिमानर्थः" आनयनपदस्य च "आहरणमर्थः" इति संकेतमवधारयति ।
क्वचिच्च प्रसीद्धपदसमभिव्याहरात्, यथा-- "इह प्रभिन्नकमलोदरे मधूनि मधुकरः पिबति" इत्यत्र ।
क्वचिदाप्तोपदेशात्, यथा-- "अयमश्वशब्दवाच्यः" इत्यत्र ।
तं च सङ्केतितमर्थं बोधयन्ती शब्दस्य शक्त्यन्तरानन्तरिता शक्तिरभिधा नाम ।

सङ्केतो गृह्यते जातौ गुणद्रव्यक्रियासु च ॥४॥

जातिर्गोपिण्डादिषु गोत्वादिका ।
गुणो विशेषाधानहेतुः सिद्धो वस्तुधर्मः ।
शुक्लादयो हि गवादिरं सजातीयेभ्यः कृष्णगवादिभ्यो व्यावर्तयन्ति ।
द्रव्यशब्दा एकव्यक्तिवाचिनो हरिहर-डित्थडवित्थादयः ।
क्रियाः साध्यरूपा वस्तुधर्माः पाकादयः ।
एषु हि अधिश्रयणावश्रयणान्तादिपूर्वापरीभूतो व्यापारकलापः पाकादिशब्दवाच्यः ।
एष्वेव हि व्यक्तेरुपाधिषु संकेतो गृह्यते, न व्यक्तौः आनन्त्यव्यभिचारदोषापातात् ।
अथ लक्षणा--
मुख्यार्थबाधे तद्युक्तो ययान्योर्ऽथः प्रतीयते ।
रूढेः प्रयोजनाद्वासौ लक्षणा शक्तिरर्पिता ॥५॥

"कलिङ्गः साहसिकः" इत्यादौ कलिङ्गादिशब्दो देशविशेषादिरूपे स्वार्थे ।
ञसंभवन् यया शब्दशक्त्या स्वसंयुक्तान् पुरुषादीन् प्रत्याययति, यया च "गङ्गायां घोषः" इत्यादौ गङ्गादिशब्दो जलमयादिरूपार्थवाचकत्वात्प्रकृते ऽसंभवन् स्वस्य सामीप्यादिसंबन्धसंबन्धिनं तटादिं बोधयति, सा शब्दस्यार्पिता स्वाभविकेतरा ईश्वरानुद्भाविता वा शक्तिर्लक्षणा नाम ।
पूर्वत्र हेतू रूढिः प्रसिद्धिरेव ।
उत्तरत्र "गङ्गातटे घोषः" इति प्रतिपादनालभ्यस्य शीतत्वपावनत्वातिशयस्य बोधनरूपं प्रयोजनम् ।
हेतुं विनापि यस्य कस्यचित्संबन्धिनो लक्षणो ऽतिप्रसङ्गः स्यात्, इत्युक्तम्-- "रूढेः प्रयोजनाद्वासौ" इति ।
केचित्तु "कर्मणि कुशलः" इति रूढावुदाहरन्ति ।
तेषामयमभिप्रायः-- कुशांल्लातीति व्युत्पत्तिलभ्यः कुशग्राहिरूपो मुख्योर्ऽथः प्रकृते ऽसंभवन् विवेचकत्वादिसाधर्म्यसम्बन्धसम्बन्धिनं दक्षरूपमर्थं बोधयति ।
तदन्ये न मन्यन्ते ।
कुशग्राहिरूपार्थस्य व्युत्पत्तिलभ्यत्वे ऽपि दक्षरूपस्यैव मुख्यार्थत्वात् ।
अन्यद्धि शब्दानां व्युत्पत्तिनिमित्तमन्यच्च प्रवृत्तिनिमित्तम् ।
व्युत्पत्तिलभ्यस्य मुख्यार्थत्वे "गौः शेते" इत्यत्रापि लक्षणा स्यात् ।
"गमेर्डेः" (उणादि--२-६७) इति गमधतोर्डेप्रत्ययेन व्युत्पादितस्य गोशब्दस्य शयनकाले प्रयोगात् ।
तद्भेदानाह--
मुख्यार्थस्येतराक्षेपो वाक्यार्थे ऽन्वयसिद्धये ।
स्यादात्मनो ऽप्युपादानादेषोपादानलक्षणा ॥६॥

रूढावुपादानलक्षणा यथा-- "श्वेतो धावति" ।
प्रयोजने यथा-- "कुन्ताः प्रविशन्ति" ।
अनयोर्हि श्वेतादिभिः कुन्तादिभिश्चाचेतनतया केवलैर्धावनप्रवेशनक्रिययोः कर्तृतयान्वयमलभमानैरेतत्सिद्धये आत्मसम्बन्धिनो ऽश्वादयः पुरुषाद यश्चाक्षिप्यन्ते ।
पूर्वत्र प्रयोजनाभावाद्रूढिः, उत्तरत्र तु कुन्तादीनामतिगहनत्वं प्रयोजनम् ।
अत्र च मुख्यार्थस्यात्मनो ऽप्युपादानम् ।
लक्षणलक्षणायां तु परस्यैवोपलक्षणमित्यनयोर्भेदः ।
इयमेवाजहत्स्वार्थेत्युच्यते ।

अर्पणं स्वस्य वाक्यार्थे परस्यान्वयसिद्धये ।
उपलक्षणहेतुत्वादेषा लक्षणलक्षणा ॥७॥

रूढिप्रयोजनयोर्लक्षणलक्षणा यथा-- "कलिङ्गः साहसिकः" "गङ्गायां घोषः" इति च ।
अनयोर्हि पुरुषतटयोर्वाक्यार्थे ऽन्वयसिद्धये कलिङ्गगङ्गाशब्दावात्मानमर्पयतः ।
यथा वा-- "अपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् ।
विदधदीदृशमेव सदा सखे ! सुखितमास्स्व ततः शरदां शतम्" ॥

अत्रापकारादीनां वाक्यार्थे ऽन्वयसिद्धये उपकृतादयः शब्दा आत्मानमर्पयन्ति ।
अपकारिणं प्रत्युपकारादिप्रतिपादनान्मुख्यार्थबाधो वैपरीत्यलक्षणः सम्बन्धः, फलमप्यपकारातिशयः ।
इयमेव जहत्स्वार्थेत्युच्यते ।

आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि द्विधा ।

ताः पूर्वोक्ताश्चतुर्भेदलक्षणाः ।

विषयस्यानिगीर्णस्यान्यतादात्म्यप्रतीतिकृत ॥८॥

सारोपा स्यान्निगीर्णस्य मता साध्यवसानिका ।

विषयिणा अनिगीर्णस्य विषयस्य तेनैव सह तादात्म्यप्रतीतिकृत्सारोपा ।
इयमेव रूपकालङ्कारस्य बीजम् ।
रूढावुपादानलक्षणा सारोपा यथा-- "अश्वः श्वेतो धावति" ।
अत्र हि श्वेतगुणवानश्वो ऽनिगीर्णस्वरूपः स्वसमवेतगुणतादात्म्येन प्रतीयते ।
प्रयोजने यथा-- "एते कुन्ताः प्रविशन्ति" ।
अत्र सर्वनाम्ना कुन्तधारिपुरुषनिर्देशात् ।
रूढौ लक्षणलक्षणा सारेपा यथा-- "कलिङ्गः पुरुषो युध्यते" ।
अत्र कलिङ्ग पुरुषयोराधाराधेयभावः सम्बन्धः ।
प्रयोजने यथा-- "आयुर्घृतम्" ।
अत्रायुष्कारणमपि घृतं कार्यकारणभावसम्बन्धसम्बन्ध्यायुस्तादात्म्येन प्रतीयते ।
अन्यवैलक्षण्येनाव्यभिचारेणायुष्करत्वं प्रयोजनम् ।
यथा वा-- राजकीये पुरुषे गच्छति "राजासौ गच्छति" इति ।
अत्र स्वस्वामिभावलक्षणः सम्बन्धः ।
यथा वा-- अग्रमात्रे ऽवयवभागे "हस्तो ऽयम्" ।
अत्रावयवावयवि भावलक्षणसम्बन्धः ।
"ब्राह्मणो ऽपि तक्षासौ" ।
अत्र तात्कर्म्यलक्षणः ।
इन्द्रार्थासु स्थूणासु "अमी इन्द्राः" ।
अत्र तादर्थ्यलक्षणः सम्बन्धः ।
एवमन्यत्रापि ।
निगीर्णस्य पुनविषयस्यान्यतादात्म्यप्रतीतिकृत्साध्यवसाना ।
अस्याश्चतुर्षु भेदेषु पूर्वोदाहरणान्येव ।
तदेवमष्टप्रकारा लक्षणा ।

सादृश्येतरसंबन्धाः शुद्धास्ताः सकला अपि ॥९॥

सादृश्यात्तु मता गौण्यस्तेन षोडश भेदिताः ।

ताः पूर्वोक्ता अष्टभेदा लक्षणाः ।
सादृश्येतरसंबन्धाः कार्यकारणभावादयः ।
अत्र शुद्धानां पूर्वोदाहरणान्येव ।
रूढावुपादानलक्षणा सारेपा गौणी यथा-- एतानि तैलानि हेमन्ते सुखानि" ।
अत्र तैलशब्दस्तिलभवस्नेहरूपं मुख्यार्थमुपादायैव सार्षपादिषु स्नेहेषु वर्तते ।
प्रयोजने यथा-- राजकुमारेषु तत्सदृशेषु च गच्छत्सु"एते राजकुमारा गच्छन्ति" ।
रूढावुपादानलक्षणा साध्यवसाना गौणी यथा-- "तैलानि हेमन्ते सुखानि" ।
प्रयोजने यथा-- "राजकुमारा गच्छन्ति" रूढौ लक्षणलक्षणा सारेपा गौणी यथा-- "राजा गौडेन्द्रं कण्टकं शोधयति" ।
प्रयोजने यथा-- "गौर्वाहीकः" रूढौ लक्षणलक्षणा साध्यवसाना गौणी यथा-- "राजा कण्टकं शोधयति" ।
प्रयोजने यथा--गौर्जल्पति" ।
अत्र केचिदाहुः--गौसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यन्ते ।
ते च गोशब्दस्य वाहीकार्थाभिधाने निमित्तीभवन्ति ।
तदयुक्तम्-- गोशब्दस्यागृहीतसङ्केतं वाहीकार्थमभिधातुमशक्यत्वाद् गोशब्दार्थमात्रबोधनाच्च ।
अभिधाया विरतत्वाद् विरतायाश्च पुनरुत्थानाभावात् ।
अन्ये च पुनर्गौशब्देन वाहीकार्थो नाभिधीयते, किन्तु स्वार्थसहचारिगुणसाजात्येन वाहीकार्थगता गुणा एव लक्ष्यन्ते ।
तदप्यन्ये न मन्यन्ते ।
तथाहि-- अत्र गोशब्दाद्वाहीकार्थः प्रतीयते, न वा ? आद्ये गोशब्दादेव वा ? लक्षिताद्वा गुणाद् ? अविनाभावाद्वा ? तत्र, न प्रथमः, वाहीकार्थे ऽस्यासङ्केतित्वात् ।
न द्वितीयः,-- अविनाभावलभ्यस्यार्थस्य शाब्दे ऽन्वये प्रवेशासंभवात् ।
शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते ।
न द्वितीयः,-- यदि हि गोशब्दाद्वाहीकार्थो न प्रतीयते, तदास्य वाहीकशब्दस्य च सामानाधिकरण्यमसमञ्जसं स्यात् ।
तस्मादत्र गोशब्दो मुख्ययावृत्त्या वाहीकशब्देन सहान्वयमलभमानो ऽज्ञत्वादिसाधर्म्यसंबन्धाद्वाहीकार्थं लक्षयति ।
वाहीकस्याज्ञत्वाद्यतिशयबोधनं प्रयोजनम् ।
इयं च गुणयोगाद्रौणीत्युच्यते ।
पूर्वा तूपचारामिश्रणाच्छुद्धा ।
उपचारो हि नामात्यन्तं विशकलितयोः शब्दयोः सादृश्यातिशयमहिम्ना भेदप्रतीतिस्थगनमात्रम् ।
यथा--अग्रिमाणवकयोः" ।
शुक्लपटयोस्तु नात्यन्तं भेदप्रतीतिः, तस्मादेवमादिषु शुद्धैव लक्षणा ।

व्यङ्ग्यस्य गूढागूढत्वाद्द्विधा स्युः फललक्षणाः ॥१०॥

प्रयोजने या अष्टभेदा लक्षणा दशितास्ताः प्रयोजनरूपव्यङ्ग्यस्य गूढागूढतया प्रत्येकं द्विधा भूत्वा षोढश भेदाः ।
तत्र गूढः, काव्यार्थभावनापरिपक्वबुद्धिविभवमात्रवेद्यः ।
यथा-- "उपकृतं बहु तत्र-" इति ।
अगूढः, अतिस्फुटतया सर्वजनसंवेद्यः ।
यथा-- उपदिशतिं कामिनीनां यौवनमद एव ललितानि" ॥

अत्र"उपदिशति" इत्यनेन "आविष्करोति" इति लक्ष्यते ।
आविष्कारतिशयश्चाभिधेयवत्स्फुट प्रतीयते ।

धर्मिधर्मगतत्वेन फलस्यैता अपि द्विधा ।

एता अनन्तरोक्ताः षोडशभेदा लक्षणाः फलस्य धर्मिगतत्वेन धर्मगतत्वेन च प्रत्येकं द्विधा भूत्वा द्वात्रिंशद्भेदाः ।
दिङ्भात्रं यथा-- "स्त्रिग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।
कामं सन्तु दृढं कठोरहृदयो रामो ऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव" ॥

अत्रात्यन्तदुःखसहिष्णुरूपे रामे धर्मिणि लक्ष्ये तस्यैवातिशयः फलम् ।
"गङ्गायां घोषः" इत्यत्र तटे शीतत्वपावनत्वरूपधर्मस्यातिशयः फलम् ।

तदेवं लक्षणाभेदाश्चत्वारिंशन्मता बुधैः ॥११॥

रूढावष्टौ फले द्वात्रिंशदिति चत्वारिशल्लक्षणाभेदाः ।
किञ्च--
पदवाक्यगतत्वेन प्रत्येकं ता अपि द्विधा ।

ता अनन्तरोक्ताश्च त्वारिंशद्भेदाः ।
तत्र पदगतत्वे यथा-- "गङ्गायां घोषः" ।
वाक्यगतत्वे यथा-- "उपकृतं बहु तत्रऽिति ।
एवमशीतिप्रकारा लक्षणा ।
अथ व्यञ्जना--
विरतास्वभिधाद्यासु ययार्ऽथो बोध्यते परः ॥१२॥

सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्य च ।

"शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः" इति नयेनाभिधालक्षणातात्पर्याख्यासु तिसृषु वृत्तिषु स्वं स्वमर्थं बोधयित्वोपक्षीणासु यथा अपरो ऽन्यो ऽन्योर्ऽथो बोध्यते सा शब्दस्यार्थस्य प्रकृतिप्रत्ययादेश्च शक्तिर्व्यञ्जनध्वननगमनप्रत्यायनादिव्यपदेशविषया व्यञ्जना नाम ।
तत्र--
अभिधालक्षणामूला शब्दस्य व्यञ्जना द्विधा ॥१३॥

अभिधामूलामाह--
अनेकार्थस्य शब्दस्य संयोगाद्यैर्नियन्त्रिते ।
एकत्रार्थे ऽन्यधीहेतुर्व्यञ्जना साभिधाश्रया ॥१४॥

आदिशब्दाद्विप्रयोगादयः ।
उक्तं हि-- "संयोगो विप्रयोगश्च साहचर्यं विरोधिता ।
अर्थः प्रकारणं लिङ्गंशब्दस्यान्यस्य संनिधिः ॥

सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः ।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः" ॥

इति ।
"सशङ्ख्चक्रो हरिः" इति शङ्ख्चक्रयोगेन हरिशब्दो विष्णुमेवाभिधत्ते ।
"अशङ्खचक्रो हरिः" इति तद्वियोगेन तमेव ।
"भीमार्जुनौ" इति अर्जुनः पार्थः ।
"कर्णार्जुनौ" इति कर्णः सूतपुत्रः ।
"स्थाणुं वन्दे" इति स्थाणुः शिवः ।
"सर्वं जानाति देवः" इति देवो भवान् ।
"कुपितो मकरध्वजः" इति मकरध्वजः कामः ।
"देवः पुरारिः" इति पुरारिः शिवः ।
"मधुना मत्तः पिकः" इति मधुर्वसन्तः ।
"यातु वो दयितामुखम्" इति मुखं सांमुख्यम् ।
"विभाति गगने चन्द्रः, इति चन्द्रः शशी ।
"निशि चित्रभानुः" इति चित्रभानुर्वाह्निः ।
"भाति रथाङ्गम्" रथाङ्गम्" इति नपुंसकव्यक्त्या रथाङ्गं चक्रम् ।
स्वरस्तु वेद एव विशेषप्रतीतिकृन्न काव्य इति तस्य विषयो नोदाहृतः ।
इदं च के ऽप्यसहमाना आहुः-- स्वरो ऽपि काक्कादिरूपः काव्ये विशेषप्रतीतिकृदेव ।
उदात्तादिरूपो ऽपि मुनेः पाठोक्तदिशा शृङ्गारादिरसविशेषप्रतीतिकृदेव" इति एतद्विषये उदाहरणमुचितमेव इति, तन्न॑ तथाहि-- स्वराः काक्कादयः उदात्तादयो वा व्यङ्ग्यरूपमेव विशेषं प्रत्यायन्ति, न खलु प्रकृतोक्तमनेकार्थशब्दस्यैकार्थनियन्त्रणरूपं विशेषम् ।
किञ्च यदि यत्र क्वचिदनेकार्थशब्दानां प्रकरणादिनियमाभावादनियन्त्रितयोरप्यर्थयोरनुरूपस्वरवशेनैकत्र नियमनं वाच्यं, तदा तथाविधस्थले श्लेषानङ्गीकारप्रसङ्गः॑ न च तथा, अत एवाहुः श्लेषनिरूपणप्रस्तावे-- "काव्यमार्गे स्वरो न गण्यते" इतिच नयः, इत्यलमुपजीव्यानं मान्यानां व्याख्यानेषु कटाक्षनिक्षेपेण ।
आदिशब्दात् "एतावन्मात्रस्तनी" इत्यादौ हस्तादिचेष्टादिभिः स्तनादीनां कमलकोरकाद्याकारत्वम् ।
एवमेकस्मिन्नर्थे ऽभिधया नियन्त्रिते या शब्दार्थस्यान्यार्थबुद्धिहेतुः शक्तिः साभिधामूला व्यञ्जना ।
यथा मम तातपादान महापात्रचतुर्दशभाषाविलासिनीभुजङ्गमहाकवीश्वरश्रीचन्द्रशेखरसंधिविग्रहिकाणाम्-- "दुर्गालङ्घितविग्रहो मनसिजं संमीलयंस्तेजसा प्रोद्यद्राजकलो गृहीतगरिमा विष्वग्वृतो भोगिभिः ।
नक्षत्रेशकृ तेक्षणो गिरिगुरौ गाढां रुचिं धारयन् गामाक्रम्य विभूतिभूषिततनू राजत्युमावल्लभः" ॥

अत्र प्रकरणोनाभिधया उमावल्लभशब्दस्योमानाम्नीमहादेवीवल्लभभानुदेवनृपतिरूपेर्ऽथे नियन्त्रिते व्यञ्जनयैव गौरीवल्लभरूपोर्ऽथो बोध्यते ।
एवमन्यत् ।
लक्षणामूलामाह--
लक्षणोपास्यते यस्य कृते तत्तु प्रयोजनम् ।
यया प्रत्याय्यते सा स्याद्व्यञ्जना लक्षणाश्रया ॥१५॥

"गङ्गायां घोषः" इत्यादौ जलमयाद्यर्थबोधनादभिधायां तटाद्यर्थबोधनाच्च लक्षणायां विरतायां यया शीतत्वपावनत्वाद्यतिशयादिर्बोध्यते सा लक्षणामूला व्यञ्जना ।
एवं शब्दीं व्यञ्जनामु कत्वार्थोमाह--
वक्तृबोद्धव्यवाक्यानामन्यसंनिधिवाच्ययोः ।
प्रस्तावदेशकालानां काकोश्चेष्टादिकस्य च ॥१६॥

व्यञ्जनेति सम्बध्यते ।
तत्र वक्तृवाक्यप्रस्तावदेशकालवैशिष्ट्ये यथा मम-- "कालो मधुः कुपित एष च पुष्पधन्वा धीरा वहन्ति रतिखेदहराः समीराः ।
केलीवनीयमपि वञ्जुलकुञ्जमञ्जुर्- दूरे पतिः कथय किं करणीयमद्य" ॥

अत्रैतं देशं प्रति शीघ्रं प्रच्छन्नकामुकस्त्वया प्रेष्यतामिति सखीं प्रति कयाचिद्व्यज्यते ।
बोद्धव्यवैशिष्ट्ये यथा-- "निः शेषच्युतचन्दनं स्तनतटं निर्मृष्टरागो ऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः ।
मिथ्यावादिनि ! दूति ! बान्धवजनस्याज्ञातपीडागमे वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिक्म्" ॥

अत्र तदन्तिकमेव रन्तुं गतासीति विपरीतलक्षणया लक्ष्यम् ।
तस्य च रन्तुमिति व्यङ्ग्यं प्रतिपाद्यं दूतीवैशिष्ट्याद्बोध्यते ।
अन्यसंनिधिवैशिष्ट्ये यथा-- "उअ णिच्चल णिप्पन्दा, भिसिणीपत्तम्मि रेहै बलाआ ।
णिम्मलमरगअभाअणपरिट्ठिआ (दा) सङ्खसुत्ति व्व" ॥

अत्र बलाकाया निस्पन्दत्वेन विश्वस्तत्वम्, तेनास्य देशस्य विजनत्वम्, अतः संकेतस्थानमेतदिति कयापि संनिहितं प्रच्छन्नकामुकं प्रत्युच्यते ।
अत्रैव स्थाननिर्जनत्वरूपं व्यङ्ग्यार्थवैशिष्ट्यं प्रयोजनम् ।

भिन्नकण्ठध्वनिर्धोरैः काकुरित्यभिधीयते ।

इत्युक्तप्रकारायाः काकोर्भेदा आकरेभ्यो ज्ञातव्याः ।
एतद्वैशिष्ट्ये यथा-- "गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिलललिते नैष्यति सखि ! सुरभिसमये ऽसौ" ॥

अत्र नैष्यति, अपि तर्हि एष्यत्येवेति काक्का व्यज्यते-- चेष्टावैशिष्ट्ये यथा-- "संकेतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रार्पिताकूतं लीलापङ्मं निमीलितम्" ॥

अत्र संध्या संकेतकाल इति पङ्मनिमीलनादिचेष्टया कयाचिद्द्योत्यते ।
एवं वक्त्रादीनां व्यस्तसमस्तानां वैशिष्ट्ये बोद्धव्यम् ।

त्रैविध्यादियमर्थानां प्रत्येकं त्रिविधा मता ॥१७॥

"अर्थानां वाच्यलक्ष्यव्यङ्ग्यत्वेन त्रिरूपतया सर्वा अप्यनन्तरोक्ता व्यञ्जनास्त्रिविधाः ।
तत्र वाच्यार्थस्य व्यञ्जना यथा-"कालो मधुः-" इत्यादि ।
लक्ष्यार्थस्य यथा--"निः शेषच्युतचन्दनम्ऽ--इत्यादि ।
व्यङ्ग्यार्थस्य यथा--"उअ णिच्चल-" इत्यादि ।
प्रकृतिप्रत्ययादिव्यञ्जकत्वं तु प्रपञ्चयिष्यते ।

शब्दबोध्यो व्यनक्त्यर्थः शब्दो ऽप्यर्थान्तराश्रयः ।
एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता ॥१८॥

यतः शब्दो व्यञ्जकत्वे ऽप्यर्थान्तरमपेक्षते, अर्थो ऽपि शब्दम्, तदेकस्य व्यञ्जकत्वे ऽन्यस्य सहकारितावश्यमङ्गीकर्तव्या ।

अभिधादित्रयोपाधिवैशिष्ट्यात्र्त्रिविधो मतः ।
शब्दो ऽपि वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा ॥१९॥

अभिधोपाधिको वाचकः ।
लक्षणोपाधिको लक्षकः ।
व्यञ्जनोपाधिको व्ययञ्जकः ।
किञ्च--
तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने ।
तात्पर्यार्थं तदर्थं च वाक्यं तद्वोधकं परे ॥२०॥

अभिधाया एकैकपदार्थबोधनविरामाद्वाक्यार्थरूपस्य पदार्थान्वयस्य बोधिका तात्पय नाम वृत्तिः ।
तदर्थश्च तात्पर्यार्थः ।
तद्वोधकं च वाक्यमित्यभिहितान्वयवादिनां मतम् ।
इति साहित्यार्पणो वाक्यस्वरूपनिरूपणो नाम द्वितीयः परिच्छेदः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP