संधिः - कथा ३

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


पुरा विक्रमपुरे समुद्रदत्तो नाम वणिग् अस्ति । तस्य रत्नप्रभा नाम गृहिणी स्व-सेवकेन सह सदा रमते । यतः-
न स्त्रीणाम् अप्रियः कश्चित् प्रियो वापि न विद्यते । गावस् तृणम् इवारण्ये प्रार्थयंते नवं नवम् ॥८॥
अथैकदा सा रत्नप्रभा तस्य सेवकस्य मुखे चुंबनं ददती समुद्रदत्तेनावलोकिता । ततः सा बंधकी सत्वरं भर्तुः समीपं मत्वाह-नाथ ! एतस्य सेवकस्य महती निकृतिः । यतो यं चौरिकां कृत्वा कर्पूरं खादतीति । मयास्य मुखम् आघ्राय ज्ञातम् । तथा चोक्तम्-
आहारो द्विगुणः स्त्रीणां बुढिस् तासां चतुर्-गुणा । षड्-गुणो व्यवसायश् च कामाश् चाष्टगुणः स्मृतः ॥९॥
तच् छ्रुत्वा सेवकेनापि प्रकुप्योक्तं-नाथ ! यस्य स्वामिनो गृहे एतादृशी भार्या तत्र सेवकेन कथं स्थातव्यम् ? यत्र च प्रतिक्षणं गृहिणी सेवकस्य मुखं जिघ्रति । ततो साव् उठाय चलितः । साधुना च यत्नात् प्रबोध्य धृतः । अतो हं ब्रवीमि-उत्पन्नाम् आपदम् इत्य् आदि ।
ततो यद्भविष्येणोक्तम्-
यद् अभावि न तद् भावि भावि चेन् न तद् अंयथा । इति चिंता-विष-घ्नो यम् अगदः किं न पीयते ॥१०॥
ततः प्रातर् जालेन बढः प्रत्युत्पन्नमतिर् मृतवद् आत्मानं संदर्श्य स्थितः । ततो जालाद् अपसारितो यथाशक्त्य् उत्प्लुत्य गभीरं नीरं प्रविष्टः । यद्भविष्यश् च धीवरैः प्राप्तो व्यापादितः । अतो हं ब्रवीमि-अनागत-विधाता च इत्य् आदि । तद् यथाहम् अंयं ह्रदं प्राप्नोमि तथा क्रियताम् ।
हंसाव् आहतुः-जलाशयांतरे प्राप्ते तव कुशलम् । स्थले गच्छतस् ते को विधिः ?
कूर्म आह-यथाहं भवद्भ्यां सहाकाश-वर्त्मना यामि, तथा विधीयताम् ।
हंसाव् ब्रूतः-कथम् उपायः संभवति ?
कच्छपो वदति-युवाभ्यां चञ्चु-धृतं काष्ठ-खंडम् एकं मया मुखेनावलंबितव्यम् । ततश् च युवयोः पक्ष-बलेन मयापि सुखेन गंतव्यम् ।
हंसौ ब्रूतः-संभवत्य् एष उपायः । किंतु-
उपायं चिंतयेत् प्राज्ञो ह्य् अपायम् अपि चिंतयेत् । पश्यतो बक-मूर्खस्य नकुलैर् भक्षिताः सुताः ॥११॥
कूर्मः पृच्छति--कथम् एतत् ?
तौ कथयतः-

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP