विग्रहः - कथा ६

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


अस्ति यौवन-श्री-नगरे मंद-मतिर् नाम रथकारः । स च स्व-भार्यां बंधकीं जानाति । किंतु जारेण समं स्व-चक्षुषा नैक-स्थाने पश्यति । ततो सौ रथकारः अहम् अंयं ग्रामं गच्छामीत्य् उक्त्वा चलितः । स कियद् दूरं गत्वा पुनर् आगत्य पर्यंक-तले स्व-गृहे निभृतं स्थितः । अथ रथकारो ग्रामांतरं गत इत्य् उपजात-विश्वासः स जारः संध्या-काल एवागतः । पक्सचात् तेन जारेण समं तस्मिन् पर्यंके निर्भरं क्रीडंती, पर्यंक-तल-स्थितस्य भर्तुः किञ्चिद् अंग-स्पर्शात् स्वामिनं मायाविनं विज्ञाय, मनसि सा विषंणाभवत् ।
ततो जारेणोक्तम्-किम् इति त्वम् अद्य मया सह निर्भरं न रमसे ? विस्मितेव प्रतिभासि मे त्वम् ।
अथ तयोक्तम्-अनभिज्ञो सि । यो सौ मम प्राणेश्वरो, येन ममाकौमारं सख्यं सो द्य ग्रामांतरं गतः । तेन विना सकल-जन-पूर्णो पि ग्रामो मां प्रत्य् अरण्यवत् प्रतिभाति । किं भावि ? तत्र पर-स्थाने किं खादितवान् ? कथं वा प्रसुप्तः ? इत्य् अस्मद्-धृदयं विदीर्यते ।
जारो ब्रूते-तव किम् एवंविधा स्नेह-भूमी रथकारः ?
बंधक्य् अवदत्-रे बर्बर ! किं वदसि ? शृणु-
परुषाण्य् अपि या प्रोक्ता दृष्टा या क्रोध-चक्षुषा । सुप्रसन्न-मुखी भर्तुः सा नारी धर्म-भाजनम् ॥२६॥अपरं च- नगरस्थो वनस्थो वा पापो वा यदि वा शुचिः । यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥२७॥अंयच् च- भर्ता हि परमं नार्या भूषणं भूषणैर् विना । एषा विरहिता तेन शोभनापि न शोभते ॥२८॥
त्वं च जारः पाप-मतिः, मनो-लौल्यात् पुष्प-तांबूल-सदृशः कदाचित् सेव्यसे, कदाचिन् न सेव्यसे च । स च पुनर् मे स्वामी , मां विक्रेतुं, देवेभ्यो, ब्राह्मणेभ्यो वा दातुम् ईश्वरः । किं बहुना ? तस्मिन् जीवति जीवामि । तन्-मरणे चानुमरणं करिष्यामीति प्रतिज्ञा वर्तते । यतः-
तिस्रः कोट्यो र्ध-कोटी च यानि लोमानि मानवे । तावत् कालं वसेत् स्वर्गे भर्तारं यो नुगच्छति ॥२९॥अंयच् च- व्याल-ग्राही यथा व्यालं बलाद् उढरते बिलात् । तद्वद् भर्तारम् आदाय स्वर्ग-लोके महीयते ॥३०॥अपरं च- चितौ परिष्वज्य विचेतनं पतिं प्रिया हि या मुञ्चति देहम् आत्मनः । कृत्वापि पापं शत-लक्षम् अप्य् असौ पतिं गृहीत्वा सुर-लोकम् आप्नुयात् ॥३१॥यतः- यस्मै दद्यात् पिता त्व् एनां भ्राता वानुमते पितुः । तं शुश्रूषेत जीवंतं संस्थितं च न लंघयेत् ॥३२॥
एतत् सर्वं श्रुत्वा मंद-मतिः स रथकारः-धंयो हं यस्येदृशी प्रिय-वादिनी, स्वामि-वत्सला च भार्या इति मनसि निधाय, तां खट्वां स्त्री-पुरुष-सहितां मूर्ध्नि कृत्वा सानंदं ननर्त । अतो हं ब्रवीमि प्रयक्षेपि कृते दोषे इत्य् आदि ।

अतो हं तेन राज्ञा यथा-व्यवहारं संपूज्य प्रस्थापितः । शुको पि मम पश्चाद् आगच्छंन् आस्ते । एतत् सर्वं परिज्ञाय यथा-कर्तव्यम् अनुसंधीयताम् ।
चक्रवाको विहस्याह-देव ! बकेन तावद् देशांतरम् अपि गत्वा यथा-शक्ति राज-कार्यम् अनुष्ठितम् । किंतु देव स्वभाव एष मूर्खानाम् । यतः,
शतं दद्यान् न विवदेद् इति विज्ञस्य संमतम् । विना हेतुम् अपि द्वंद्वम् एतन् मूर्खस्य लक्षणम् ॥३३॥
राजाह-अलम् अनेनातीतोपालंभनेन । प्रस्तुतम् अनुसंधीयताम् ।
चक्रवाको ब्रूते-देव ! विजने ब्रवीमि । यतः,
वर्णाकार-प्रतिध्वानैर् नेत्र-वक्त्र-विकारतः । अप्य् ऊहंति मनो धीरास् तस्माद् रहसि मंत्रयेत् ॥३४॥
ततो राजा मंत्री च तत्र स्थितौ अंयेंयत्र गताः । चक्रवाको ब्रूते-देव ! अहम् एवं जानाम्-कस्याप्य् अस्मन्-नियोगिनः प्रेरणया बकेनेदम् अनुष्ठितम् । यतः,
वेद्यानाम् आतुरः श्रेयान् व्यसनी यो नियोगिनाम् । विदुषां जीवनं मूर्खः सद्-वर्णो जीवनं सताम् ॥३५॥
राजाब्रवीत्-भवतु, कारणम् अत्र पश्चान् निरूपणीयम् । संप्रति यत् कर्तव्यं तन् निरूप्यताम् ।
चक्रवाको ब्रूते-देव ! प्रणिधिस् तावत् तत्र प्रहीयताम् । ततस् तद्-अनुष्ठानं बलाबलं च जानीमः । तथा हि-
भवेत् स्व-पर-राष्ट्राणां कार्याकार्यावलोकने । चारश् चक्षुर् महीभर्तुर् यस्य नास्त्य् अंध एव सः ॥३६॥
स च द्वितीयं विश्वास-पात्रं गृहीत्वा यातु । तेनासौ स्वयं तत्रावस्थाय, द्वितीयं तत्रत्य-मंत्र-कार्यं सुनिभृतं निश्चित्य निगद्य प्रस्थापयति । तथा चोक्तं-
तीर्थाश्रम-सुर-स्थाने शास्तर-विज्ञान-हेतुना । तपस्वि-व्यञ्जनोपेतैः स्व-चरैः सह संवसेत् ॥३७॥
गूढ-चारश् च-यो जले स्थले च चरति । ततो साव् एव बको नियुज्यताम् । एतादृश एव कश्चिद् बको द्वितीयत्वेन प्रयातु । तद्-गृह-लोकाश् च राज-द्वारे तिष्ठंतु । किंतु एतद् अपि सुगुप्तम् अनुष्ठातव्यम् । यतः-
षट्-कर्णो भिद्यते मंत्रस् तथा प्राप्तश् च वार्तया । इत्य् आत्मना द्वितीयेन मंत्रः कार्यो मही-भृता ॥३८॥
पश्य- मंत्र-भेदे हि ये दोषा भवंति पृथिवी-पतेः । न शक्यास् ते समाधातुम् इति नीति-विदां मतम् ॥३९॥
राजा विमृश्योवाच-प्राप्तस् तावन् मयोत्तमः प्रतिनिधिः ।
मंत्री ब्रूते-देव ! संग्रामे विजयो पि प्राप्तः ।
अत्रांतरे प्रतीहारः प्रविश्य प्रणम्योवाच-देव ! जंबूद्वीपाद् आगतो द्वारि शुकस् तिष्ठति ।
राजा चक्रवाकम् आलोकते । चक्रवाकेनोक्तम्-कृतावासे तावद् गत्वा तिष्ठतु, पश्चाद् आनीय द्रष्टव्यः ।
यथाज्ञापयति देवः इत्य् अभिधाय प्रतीहारः शुकं गृहीत्वा तम् आवास-स्थानं गतः । राजाह-विग्रहस् तावत् समुपस्थितः ।
चक्रवाको ब्रूते-देव ! तथापि प्राग् एव विग्रहो न विधिः । यतः-
स किं भृत्यः स किं मंत्री य आदाव् एव भूपतिम् । युढोद्योगं स्व-भू-त्यागं निर्दिशत्य् अविचारितम् ॥४०॥
अपरं च- विजेतुं प्रयतेतारीन् न युढेन कदाचन । अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः ॥४१ ।
अंयच् च- साम्ना दानेन भेदेन समस्तैर् अथवा पृथक् । साधितुं प्रयतेतारीन् न युढेन कदाचन ॥४२॥
अपरं च- सर्व एव जनः शूरो ह्य् अनासादित-विग्रहः । अदृष्ट-पर-सामर्थ्यः स-दर्पः को भवेन् न हि ॥४३॥
किं च- न तथोठाप्यते ग्रावा प्राणिभिर् दारुणा यथा । अल्पोपायान् महा-सिढिर् एतन्-मंत्र-फलं महत् ॥४४॥
किंतु विग्रहम् उपस्थितं विलोक्य व्यवह्रियताम्, यतः-
यथा काल-कृतोद्योगात् कृषिः फलवती भवेत् । तद्वन् नीतिर् इयं देव चिरात् फलति न क्षणात् ॥४५॥
अपरं च- दूरे भीरुत्वम् आसंने शूरता महतो गुणः । विपत्तौ हि महान् लोके धीरत्वम् अधिगच्छति ॥४६॥
अंयच् च- प्रत्यूहः सर्व-सिढीनाम् उत्तापः प्रथमः किल । अतिशीतलम् अप्य् अंभः किं भिनत्ति न भूभृतः ॥४७॥
बलिना सह योढव्यम् इति नास्ति निदर्शनम् । तद् युढं हस्तिना सार्धं नराणां मृत्युम् आवहेत् ॥४८॥
अंयच् च- स मूर्खः कालम् अप्राप्य यो पकर्तरि वर्तते । कलिर् बलवता सार्धं कीट-पक्षोद्गमो यथा ॥४९॥
किं च- कौर्मं संकोचम् आस्थाय प्रहारम् अपि मर्षयेत् । प्राप्त-काले तु नीतिज्ञ उत्तिष्ठेत् क्रूर-सर्पवत् ॥५०॥
महत्य् अल्पेप्य् उपायज्ञः समम् एव भवेत् क्षमः । समुन्मूलयितुं वृक्षांस् तृणानीव नदीरयः ॥५१॥
अतो दूतो यं शुको त्राश्वास्य तावद् ध्रियतां यावद् दुर्गं सज्जीक्रियते, यतः-
एकः शतं योधयति प्राकार-स्थो धनुर्धरः । शतं शत-सहस्राणि तस्माद् दुर्गं विशिष्यते ॥५२॥
किं च- अदुर्ग-विषयः कस्य नारेः परिभवास्पदम् । अदुर्गो नाश्रयो राजा पोत-च्युत-मनुष्यवत् ॥५३॥
दुर्गं कुर्यान् महाखातम् उच्च-प्राकार-संयुतम् । स-यंत्रं स-जलं शैल-सरिन्-मरु-वनाश्रयम् ॥५४॥
विस्तीर्णताति-वैषम्यं रस-धांयेध्म-संग्रहः । प्रवेशश् चाप-सारश् च सप्तैता दुर्ग-संपदः ॥५५॥
राजाह-दुर्गानुसंधाने को नियुज्यताम् ?
चक्रवाको ब्रूते-
यो यत्र कुशलः कार्ये तं तत्र विनियोजयेत् । कर्मस्व् अदृष्ट-कर्मा यः शास्त्रज्ञो पि विमुह्यति ॥५६॥तदाहूयतां सारसः । तथानुष्ठिते सति समागतं सारसम् अवलोक्य राजोवाच-भोः सारस ! त्वं सत्वरं दुर्गम् अनुसंधेहि ।
सारसः प्रणम्योवाच-देव ! दुर्गं तावद् इदम् एव चिरात् सुनिरूपितम् आस्ते महत् सरः । किंत्व् एतन्-मध्य-द्वीपे द्रव्य-संग्रहः क्रियताम् । यतः-
धांयानां संग्रहो राजंन् उत्तमः सर्व-संग्रहात् । निक्षिप्तं हि मुखे रत्नं न कुर्यात् प्राण-धारणम् ॥५७॥
किं च- ख्यातः सर्व-रसानां हि लवणो रस उत्तमः । गृह्णीयात् तं विना तेन व्यञ्जनं गोमयायते ॥५८॥
राजाह-सत्वरं गत्वा सर्वम् अनुष्ठीयताम् ।
पुनः प्रविश्य प्रतीहारो ब्रूते-देव ! सिंहल-द्वीपाद् आगतो मेघवर्णो नाम वायसः सपरिवारो द्वारि वर्तते । स च देव-पादान् द्रष्टुम् इच्छति ।
राजाह-काकः प्राज्ञो बहुदृश्वा च तद् भवति स संग्राह्यः ।
चक्रवाको ब्रूते-देव ! अस्त्य् एवं । किंतु अस्मद्-विपक्षः काकः स्थलचरः । तेनास्मद्-विपक्ष-पक्षे नियुक्तः कथं संगृह्यते ? तथा चोक्तम्-
आत्म-पक्षं परित्यज्य पर-पक्षेषु यो रतः । स परैर् हंयते मूढो नील-वर्ण-शृगालवत् ॥५९॥
राजोवाच--कथम् एतत् ?
मंत्री कथयति-

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP