विग्रहः - आरंभः

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


अथ पुनः कथारंभ-काले राज-पुत्रा ऊचुः-आर्य ! राजपुत्रा वयम् । तद् विग्रहं श्रोतुं नः कुतूहलम् अस्ति । विष्णुशर्मणोक्तम्-यद् एवं भवद्भ्यो रोचते तत् कथयामि । विग्रहः श्रूयतां, यस्यायम् आद्यः श्लोकः-
हंसैः सह मयूराणां विग्रहे तुल्य-विक्रमे । विश्वास्य वञ्चिता हंसाः काकैः स्थित्वारि-मंदिरे ॥१॥
राज-पुत्रा ऊचुः-कथम् एतत् ? विष्णुशर्मा कथयति-
अस्ति कर्पूरद्वीपे पद्मकेलि-नामधेयं सरः । तत्र हिरण्यगर्भो नाम राजहंसः प्रतिवसति । स च सर्वैर् जलचरैः पक्षिभिर् मिलित्वा पक्षि-राज्येभिषिक्तः । यतः-
यदि न स्यान् नरपतिः सम्यङ्-नेता ततः प्रजा । अकर्ण-धारा जलधौ विप्लवेतेह नौर् इव ॥२॥अपरं च- प्रजां संरक्षति नृपः सा वर्धयति पार्थिवम् । वर्धनाद् रक्षणं श्रेयस् तद्-अभावे सद् अप्य् असत् ॥३॥
एकदासौ राजहंसैः सुविस्तीर्ण-कमल-पर्यंके सुखासीनः परिवार-परिवृतस् तिष्ठति । ततः कुतश्चिद् देशाद् आगत्य दीर्घ-मुखो नाम बकः प्रणम्योपविष्टः । राजोवाच-दीर्घमुख ! दशांतराद् आगतो सि । वार्तां कथय ।
स ब्रूते-देव ! अस्ति महती वार्ता । ताम् आख्यातुकाम एव सत्वरम् आगतो हम् । श्रूयताम्-
अस्ति जंबूद्वीपे विंध्यो नाम गिरिः । तत्र चित्रवर्णो नाम मयूरः पक्षिराजो निवसति । तस्यानुचरैश् चरद्भिः पक्षिभिर् अहं दग्धारच्य-मध्ये चरंन् अवलोकितः । पृष्टश् च-कस् त्वम् ? कुतः समागतो सि ?
तदा मयोक्तम्-कर्पूरद्वीपस्य राजचक्रवर्तिनो हिरण्यगर्भस्य र्जहंसस्यानुचरो हं, कौतुकाद् देशांतरं द्रष्टुम् आगतो स्मि । एतच् छ्रुत्वा पक्षिभिर् उक्तम्-अनयोर् देशयोः को देशो भद्रतरो राजा च ?
ततो मयोक्तम्-आः किम् एवम् उच्यते महद् अंतरम् । यतः कर्पूरद्वीपः स्वर्ग एव । राजहंसश् च द्वितीयः स्वर्गपतिः कथं वर्णयितुं शक्यते । अत्र मरुस्थले पतिता यूयं किं कुरुथ । अस्मद्-देशे गम्यताम् ।
ततो स्मद्-वचनम् आकर्ण्य सर्व-पक्षिणः सकोपा बभूवुः । तथा चोक्तम्- पयः-पानं भुजंगानां केवलं विष-वर्धनम् । उपदेशो हि मूर्खाणां प्रकोपाय न शांतये ॥४॥अंयच् च- विद्वान् एवोपदेष्टव्यो नाविद्वांस् तु कदाचन । वानरानुपदिश्याथ स्थान-भ्रष्टा ययुः खगाः ॥५॥
राजोवाच-कथम् एतत् ?
दीर्घमुखः कथयति-

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP