हितोपदेशम् - मंगलाचरणम्

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


सिढिः साध्ये सताम् अस्तु प्रसादात् तस्य धूर्जटेः । जाह्नवी-फेन-लेखेव यन्-मूर्ध्नि शशिनः कला ॥१॥
श्रुतो हितोपदेशो यं पाटवं संस्कृतोक्तिषु । वाचां सर्वत्र वैचित्र्यं नीति-विद्यां ददाति च ॥२॥
[सम्पादयतु] विद्या-प्रशंसा

अजरामरवत् प्राज्ञो विद्यामर्थं च चिंतयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥३॥
सर्व-द्रव्येषु विद्यैव द्रव्यम् आहुर् अनुत्तमम् । अहार्यत्वाद् अनर्घत्वाद् अक्षयत्वाच् च सर्वदा ॥४॥
संयोजयति विद्यैव नीचगापि नरं सरित् । समुद्रम् इव दुर्घर्षं नृपं भाग्यम् अतः परम् ॥५॥
विद्या ददाति विनयं विनयाद् याति पात्रताम् । पात्रत्वात् धनम् आप्नोति धनाद् धर्मं ततः सुखम् ॥६॥
विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये । आद्या हास्यय वृढत्वे द्वितीयाद्रियते सदा ॥७॥
यन् नवे भाजने लग्नः संस्कारो नांयथा भवेत् । कथा-च्छलेन बालानां नीतिस् तद् इह कथ्यते ॥८॥
मित्र-लाभः सुहृद्-भेदो विग्रहः संधिर् एव च । पञ्च-तंत्रात् तथांयस्माद् ग्रंथाद् आकृष्य लिख्यते ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP