रसहृदयतंत्र - अध्याय १७

प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है।


इति कृतसारणविधिरपि बलवानपि सूतराट्क्रियायोगात् ।
संवेष्ट्य तिष्ठति लोहं नो विशति क्रामणारहितः ॥१॥
अन्नं वा द्रव्यं वा यथानुपानेन धातुषु क्रमते ।
एवं क्रामणयोगाद्रसराजो विशति लोहेषु ॥२॥
(क्रामणयोग (१)) कान्तविषरसकदरदै रक्तैलेन्द्रगोपिकाद्यैश्च ।
क्रामणमेतच्छ्रेष्ठं लेपे क्षेपे सदा योज्यं ॥३॥
(क्रामणयोग (२)) कुनटीमाक्षिकविषं नररुधिरं वायसस्य विष्ठा च ।
महिषीणां कर्णमलं स्त्रीक्षीरं क्रामणे बलकृत् ॥४॥
(क्रामणयोग (३)) टङ्कणकुनटीरामठभूमिलतासंयुतं महारुधिरं ।
क्रामणमेतत्कथितं लेपे क्षेपे सदा योज्यं ॥५॥
(क्रामणयोग (४)) शिलया निहतो नागो वङ्गं वा तालकेन शुद्धेन ।
क्रमशः पीते शुक्ले क्रामणमेतत्समुद्दिष्टं ॥६॥
(क्रामण) तीक्ष्णं दरदेन हतं शुल्बं वा ताप्यमारितं विधिना ।
क्रामणमेतत्कथितं कान्तमुखं माक्षिकैर्वापि ॥७॥
माक्षिकसत्त्वं नागं विहाय न क्रामणं किमप्यस्ति ।
दलसिद्धे रससिद्धे विधावसौ भवति खलु सफलः ॥८॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP