बृहद्यात्रा - मङ्गलामङ्गल

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


सिद्धार्थकादर्शपयोंजनानि बद्धैकपश्चामिषपूर्णकुम्भाः ।

उष्णीषभृङ्गारनृवर्द्धमानपुंयानवीणातपवारणानि ।

दधिमधुघृतरोचनाकुमार्यो ध्वजकनकाम्बुजभद्रपीठशंखाः ।

सितवृषकुसुमाम्बराणि मीना द्विजगणकाप्तजनाश् च चारुवेषाः ॥

ज्वलितशिखिफलाक्षतेक्षुभक्ष्या द्विरदमृदङ्कुशचामरायुधानि ।

मरकतकुरुविन्दपद्मरागस्फटिकमणिप्रमुखाश् च रत्नभेदाः ॥

स्वयम् अथ रचितान्य् अयत्नतो वा यदि कथितानि भवन्ति मङ्गलानि ।

स जयति सकलां ततो धरित्रीं ग्रहणदृगालभनश्रुतैर् उपास्य ॥

कार्पासौषधकृष्णधान्यलवणक्लीवास्थितैलावसाः

पङ्काङ्गारगुडाहिचर्मशकृतः क्लेशाय सव्याधिताः ।

वातोन्मत्तजडेन्धनं तृणतुषक्षुत्क्षामतक्रारयो

मुण्डाभ्यक्तविमुक्तकेशपतिताः काषायिनश् चाशुभाः ॥

पटुपटहमृदङ्गशंखभेरीपणवरवं सपताकतोरणाग्रम् ।

प्रचुरकुसुमतोयशान्तरेणुं सुरभिसुवेषजनं व्रजेच् च मार्गम् ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP