बृहद्यात्रा - वारफल

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


उदरनयनरोगश्वापदारण्यवाधाः सवितृदिवसयाताप्यश्नुते ऽर्थक्षयं च ।

अनिलकफजरोगान् शक्तिमानान्नहानिं सलिलजनितपीडां चाह्नि याता हिमांशोः ॥

ज्वलनवधविषासृक्पित्तरुक् शत्रुपीडाम् अवनिजदिनयाता वाध्यते शत्रुसंघैः ।

अहनि सवितृसूनोर् दैन्यम् आप्नोति गच्छन् स्वजनधनवियोगं मृत्युबन्धामयांश् च ॥

बुधदिवसगतो ऽरीन् बाधते मन्त्रशक्त्या स्रवणसुखकथाप्तिं शिल्पिमित्रागमांश् च ।

क्षितिधनजयरत्नस्त्रीप्रतापप्रमोदान् अतिबलम् अचिरेण स्वीकरोत्य् अह्नि सूरेः ॥

प्रवरयुवतिशय्यावस्त्रगन्धान्नपानस्मरसुखधनरत्रान्य् अह्नि भुंक्ते सितस्य ।

अनुपचयगतो ऽहः शस्तम् अप्य् अप्रशस्तं शुभम् उपचयसंस्थः पापसंज्ञो विधत्ते ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP