वैशेषिकसूत्रम् - भाग १४

‘ वैशेषिकसूत्रम् ’ या ग्रंथात महर्षी कणादांनी तत्वज्ञान अगदी सोपे करून सांगितले आहे.


रुपरसगन्धस्पर्शव्यतिरेकादर्थान्तरमेकत्वम् ॥१॥

तथा पृथक्त्वम् ॥२॥

एकत्वैकपृथक्त्वयोरेकत्वैकपृथक्त्वाभावो ऽणुत्वमहत्त्वाभ्यां व्याख्यातः ॥३॥

निः संख्यत्वात् कर्मगुणानां सर्वैकत्वं न विद्यते ॥४॥

भ्रान्तं तत् ॥५॥

एकत्वाभावाद्भक्तिस्तु न विद्यते ॥६॥

कार्यकारणयोरेकत्वैकपृथक्त्वाभावादेकत्वैकपृथक्त्वं न विद्यते ॥७॥

एतदनित्ययोर्व्याख्यातम् ॥८॥

अन्यतरकर्मज उभकर्मजः संयोगजश्च संयोगः ॥९॥ एतेन विभागो व्याख्यातः ॥१०॥

संयोगविभागयोः संयोगविभागाभावः अणुत्वमहत्त्वाभ्यां व्याख्यातः ॥११॥

कर्मभिः कर्माणि गुणैर्गुणा अणुत्व महत्त्वाभ्यामिति ॥१२॥

युतसिद्ध्यभावात् कार्यकारणयोः संयोगविभागौ न विद्येते ॥१३॥

गुणत्वात् ॥१४॥

गुणो ऽपि विभाव्यते ॥१५॥

निष्क्रियत्वात् ॥१६॥

असति नास्तीति च प्रयोगात् ॥१७॥

शब्दार्थावसम्बन्धौ ॥१८॥

संयोगिनो दण्डात् समवायिनो विशेषाच्च ॥१९॥

सामयिकः शब्दादर्थप्रत्ययः ॥२०॥

एकदिक्काभ्यामेककालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरञ्च ॥२१॥

कारणपरत्वात् कारणापरत्वाच्च ॥२२॥

परत्वापरत्वयोः परत्वापरत्वाभावो ऽणुत्वमहत्त्वाभ्यां व्याख्यातः ॥२३॥

कर्मभिः कर्माणि ॥२४॥

गुणैर्गुणाः ॥२५॥

इहेदमिति यतः कार्यकारणयोः स समवायः ॥२६॥

तत्त्वम्भावेन ॥२७॥

N/A

References : N/A
Last Updated : August 15, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP