सांख्यसूत्र - आख्यायिका

सांख्यसूत्र हिंदूंच्या प्रमुख ग्रंथांपैकी एक आहे . याचा रचयिता कपिलमुनी आहे आणि हा ग्रंथ इसवीसन पूर्व तिसर्‍या शतकात लिहीला गेला आहे . या ग्रंथात सृष्टीचे विवेचन आहे जे ब्रह्मांड आणि व्यक्तिस्तरावर केले गेले आहे . यात प्रकृति आणि पुरुष याचे द्वैत वर्णन आहे .


राजपुत्रवत् तत्वोपदेशात् ॥१॥
(तत्त्वोपदेशस्य विवेकहेतुत्वं )

पिशाचवदन्यार्थोपदेशे ऽपि ॥२॥
(तत्त्वोपदेशस्य विवेकहेतुत्वं )

आवृत्तिरसकृदुपदेशात् ॥३॥
(तत्त्वोपदेशस्य विवेकहेतुत्वं )

पितापुत्रवदुभयोर्दृष्टत्वात् ॥४॥
(क्वचिदनुमानात् देहस्य भङ्गुरताज्ञानोपपत्तिः )

श्येनवत् सुखदुःखी त्याग वियोगाभ्यां ॥५॥
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः )

अहिनिर्ल्वयिनीवत् ॥६॥
(ज्ञाननिष्पत्त्यङ्ग मनोधमोः )

छिन्नहस्तवद्वा ॥७॥
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः )

असाधनानुचिन्तनं बन्धाय भरतवत् ॥८॥
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः )

बहुभिर्योगे विरोधः रागादिभिः कुमारी कङ्कण
(शङ्ख ) वत् ॥९॥
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः )

द्वाभ्यामपि तथैव ॥१०॥
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः )

निराशः सुखी पिङ्गलावत् ॥११॥
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः )

अनारम्भे ऽपि परगृहे सुखी सर्पवत् ॥१२॥
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः )

बहुशास्त्र गुरूपासने ऽपि सारादानं षट्पदवत् ॥१३॥
(सारग्रहणावश्यकता )

इषुकारवन्नैकचित्तस्य समाधिहानिः ॥१४॥
(एकाग्रतावश्यकता )

कृतनियमलङ्घनादानर्थक्यं लोकवत् ॥१५॥
(शास्त्रविहितनियमानुल्लङ्घनावश्यकता )

तद्विस्मरणे ऽपि भेकीवत् ॥१६॥
(शास्त्रविहितनियमस्मरणावश्यकता )

नोपदेशश्रवणे ऽपि कृतकृत्यता परामर्शादृते विरोचनवत् ॥१७॥
(श्रुतार्थमननावश्यकता )

दृष्टस्तयोरिन्द्रस्य ॥१८॥
(श्रुतार्थमननावश्यकता )

प्रणतिब्रह्मचर्योपसर्पणानि कृत्वा सिद्धिः बहुकालात् तद्वत् ॥१९॥
(गुरुसेवा )

न कालनियमो वामदेववत् ॥२०॥
(ज्ञाननिष्पत्तेः कालदेशादिनियमाभावः )

अध्यस्तरूपोपासनात् पारम्पर्येण यज्ञोपासकानामिव ॥२१॥
(ज्ञाननिष्पत्तेः कालदेशादिनियमाभावः )

इतरलाभे ऽप्यावृत्तिः पञ्चाग्नियोगतो जन्मश्रुतेः ॥२२॥
(पुनरावृत्तिहेतुभूतान्युपासनानि )

विरक्तस्य हेयहानमुपादेयोपादानं हंसक्षीरवत् ॥२३॥
(ज्ञाननिष्पत्त्यधिकारः )

लब्धातिशययोगाद्वा तद्वत् ॥२४॥
(ज्ञाननिष्पत्त्यधिकारः )

न कामचारित्वं रागोपहते शुकवत् ॥२५॥
(रागदोषाः तच्छमनोपायाश्च )

गुणयोगात् बद्धः शुकवत् ॥२६॥
(रागदोषाः तच्छमनोपायाश्च )

न भोगाद्रागशान्तिः मुनिवत् ॥२७॥
(रागदोषाः तच्छमनोपायाश्च )

दोषदर्शनादुभयोः ॥२८॥
(रागदोषाः तच्छमनोपायाश्च )

न मलिनचेतस्युपदेश बीजप्ररोहो ऽजवत् ॥२९॥
(रागदोषाः तच्छमनोपायाश्च )

नाभासमात्रमपि मलिनदर्पणवत् ॥३०॥
(रागदोषाः तच्छमनोपायाश्च )

न तज्जस्यापि तद्रपता पङ्कजवत् ॥३१॥
(रागदोषाः तच्छमनोपायाश्च )

न भूतियोगे ऽपि कृतकृत्यता उपास्यसिद्धिवत् उपास्यसिद्धिवत् ॥३२॥
(अष्टैश्वर्याणामपि मुक्तिसाम्याभावः )

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP