संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ९४

बृहत्पाराशरहोराशास्त्रम् - अध्याय ९४

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


ज्येष्ठागण्डान्तजातस्तु पितुः स्वस्य च नाशकः ।
तस्य शान्तिविधिं वक्ष्ये सर्वविघ्नोपशान्तये ॥१॥
मूलशान्तिसमं सर्वमात्रापि मण्डपादिकम् ।
इन्द्रोऽत्र देवता तद्वदधिदेवोऽनलस्तथा ॥२॥
विज्ञेयं च तथा विप्र रक्षः प्रत्यधिदैवतम् ।
यथाशक्ति सुवर्णेन कुर्यादिन्द्रस्वरूपकम् ॥३॥
वज्राङ्कुशधरं दिव्यं गजराजोपरिस्थितम् ।
शालितण्डुलसंयुक्तकुम्भस्योपरि पूजयेत् ॥४॥
स्वस्वगृह्योक्तमन्त्रेण गन्धपुष्पाक्षतादिभिः ।
अभिषेकं च होमं च कुर्याद् ब्राह्मणभोजनम् ॥५॥
इन्द्रसूक्तं जपेद् भक्त्या मन्त्रं मृत्युञ्जयं तथा ।
प्रार्थयेदिन्द्रदेवं च ततः शान्तिमवाप्नुयात् ॥६॥
अथ वा शक्त्यभावे तु कुर्याद् गोदानमेव हि ।
यतः समस्तभूदानाद् गोदानमतिरिच्यते ॥७॥
मूलेन्द्राहिमघागण्डजाते दद्याद् गवां त्रयम् ।
गोयुग्मं पौष्णदास्रोत्थे गण्डान्ते च द्विजन्मने ॥८॥
अन्यगण्डे च दुर्योगे गामेकां हि प्रदापयेत् ।
गोरभावे च विप्राय दद्यात् तन्मूल्यमेव हि ॥९॥
ज्येष्ठनक्षत्रजा कन्या विनिहन्ति धवाग्रजम् ।
विशाखान्त्यपदोत्पन्ना कन्या देवरघातिनी ॥१०॥
तस्याः प्रदानकालेऽतो गोदानमपि कारयेत् ।
आश्लेषान्त्यत्रिपादोत्थौ मूलाद्यत्रिपदोद्भवौ ॥११॥
कन्यासुतौ हतः श्वश्रूं श्वशुरञ्च यथाक्रमम् ।
तयोर्विवाहकालेऽतः शान्तिं कुर्याद् विचक्षणः ॥१२॥
तत्तदोषविनाशाय यथावित्तानुसारतः ।
धवाग्रजद्यभावे तु न दोषाय प्रजायते ॥१३॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP