संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ८७

बृहत्पाराशरहोराशास्त्रम् - अध्याय ८७

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


कृष्णपक्षचतुर्दश्याः षड्भागेषु फलं क्रमात् ।
जन्म चेत् प्रथमे भागे तदा ज्ञेयं शुभं द्विज ॥१॥
द्वितीये पितरं हन्ति मातरं च तृतीयके ।
चतुर्थे मातुलं चैव पञ्चमे वंशनाशनम् ॥२॥
षष्ठे तु धननाशः स्यादात्मनो नाश एव वा ।
तद्दोषपरिहारार्थं शान्तिं कुर्याद् प्रयत्नतः ॥३॥
शिवस्य प्रतिमां कुर्यात् सौवर्णीं कर्षसम्मिताम् ।
तदर्धार्धमितां वाऽपि यथावित्तं मनोहराम् ॥४॥
बालचन्द्रकिरीटाञ्च श्वेतमाल्याम्बरान्विताम् ।
त्रिनेत्रां च वृषासीनां वराभयकरामथ ॥५॥
त्रयम्बकं चेति मन्त्रेण पूजां कुर्यादतन्द्रितः ।
आवाह्य वारुणैर्मन्त्रैराचार्यो मन्त्रतत्त्ववित् ॥६॥
इमं मे वरुणे त्येवं तत्त्वा यामी त्यृचा पुनः ।
त्त्वन्न अग्ने इत्यनया सत्वं नो इत्यृचापि च ॥७॥
आग्नेयं कुम्भमारभ्य पूजयेद् भक्तितः क्रमात् ।
आ नोभद्रेति सूक्तं च भद्रा अग्नेश्च सूक्तकम् ॥८॥
जप्त्वा पुरुषसूक्तं च कन्द्रुद्रेति तथा जपेत् ।
शङ्करस्याऽभिषेकं च ग्रहपूजां च कारयेत् ॥९॥
समिदाज्यचरूंश्चैव तिलमाषांश्च सर्पपान् ।
अश्वस्थल्पक्षपालासखादिराः समिधः शुभाः ॥१०॥
अष्टोत्तरशतं वह्नौ जुहुयाद् विधिपूर्वकम् ।
अष्टविंशतिसंख्या वा होमं कुर्यात् पृथक् पृथक् ॥११॥
मन्त्रेण त्र्यम्बकेनाथ तिलान् व्याहृतिभिस्तथा ।
ग्रहहोमं च विधिवत् कुर्याद् क्षेमं ततो भवेत् ॥१२॥
अभिषेकं च जातस्य तत्पित्रोश्चापि मन्त्रवित् ।
कुर्यात् ततो यथाशक्ति ब्राह्मणान् भोजयेत् सुधीः ॥१३॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP