संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ८२

बृहत्पाराशरहोराशास्त्रम् - अध्याय ८२

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अथाऽहं देहजातानां लांछनानां फलं ब्रुवे ।
आवर्तानां तिलानां च मशकानां विशेषतः ॥१॥
अङ्गनानां च वामांगे दक्षिणाङ्गे नृणां शुभम् ।
रक्ताभं तिलकाभं वा लोम्नां चक्रमथापि वा ॥२॥
तिलादिलांछनं स्त्रीणां हृदि सौभाग्यसूचकम् ।
यस्या दक्षिणवक्षोजे रक्ते तिलकलांछने ॥३॥
सा सन्ततिततिं सूते सुखसौभाग्यसंयुताम् ।
रक्ताभं तिलकं यस्याः स्त्रिया वामे स्तने भवेत् ॥४॥
एक एव सुतस्तस्या भवतीत विदो विदुः ।
पुत्रीपुत्रयुता ज्ञेया तिलके दक्षिणे स्तने ॥५॥
भ्रुवोर्मध्ये ललाटे वा लांछनं राजसूचकम् ।
कपोले मशको रक्तो नित्यं मिष्ठान्नदायकं ॥६॥
भगस्य दक्षिणे भागे लांछनं यदि योषितः ।
सा हि पृथ्वीपतेः पत्नी सूते वा भूपतिं सुतम् ॥७॥
नासाग्रे लाञ्छने रक्तं राजपत्न्याः प्रजायते ।
कृष्णवर्णं तु यस्याः सा पुंश्चलि विधवाऽथ वा ॥८॥
नाभेरधो नृणां स्त्रीणां लाञ्छनं च शुभप्रदम् ।
कर्णे गण्डे करे वाऽपि कण्ठे वाऽप्यथ लाञ्छनं ॥९॥
प्राग्गर्भे पुत्रदं ज्ञेयं सुखसौभाग्यदं तथा ।
तिलादि लाञ्छनं विप्र गुल्फगेशे च दुःखदम् ॥१०॥
त्रिशूलाकृति चिह्न च ललाटे यदि जायते ।
नारी राजप्रिया ज्ञेया भूपतिश्च नरो भवेत् ॥११॥
लोम्नां प्रदक्षिणावर्तो हृदि नाभौ करे श्रुतौ ।
दक्षपृष्ठे शुभो वस्तौ वामावर्तोऽशुभप्रदः ॥१२॥
कट्यां गुह्येऽथवाऽवर्तो स्त्रीणां दौर्भाग्यसूचकः ।
उदरे हन्ति भर्तारं मध्यपृष्ठे च पुंश्चली ॥१३॥
कण्ठे ललाटे सीमन्ते मध्यभागे च मूर्धनि ।
आवर्तो न शुभः स्त्रीणां पुसां वाऽपि द्विजोत्तम ॥१४॥
सुलक्षणा सुचरिता अपि मन्दायुषं पतिम् ।
दीर्घायुषं प्रकुर्वन्ति प्रमदाश्च मुदास्पदम् ॥१५॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP