संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ५९

बृहत्पाराशरहोराशास्त्रम् - अध्याय ५९

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


केन्द्रे त्रिकोणलाभे वा केतौ लग्नेशसंयुते ।
भाग्यकर्मसुसम्बन्धे वाहनेशसमन्विते ॥१॥
तद्भुक्तौ धनधान्यादि चतुष्पाज्जीवलाभकृत् ।
पुत्रदारादिसौख्यं च राजप्रीतिमनोरुजः ॥२॥
ग्रामभूम्यादिलाभश्च गृहं गोधनसंकुलम् ।
नीचास्तखेटसंयुक्ते ह्यष्टमे व्ययगेऽपि वा ॥३॥
हृद्रोगो मानहानिश्च धनधान्यपशुक्षयः ।
दारपुत्रादिपीडा च मनश्चांचल्यमेव च ॥४॥
द्वितीयद्यूननाथेन सम्बन्धे तत्र संस्थिते ।
अनारोग्यं महत्कष्टमात्मबन्धुवियोगकृत् ॥५॥
दुर्गादेवीजपं कुर्यान्मृत्युञ्जयजपं चरेत् ।
एवं स्वान्तर्गते केतौ ततः सुखमवाप्नुयात् ॥६॥
केतोरन्तर्गते शुक्रे स्वोच्चे स्वक्षेत्रसंयुते ।
केन्द्रत्रिकोणलाभे वा राज्यनाथेन संयुते ॥७॥
राजप्रीतिं च सौभाग्यं दिशात्स्वाम्बरसंकुलम् ।
तत्काले श्रियमाप्नोति भाग्यकर्मेशसंयुते ॥८॥
नष्टराज्यधनप्राप्तिं सुखवाहनसुत्तमम् ।
सेतुस्नानादिकं चैव देवतादर्शनं महत् ॥९॥
महाराजप्रसादेन ग्रामभूम्यादिलाभकृत् ।
दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ॥१०॥
देहारोग्यं शुभं चैव गृहे कल्याणशोभनम् ।
भोजनाम्बरभूषाप्तिरथदोलादिलाभकृत् ॥११॥
दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ।
अकस्मात्कलहं चैव पशुधान्यादिपीडनम् ॥१२॥
नीचस्थे खेटसंयुक्ते लग्नात्षष्ठाष्टराशिगे ।
स्वबन्धुजनवैषम्यं शिरोक्षिव्रणपीडनम् ॥१३॥
हृद्रोगं मानहानिं च धनधान्यपशुक्षयम् ।
कलत्रपुत्रपीडायाः सञ्चारं च समादिशेत् ॥१४॥
द्वितीयद्यूननाथे तु देहजाड्यं मनोरुजम् ।
तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ।
श्वेतां गां महिषीं दद्यादायुआरोग्यवृद्धये ॥१५॥
केतोरन्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा ।
केन्द्रत्रिकोणलाभे वा शुभयुक्तनिरीक्षिते ॥१६॥
धनधान्यादिलाभश्च राजानुग्रहवैभवम् ।
अनेकशुभकार्याणि चेष्टसिद्धिः सुखावहा ॥१७॥
अष्टमव्ययराशिस्थे पापग्रहसमन्विते ।
तद्भुक्तौ राजभीतिश्च पितृमातृवियोगकृत् ॥१८॥
विदेशगमनं चैव चौराहिविषपीडनम् ।
राजमित्रविरोधश्च राजदण्डाद्धनक्षयः ॥१९॥
शोकरोगभयं चैव उष्णाधिक्यं ज्वरो भवेत् ।
दायेशात्लेन्द्रकोणे वा लाभे वा धनसंस्थिते ॥२०॥
देहसौख्यं चार्थलाभ० पुत्रलाभो मनोदृढम् ।
सर्वकार्यार्थसिद्धिः स्यात्स्वल्पग्रामाधिपत्ययुक् ॥२१॥
दायेशाद्रन्ध्ररिःफे वा स्थिते वा पापसंयुते ।
अन्नविघ्नो मनोबीतिर्धनधान्यपशुक्षयः ॥२२॥
आदौ मध्ये महाक्लेशानन्ते सौख्यं विनिर्दिशेत् ।
द्वितीयसप्तमाधीशे ह्यपमृत्युर्भविष्यति ॥२३॥
तस्य शान्तिं प्रकुर्वीत स्वर्णं धेनुं प्रदापयेत् ।
भास्करस्य प्रसादेन ततः सुखमवाप्नुयात् ॥२४॥
केतोरन्तर्गते चन्द्रे स्वोच्चे स्वक्षेत्रगेऽपि वा ।
केन्द्रत्रिकोणलाभे वा धने शुभसमन्विते ॥२५॥
राजप्रीतिर्महोत्साहः कल्याणं च महत्सुखम् ।
महाराजप्रसादेन गृहभूम्यादिलाभकृत् ॥२६॥
भोजनाम्बरपश्वादिव्यवसायेऽधिकं फलम् ।
अश्ववाहनलाभश्च वस्त्रभरणभूषणम् ॥२७॥
देवालयतडागादिपुण्यधर्मादिसङ्ग्रहम् ।
पुत्रदारादिसौख्यं च पूर्णचन्द्रः प्रयच्छति ॥२८॥
क्षीणे वा नीचगे चन्द्रे षष्ठाष्टमव्ययराशिगे ।
आत्मसौख्यं मनस्तापं कार्यविघ्नं महद्भयम् ॥२९॥
पितृमातृवियोगं च देहजाड्यं मनोव्यथाम् ।
व्यवसायात्फलं कष्टं पशुनाशं भयं वदेत् ॥३०॥
दायेशात्केन्द्रकोणे वा लाभे वा बलसंयुते ।
कृषिगोभूमिलाभं च इष्टबन्धुसमागमम् ॥३१॥
तस्मात्स्वकार्यसिद्धिं च गृहे गोक्षीरमेव च ।
भुक्त्यादौ शुभमारोग्यं मध्ये राजप्रियं शुभम् ॥३२॥
अन्ते तु राजभीतिं च विदेशगमनं तथा ।
दूरयात्रादिसञ्चारं सम्बन्धिजनपूजनम् ॥३३॥
दायेशात्षष्ठरिःफे वा रन्ध्रे वा बलवर्जिते ।
धनधान्यादिहानिश्च मनोव्यात्कुलमेव च ॥३४॥
स्वबन्धुजनवैरं च भ्रातृपीडा तथैव च ।
निधनाधिपदोषेण द्विसप्तपतिसंयुते ॥३५॥
अपमृत्युभयं तस्य शान्तिं कुर्याद्यथाविधि ।
चन्द्रप्रीतिकरीं चैव ह्यायुरारोग्यसिद्धये ॥३६॥
केतोरन्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे स्वक्षेत्रगे वाऽपि शुभग्रहयुतेक्षिते ॥३७॥
आदौ शुभफलं चैव ग्रामभूम्यादिलाभकृत् ।
धनधान्यादिलाभश्च चतुष्पाज्जीवलाभकृत् ॥३८॥
गृगारामक्षेत्रलाभो राजानुग्रहवैभवम् ।
भाग्ये कर्मेशसम्बन्धे भूलाभः सौख्यमेव च ॥३९॥
दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ।
राजप्रीतियशोलाभः पुत्रमित्रादिसौख्यकृत् ॥४०॥
तथाऽष्टमव्यये भौमे दायेशाद्धनगेऽपि वा ।
द्रुतं करोति मरणं विदेशे चापदं भ्रमम् ॥४१॥
प्रमेहमूत्रकृच्छ्रादिचौरादिनृपपीडनम् ।
कलहादि व्यथायुक्तं किञ्चित्सुखविवर्द्धनम् ॥४२॥
द्वितीयद्यूननाथे तु तापज्वरविषाद्भयम् ।
दारपीडा मनःक्लेशमपमृत्युभयं भवेत् ॥४३॥
अन्ड्वाहं प्रदद्यात्तु सर्वसम्पत्सुखावहम् ।
ततः शान्तिमवाप्नोति भौमग्रहप्रसादतः ॥४४॥
केतोरन्तर्गते राहौ स्वोच्चे मित्रस्वराशिगे ।
केन्द्रत्रिकोणे लाभे वा दुश्चिक्ये धनसंज्ञके ॥४५॥
तत्काले धनलाभः स्यात्सञ्चारो भवति ध्रुवम् ।
म्लेच्छप्रभुवशात्सौख्यं धन्धान्यफलादिकम् ॥४६॥
चतुष्पाज्जीवलाभः स्याद्ग्रामभूम्यादिलाभकृत् ।
भुक्त्यादौ क्लेशमाप्नोति मध्यान्ते सौख्यमाप्नुयात् ॥४७॥
रन्ध्रे वा व्ययगे राहौ पापसंदृष्टसंयुते ।
बहुमूत्रं कृशं देएहं शीतज्वरविषाद्भयम् ॥४८॥
चातुर्थिकज्वरं चैव क्षुद्रोपद्रवपीडनम् ।
अकस्मात्कलहं चैव प्रमेहं शूलमादिशेत् ॥४९॥
द्वितीयसप्तमस्थे वा तदा क्लेशं महद्भयम् ।
तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ॥५०॥
केतोरन्तर्गते जीवे कन्द्रे लाभे त्रिकोणगे ।
स्वोच्चे स्वक्षेत्रगे वापि लग्नाधिपसमन्विते ॥५१॥
कर्मभाग्याधिपैर्युक्ते धनधान्यार्थसंपदम् ।
राजप्रीतिं तदोत्साहमश्वांदोल्यादिकं दिशेत् ॥५२॥
गृहे कल्याणसम्पत्तिं पुत्रलाभं महोत्सवहम् ।
पुण्यतीर्थं महोत्साहं सत्कर्म च सुखावहम् ॥५३॥
इष्टदेवप्रसादेन विजयं कार्यलाभकृत् ।
राजसंल्लापकार्याणि नूतनप्रभुदर्शनम् ॥५४॥
षष्ठाष्टमव्यये जीवे दायेशान्नीचगेऽपि वा ।
चौराहिव्रणभीतिं च धनधान्यादिनाशनम् ॥५५॥
पुत्रदारावियोगं च त्वतीवक्लेशसम्भवम् ।
आदौ सुभफलं चैव अन्ते क्लेशकरं वदेत् ॥५६॥
दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ।
शुभयुक्ते नृपप्रीतिर्विचित्राम्बरभूषणम् ॥५७॥
दूरदेशप्रयाणं च स्वबन्धुजनपोषणम् ।
भोजनाम्बरपश्वादि भुक्त्यादौ देहपीडनम् ॥५८॥
अन्ते तु स्थानचलनमकस्मात्कलहो भवेत् ।
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥५९॥
तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ।
महामृत्युञ्जयं जाप्यं सर्वोपद्रवनाशनम् ॥६०॥
केतोरन्तर्गते मन्दे स्वदशायां तु पीडनम् ।
बन्धोः क्लेशो मनस्तापश्चतुष्पाज्जीवलाभकृत् ॥६१॥
राजकार्यकलापेन धननाशो महद्भयम् ।
स्थानाच्च्युतिः प्रवासश्च मार्गे चौरभयं भवेत् ॥६२॥
आलस्यं मनसो हानिश्चाष्टमे व्ययराशिगे ।
मीनत्रिकोणगे मन्दे तुलायां स्वर्क्षगेऽपि वा ॥६३॥
केन्द्रत्रिकोणलाभे वा दुश्चिक्ये वा शुभांशके ।
शुभदृष्टयुते चैव सर्वकार्यार्थसाधनम् ॥६४॥
स्वप्रभोश्च महत्सौख्यं भ्रमणं च सुखावहम् ।
स्वग्रामे सुखसम्पत्तिः स्ववर्गे राजदर्शनम् ॥६५॥
दायेशात्षष्ठरिःफे वा अष्टमे पापसंयुते ।
देहतापो मनस्तापः कार्ये विघ्नो महद्भयम् ॥६६॥
आलस्यं मानहानिश्च पितृमात्रोर्विनाशनम् ।
द्वितीयद्यूननाथे तु ह्यपमृत्युभयं भवेत् ॥६७॥
तद्दोषपैर्हारार्थं तिलहोमं च कारयेत् ।
कृष्णां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥६८॥
केतोरन्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे ।
स्वोच्चे स्वक्षेत्रसंयुक्ते राज्यलाभो महत्सुखम् ॥६९॥
सत्कथाश्रवणं दानं धर्मसिद्धिः सुखावहा ।
भूलाभः पुत्रलाभश्च शुभगोष्ठीधनागमः ॥७०॥
अयत्नाद्धर्मलब्धिश्च विवाहश्च भविष्यति ।
गृहे शुभकरं कर्म वस्त्राभरणभूषणम् ॥७१॥
भाग्यकर्माधिपैर्युक्ते भाग्यवृद्धिः सुखावहा ।
विद्वद्गोष्ठीकथाभिश्च कालक्षेपो भविष्यति ॥७२॥
षष्ठाष्टमव्यये सौम्ये मन्दाराहियुतेक्षिते ।
विरोधो राजवर्गैश्च परगेहनिवासनम् ॥७३॥
वाहनाम्बरपश्वादिधनधान्यादिनाशकृत् ।
भुक्त्यादौ शोभनं प्रोक्तं मध्ये सौख्यं धनागमः ॥७४॥
अन्ते क्लेशकरं चैव दारपुत्रादिपीडनम् ।
दायेशात्केन्द्रगे सौम्ये त्रिकोणे लाभगेऽपि वा ॥७५॥
देहारोग्यं महांल्लाभः पुत्रकल्याणवैभवम् ।
भोजनाम्बरपश्वादिव्यवसायेऽधिकं फलम् ॥७६॥
दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ।
तद्भुक्त्यादौ महाक्लेशो दारपुत्रादिपीडनम् ॥७७॥
राजभीतिकरश्चैव मध्ये तीर्थकरो भवेत् ।
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥७८॥
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ।
ततः सुखमवाप्नोति श्रीहरेश्च प्रसादतः ॥७९॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP