संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ४३

बृहत्पाराशरहोराशास्त्रम् - अध्याय ४३

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


धनाध्नाख्ययोगौ च कथितौ भवता मुने ।
नराणामायुषो ज्ञानं कथयस्व महामते ॥१॥
साधु पृष्टं त्वया विप्र जनानां च हितेच्छया ।
कथयाम्यायुषो ज्ञानं दुर्ज्ञेयं यत् सुरैरपि ॥२॥
आयुर्ज्ञानविभेदास्तु बहुभिर्बहुधोदिताः ।
तेषां सारांशमादाय प्र्वदामि तवाऽग्रतः ॥३॥
स्वोच्चनीचादिसंस्थित्या ग्रहा आयुःप्रदायकाः ।
स्वस्ववीर्यवशैर्नैवं नक्षत्राण् च राशयः ॥४॥
पिण्डायुः प्रथमं तत्र ग्रहस्थितिवशादहम् ।
कथयामि द्विजश्रेष्ठ श्रणुष्वेकाग्रमानसः ॥५॥
क्रमात् सूर्यादिखेटेषु स्वस्वोच्चस्थानगेष्विह ।
नन्देन्दवस्तच्वमितास्तिथयोऽर्काः शरेन्दवः ॥६॥
प्रकृयतो विंशतिश्चाब्दा आयुःपिण्डाः प्रकीर्तिताः ।
नीचगेष्वेतदर्धञ्च ज्ञेयं मध्येऽनुपाततः ॥७॥
स्वच्चशुद्धौ ग्रहः शोध्यः षड्भादूनो भमण्ड्लात् ।
स्वपिण्डगुणितो भक्तो भादिमानेन वत्सराः ॥८॥
अस्तगस्तु हरेत्स्वार्ध विना शुक्रशनैश्चरौ ।
वक्रचारं विना त्र्यांशां शज्ञुराशौ हरेद् ग्रहः ॥९॥
सर्वार्धत्रिचतुःपञ्चषष्ठभागं क्रमाद् ग्रहः ।
व्ययाद्वामं स्थितः पापो हरेत् सौम्यश्च तद्दलम् ॥१०॥
एकभे तु बहुष्वेको हरेत्स्वांशां बली ग्रहः ।
नाऽत्र क्षीणस्य चन्द्रस्य पापत्वं मुनिभिः स्मृतम् ॥११॥
लग्नांशलिप्तिका हत्वा प्रत्येकं विहगायुषा ।
भाज्या मण्डललिप्ताभिर्लब्धं वर्षादि शोधयेत् ॥१२॥
स्वायुषो लग्नगे सूर्ये मङ्गले च शनैश्चरे ।
तदर्धं शुभसंदृष्टे पातयेद् द्विजसत्तम ॥१३॥
लग्नराशिसमाश्चाब्दा भागाद्यैरनुपाततः ।
मासादिका इतीच्छन्ति लग्नायुः केऽपि कोविदाः ॥१४॥
लग्नादायोंऽशतुल्यः स्यादन्तरे चाऽनुपाततः ।
तत्पतौ बलसंयुक्ते राशितुल्यं च भाघिपे ॥१५॥
अथ विप्र निसर्गायुः खेटानां कथयाम्यहम् ।
चन्द्रारज्ञसितेज्यार्कशनीनां क्रमशोब्दका ॥१६॥
एकद्वयंकनखा धृत्यः कृतिः पंचाशदेव हि ।
जन्मकालात् क्रमाज् ज्ञेया दशाश्चैता निसर्गजाः ॥१७॥
अथां्शायु सलग्नानां खेटानां कथयाम्यहम् ।
नवांश्राशितुल्यानि खेटो वर्षाणि यच्छति ॥१८॥
भादिं खगं खगैः सूर्यैर्हत्वा तद्भगणादिकम् ।
कृत्वाऽर्क्रशेषितं ज्ञेयमब्दाद्यंशायुषः स्फुटम् ॥१९॥
पिण्डायुरिव तत्रापि हानिं कुर्याद् विचक्षणः ।
अत्राऽपरो विशेषोऽपि कैम्चिद् विज्ञैरुदाहृतः ॥२०॥
साधितायुः खगे स्वोच्चे स्वर्क्षे वा त्रिगुणं स्मृतम् ।
द्विगुणं स्वनवांशस्थे स्वद्रेष्काणे तथोत्तमे ॥२१॥
उभयत्र गते खेटे कार्यं त्रिगुणमेव हि ।
हानिद्वयेऽर्धहानिः स्यादित्यायुः प्रस्फुटं नृणाम् ॥२२॥
एवं संसाध्य चान्येषां हन्यात् स्वस्वपरायुषा ।
नृणां परायुषा भक्त्वा तेषामायुः स्फुटं भवेत् ॥२३॥
अथायुः परमं वक्ष्ये नानाजातिसमुद्भवम् ।
अनन्तसंख्यं देवानामृषीणां च द्विजोत्तम ॥२४॥
गृध्रोलूक्शुकध्वांक्षसर्पाणां च सहस्रकम् ।
श्येनवानरभल्लुकमण्डूकानां शतत्रयम् ॥२५॥
पंचशदुत्तरशतं राक्षसानां प्रकीर्तितम् ।
नगणां कुञ्जराणां च विंशोत्तरशतं तथा ॥२६॥
द्वात्रिंशद् घोटकानाञ्च पंचविंशत् खरोष्ट्रयोः ।
वृषाणां महिषाणां च चतुर्विंशतिवत्सरम् ॥२७॥
विंशत्यायुर्मयूराणां छागादीनां च षोडश ।
हंसानां पंचनव च पिकानां द्वादशाब्दकाः ॥२८॥
शुनां पारावतानां च कुक्कुटानां द्वादशाब्दकाः ।
बुद्बुदाद्यण्डजानां च परायुः सप्तवत्सराः ॥२९॥
यदेतदधुना प्रोक्तं त्रिधायुद्विजसत्तम ।
तेषु किञ्च कदा ग्राह्यमिति ते कथयाम्यहम् ॥३०॥
विलग्नपे बलोपेते शुभदृष्टेंश्शसम्भवभ् ।
रवौ पिंडोद्भवं ग्राह्यं चन्द्रे नैसर्गिकं तथा ॥३१॥
बलसाम्ये द्वयोर्योगदलमायुः प्रकीर्तितम् ।
त्रयाणां त्रियुतेस्त्र्यंशसमं ज्ञेयं द्विजोत्तम ॥३२॥
अथाऽन्यदपि वक्ष्यामि श्र्रिणु त्वं द्विजसत्तम ।
कैश्चिल्लग्नाष्टमेशाभ्यां मन्देन्दुभ्यां तथैव च ॥३३॥
लग्नहोराविलग्नाभ्यां स्फुटमायुः प्रकीर्तितम् ।
आदौ लग्नाष्टमेशाभ्यां योगमेकं विचिन्तयेत् ॥३४॥
द्वितीयं मन्दचन्द्राभ्यां योगं पश्येद् द्विजोत्तम ।
लग्नहोराविलग्नाभ्यां तृतीयं परिचिन्तयेत् ॥३५॥
चरराशौ स्थितौ द्वौ चित् तदा दीर्घमुदाहृतम् ।
एकः स्थिरेऽपरो द्वन्द्वे दीर्घमायुस्तथापि हि ॥३६॥
एकश्चरे स्थिरेऽन्यश्चेत् तदामध्यमुदाहृतम् ।
द्वौ वा द्वन्द्वे स्थितौ विप्र मध्यमायुस्तथापि च ॥३७॥
एकश्चरेऽपरो द्वन्द्वे द्वौ वा स्थिरगतौ तदा ।
जातकस्य तदाऽल्पायुर्ज्ञेयमेवं द्विजोत्तम ॥३८॥
योगत्रयेण योगाभ्यां सिद्धं यद् ग्राह्यमेव तत् ।
योगत्रयविसंवादे लग्नहोराविलग्नतः ॥३९॥
लग्ने वा सप्तमे चन्द्रे ग्राह्यं मन्देन्दुतस्तदा ।
ह्रासो वृद्धिश्च कक्ष्याया विचिन्त्या सर्वदा बुधैः ॥४०॥
दीर्घे योगत्रयेणैवं नखचन्द्रसमाब्दकाः ।
योगद्वयेन वस्वाशा योगैकेन रसांककाः ॥४१॥
मध्ये योगत्रयेणैवं खाष्टतुल्याब्दकाः स्मृताः ।
द्व्यगा योगद्वयेनाऽत्रयोगैकेनाब्धिषण्मिताः ॥४२॥
अल्पे योगत्रयेणाऽत्रद्वात्रिंशन्मितवत्सराः ।
योगद्वयेन षट्त्रिंशात् योगैकेन च खाब्धयः ॥४३॥
एवं दीर्घसमाल्पेषु खाब्धयो रसवह्नयः ।
खण्डा दन्तमितास्तेभ्यः स्फुटमायुः प्रसाधयेत् ॥४४॥
पूर्ण राश्यादिगे चान्ते हानिर्मध्येऽनुपाततः ।
योगकारकखेटांशयोगस्तत्संख्यया हृतः ॥४५॥
लब्धांशास्तु यथाप्राप्तखण्डघ्नास्त्रिंशतोद्धृताः ।
लब्धवर्षादिभिर्हीनं प्राप्तायुः प्रस्फुटं भवेत् ॥४६॥
योगहेतौ शनौ कक्ष्याह्रासोऽन्यैर्वृद्धिरुच्यते ।
न स्वर्क्षतुङ्गगे नो वा पापमात्रयुतेक्षिते ॥४७॥
लग्नसप्तमगे जीवे शुभमात्रयुतेक्षिते ।
कथितस्यायुषो विप्र कक्ष्यावृद्धिः प्रजायते ॥४८॥
अनायुश्चेद् भवेदल्पमल्पान्मध्यं प्रजायते ।
मध्यमाज्जायते दीर्घं दीर्घायुश्चेत्ततोऽधिकम् ॥४९॥
योगहेतौ गुरवेवं कक्ष्यावृद्धेश्च लक्षणम् ।
एतस्माद् वैपरीत्येन कक्ष्याह्रासः शनौ भवेत् ॥५०॥
आयुषो बहुधा भेदाः कथिता भवताऽधुना ।
कतिधा सा कदाऽनायुरमितायुः कदा भवेत् ॥५१॥
बालारिष्टं योगारिष्टमल्पं मध्यञ्च दीर्घकम् ।
दिव्यं चैवाऽमितं चैवं सप्तधायुः प्रकीर्तितम् ॥५२॥
बालारिष्टे समा अष्टौ योगारिष्टे च विंशतिः ।
द्वात्रिंशद् वत्ररा अल्पे चतुष्षष्टिस्तु मध्यमे ॥५३॥
विंशाधिकश्तं दीर्घे दिव्ये वर्षसहस्रकम् ।
तदूर्ध्वममितं पुण्यैरमितैराप्यते जनैः ॥५४॥
चन्द्रेज्यौ च कुलीरांगे ज्न्! असिअतु केन्द्रसंस्थितौ ।
अन्ये त्र्यायारिगाः खेटा अमितायुस्तदा भवेत् ॥५५॥
सौम्याः केन्द्रत्रिकोणस्थाः पापास्त्र्यायारिगास्तथा ।
शुभराशौ स्थिते रन्ध्रे दिव्यमायुस्तदा भवेत् ॥५६॥
गोपुरांशे गुरौ केन्द्रे शुक्रे पारावतांशके ।
त्रिकोणे कर्कटे लग्ने युगान्तायुस्तदा द्विज ॥५७॥
देवलोकांशके मन्दे कुजे पारावतांशके ।
गुरौ सिंहासनांशेऽङ्गे जातो मुनिसमो भवेत् ॥५८॥
सुयोगैर्वर्ध्यते ह्यायुः कुयोगैर्हीयते तथा ।
अतो योगानहं वक्ष्ये पूर्णमध्याल्पकारकान् ॥५९॥
केन्द्रे शुभग्रहैर्युक्ते लग्नेशे च शुभान्विते ।
सन्दृष्टे गुरुणा वाऽपि पूर्णमायुयुस्तदा भवेत् ॥६०॥
केन्द्रस्थिते विलग्नेशे गुरुशुक्रसमन्विते ।
ताभ्यां निरीक्षिते वाऽपि पूर्णमायुर्विनिर्दिशेत् ॥६१॥
उच्चस्थितैस्त्रिभिः खेटैर्लग्नरन्ध्रशसंयुतैः ।
अष्टमे पापहीने च पूर्णमायुर्विनिर्दिशेत् ॥६२॥
अष्टमस्थैस्त्रिभि खेटैः स्वोच्चमित्रस्ववर्गगैः ।
लग्नेशे बलसंयुक्ते दीर्घमायुस्तदा भवेत् ॥६३॥
स्वभोच्चस्थेन केनापि नभौगेन समन्वितः ।
अष्टमेशः शनिर्वापि दीर्घमायुर्विनिर्दिशेत् ॥६४॥
त्रिषडायगतैः पापैः शुभैः केन्द्रत्रिकोणगैः ।
लग्नेशे बलसंयुक्ते दीर्घमायुर्विनिर्दिशेत् ॥६५॥
षट्सप्तरन्ध्रभवेषु शुभखेटयुतेषु च ।
त्रिभवेषु च पापेषु पूर्णमायुर्विनिर्दिशेत् ॥६६॥
शत्रुव्ययगताः पापा लग्नेशो यदि केन्द्रगः ।
रविमित्रं च रन्ध्रेशः पूर्णमायुस्तथापि हि ॥६७॥
आयुः स्थानस्थिताः पापाः कर्मेशः स्वोच्चगो यदा ।
तथापि दीर्घमायु स्यात् विज्ञेयं द्विजसत्तम ॥६८॥
द्विस्वभावगृहे लग्ने लग्नेशे केन्द्रसंस्थिते ।
स्वोच्चराशित्रिकोणे वा दीर्घमायुर्विनिर्दिशेत् ॥६९॥
द्विस्वभावगृहे लग्ने लग्नेशाद् बलसंयुतात् ।
द्वौ पापौ यदि केन्द्रस्थौ दीर्घमायुस्तदा भवेत् ॥७०॥
लग्नाष्टमेशयोर्मध्ये यः खेटः प्रबलो भवेत् ।
तस्मिन् केन्द्रगते दीर्घ मध्यं पणफरस्थिते ॥७१॥
आपोक्लिमे स्थिते स्वल्पमायुर्भवति निश्चितम् ।
लग्नेशे च रवेर्मित्रे दीर्घंमायुः समे समम् ॥७२॥
शत्रौ स्वल्पं वदेदित्थमष्टमेशादपि स्मृतम् ।
मित्रमध्याऽरिभावस्थे तस्मिन्नेवं फलं वदेत् ॥७३॥
सहजाधीशभूपुत्रौ द्वौ रन्ध्रेशशनैश्चरौ ।
अस्तौ वा पापदृग्युक्तौ स्वल्पमायुः प्रयच्छतः ॥७४॥
षष्ठेऽष्टमे व्यये वाऽपि लग्नेशे पापसंयुते ।
स्व पायुरनपत्यो वा शुभदृग्योगवर्जिते ॥७५॥
चतुष्ट्यगते पापे शुभदृष्टिविवर्जिते ।
बलहीने विग्लनेशे स्वल्पमायुर्विनिर्दिशेत् ॥७६॥
व्ययार्थौ पापसंयुक्तौ शुभदृग्योगवर्जितौ ।
स्वल्पमायुस्तदा ज्ञेयं निर्विशंकं द्विजोत्तम ॥७७॥
लग्नरन्ध्रेशयोरेवं दुःस्थयोर्बलहीनयोः ।
स्वल्पमायुर्बुधैर्ज्ञेयं मिश्रयोगाच्च मध्यमम् ॥७८॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP