संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ४२

बृहत्पाराशरहोराशास्त्रम् - अध्याय ४२

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


बहवो धनदा योगा श्रुतास्त्वत्तो मया मुने ।
दरिद्रजन्मदान् योगान् कृपया कथय प्रभो ॥१॥
लग्नेशे च व्ययस्थाने व्ययेशे लग्नमागते ।
मारकेशयुते दृष्टे निर्धनो जायते नरः ॥२॥
लग्नेशे षष्ठभावस्थे षष्ठेशे लग्नमागते ।
मारकेशेन युग्दृष्टे धनहीनः प्रजायते ॥३॥
लग्नेन्दू केतुसंयुक्तौ लग्नपे निधनं गते ।
मारकेशयुते दृष्टे जातो वै निर्धनो भवेत् ॥४॥
षष्ठाष्टमव्ययगते लग्नपे पापसंयुते ।
धनेशे रिपुभे नीचे राजवंश्योऽपि निर्धनः ॥५॥
त्रिकेशेन समायुक्ते पापदृष्टे विलग्नपे ।
शनियुक्तेऽधवा सौम्यैरदृष्टे निर्धनो नरः ॥६॥
मन्त्रेशो धर्मनाथश्च क्रमात् षष्ठव्ययस्थितौ ।
दृष्टौ चेन्मारकेशेन निर्धनो जायते नरः ॥७॥
पापग्रहे लग्नगते राज्यधर्माधिपौ विना ।
मारकेशयुते दृष्टे जातः स्यन्निर्धनो भवेत् ॥८॥
त्रिकेशा यत्र भावस्था तद्भावेशास्त्रिकस्थिताः ।
पापदृष्टयुत बालो दुःखाक्रान्तश्च निर्धनः ॥९॥
चन्द्राक्रान्तनवंशेशो मारकेशयुतो यदि ।
मारकस्थानगो वाऽपि जातोऽत्र निर्धनो नरः ॥१०॥
लग्नेशलग्नभागेशौ रिश्फरन्ध्रारिगौ यदि ।
मारकेशयुतौ दृष्टौ जातोऽसौ निर्धनो नरः ॥११॥
शुभस्थानगताः पापाः पापस्थानगताः शुभाः ।
निर्धनो जायते बालो भोजनेन प्रपीडितः ॥१२॥
कोणेशदृष्टिहीना ये त्रिकेशैः संयुता ग्रहाः ।
ते सर्वे स्वदशाकाले धनहानिकराः स्मृताः ॥१३॥
कारकाद् वा विलग्नाद् वा रन्ध्रेरिष्फे द्विजोत्तम ।
कारकाङ्गपयोदृष्ट्या धनहीनः प्रजायते ॥१४॥
कारकेशो व्ययं स्वस्मात् लग्नेशो लग्नतो व्ययम् ।
वीक्षते चेत् तदा बालो व्ययशीलो भवेद्ध्रुवम् ॥१५॥
अथ दारिद्र्ययोगांस्त् कथयामि सभङ्गकान् ।
धनसंस्थौ तु भौमार्की कथितौ धननाशकौ ॥१६॥
बुधेक्षितौ महावित्तं कुरुतो नात्र संशयः ।
निःस्वतां कुरुते तत्र रविर्नित्यं यमेक्षितः ॥१७॥
महाधनयुतं ख्यातं शन्यदृष्टः करोत्यसौ ।
शनिश्चापि रवेर्दृष्ट्या फलमेवं प्रयच्छति ॥१८॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP