संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय २८

बृहत्पाराशरहोराशास्त्रम् - अध्याय २८

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अथ चेष्टमनिष्टं च ग्रहानां कथयाम्यहम् ।
यद्वशाच्च प्रयच्छन्ति शुभाऽशुभदशाफलम् ॥१॥
स्वनीचोनो ग्रह शोध्यः षड्भाधिक्ये भमण्डलात् ।
सैको राशिर्भवेदुच्चरश्मिर्द्विघ्नांशसंयुतः ॥२॥
चेष्टाकेन्द्राच्च तद्रश्मिं साधयेदुच्चरश्मिवत् ।
चेष्टाकेन्द्रं कुजादीनां पूर्वमुक्तं मया द्विज ॥३॥
सायनार्कस्त्रिभोऽर्कस्य व्यर्केन्दुश्च विधोस्तथा ।
चेष्टाकेन्द्रं रसाल्पं तच्चक्राच्छोध्यं रसाधिके ॥४॥
चेष्टोच्चरश्मियोगार्धं शुभरश्मिः प्रकीर्त्यते ।
अष्टभ्यश्च विशुद्धोऽसाबशुभाख्यश्च कथ्यते ॥५॥
उच्चचेष्टाकरान् व्येकान् दिग्भिर्हत्वा तु योजयेत् ।
तदर्धमिष्टसंज्ञं स्यात् कष्टं तत्षष्टितश्च्युतम् ॥६॥
स्वोच्चे मूलत्रिकोणे च स्वभेऽधिसुहृदीष्टभे ।
समभे शत्रुभे चाधिशत्रुभे नीचभे क्रमात् ॥७॥
षष्टिरिष्वब्धयस्त्रिंशदाकृतिस्तिथयो गजाः ।
चत्वारो द्वौ च शून्यं च शुभमेतत्फलं गृहे ॥८॥
षष्टितः पतितं चैतच्छेषं स्यादशुभं गृहे ।
तदर्धमन्यवर्गेषु ज्ञेयं विप्र शुभाऽशुभम् ॥९॥
पञ्चस्विष्टफलं चाद्यात् समं षष्ठे ततः परम् ।
अशुभं त्रिषु विज्ञेयमिति शास्त्रेषु निश्चितम् ॥१०॥
दिग्बलं दिक्फलं तस्य तथा दिनफलं भवेत् ।
तयोः फलं शुभं प्रोक्तमशुभं षष्टितश्च्युतम् ॥११॥
शुभेऽधिके शुभं ज्ञेयमशुभं त्वशुभेऽधिके ।
दशाफलं नभोगस्य तथा भावफलं द्विज ॥१२॥
बलैः षड्भिः समोधित्वा बलैक्येन भजेत् पृथक् ।
तत्तद्बलफलानि स्युरशुभानि शुभानि च ॥१३॥
शुभपापफलाभ्यां च हन्याद् दृष्टिं बलं तथा ।
दृष्टी ते शुभपापाख्ये बले स्यातां तदाह्वये ॥१४॥
भावानां च फले प्रोक्ते पतीनां च फले उभे ।
राशौ शुभनभोगश्चेद् भावसाधनसंभवम् ॥१५॥
फलं तस्य शुभे युञ्ज्यादशुभे वर्जयेत् तथा ।
पापश्चेदन्यथा चैवं बले दृष्ट्यां तथैव च ॥१६॥
युञ्ज्यादुच्चादिगे खेटे फलं नीचादिगे त्यजेत् ।
एवं शुभाऽशुभं ज्ञात्वा जातकस्य फलं वदेत् ॥१७॥
अष्टवर्गफलं चैवं स्थाने च करणेऽन्यथा ।
राशिद्वयगते भावे तद्राश्यधिपतेः क्रिया ॥१८॥
स्थानाधिकेन भावेन भावलाभः प्रकीर्तितः ।
तत्समाने च तद्भावे तदानीं स्थानदान् ग्रहान् ॥१९॥
संयोज्ये स्थानसंख्याया दलमेतत्समं फलं ।
एवं सखेटभावानां फलं ज्ञेयं शुभाऽशुभम् ॥२०॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP