संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय २१

बृहत्पाराशरहोराशास्त्रम् - अध्याय २१

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


कर्मभावफलं चाऽथ कथयामि तवाग्रतः ।
सृणु मैत्रेय तत्त्वेन ब्रह्मगर्गादिभाषितम् ॥१॥
सबले कर्मभावेशे स्वोच्चे स्वांशे स्वराशिगे ।
जातस्तातसुखेनाढ्यो यशस्वी शुभकर्मकृत् ॥२॥
कर्माधिपो बलोनश्चेत् कर्मवैकल्यमादिशेत् ।
सैहिः केन्द्रत्रिकोणस्थो ज्योतिष्टोमादियागकृत् ॥३॥
कर्मेशे शुभसंयुक्ते शुभस्थानगते तथा ।
राजद्वारे च वाणिज्ये सदा लाभोऽन्यथान्यथा ॥४॥
दशमे पापसंयुक्ते लाभे पापसमन्विते ।
दुष्कृतिं लभते मर्त्यः स्वजनानां विदूषकः ॥५॥
कर्मेशे नाशराशिस्थे राहुणा संयुते तथा ।
जनद्वेषी महामूर्खो दुष्कृतिं लभते नरः ॥६॥
कर्मेशे द्यूनराशिस्थे मन्दभौमसमन्विते ।
द्यूनेशे पापसंयुते शिश्नोदरपरायणः ॥७॥
तुङ्गराशिं समाश्रित्य कर्मेशे गुरुसंयुते ।
भाग्येशे कर्मराशिस्थे मानैश्वर्यप्रतापवान् ॥८॥
लाभेशे कर्मराशिस्थे कर्मेशे लग्नसंयुते ।
तावुभौ केन्द्रगौ वापि सुखजीवनभाग् भवेत् ॥९॥
कर्मेशे बलसंयुक्ते मीने गुरुसमन्विते ।
वस्त्राभरणसौख्यादि लभते नात्र संशयः ॥१०॥
लाभस्थानगते सूर्ये राहुभौमसमन्विते ।
रविपुत्रेण संयुक्ते कर्मच्छेत्ता भवेन्नरः ॥११॥
मीने जीवे भृगुयुते लग्नेशे बलसंयुते ।
स्वोच्चराशिगते चन्द्रे सम्यग्ज्ञानार्थवान् भवेत् ॥१२॥
केन्द्रेशे लाभराशिस्थे लाभेशे लग्नसंस्थिते ।
कर्मराशिस्थिते शुक्रे रत्नवान् स नरो भवेत् ॥१३॥
केन्द्रत्रिकोणगे कर्मनाथे स्वोच्चसमाश्रिते ।
गुरुणा सहिते दृष्टे स कर्मसहितो भवेत् ॥१४॥
कर्मेशे लग्नभावस्थे लग्नेशेन समन्विते ।
केन्द्रत्रिकोणगे चन्द्रे सत्कर्मनिरतो भवेत् ॥१५॥
कर्मस्थानगते मन्दे नीचखेचरसंयुते ।
कर्मांशे पापसंयुक्ते कर्महीनो भवेन्नरः ॥१६॥
कर्मेशे नाशराशिस्थे रन्ध्रेशे कर्मसंस्थिते ।
पापग्रहेण संयुक्ते दुष्कर्म निरतो भवेत् ॥१७॥
कर्मेशे नीचराशिस्थे कर्मस्थे पापखेचरे ।
कर्मभात्कर्मगे पापे कर्मवैकल्यमादिशेत् ॥१८॥
कर्मस्थानगते चन्द्रे तदीशे तत्त्रिकोणगे ।
लग्नेशे केन्द्रभावस्थे सत्कीर्तिसहितो भवेत् ॥१९॥
लाभेशे कर्मभावस्थे कर्मेशे बलसंयुक्ते ।
देवेन्द्रगुरुणा दृष्टे सत्कीर्तिसहितो भवेत् ॥२०॥
कर्मस्थानाधिपे भाग्ये लग्नेशे कर्मसंयुते ।
लग्नात् पञ्चमगे चन्द्रे ख्यातनामा नरो भवेत् ॥२१॥
इति कर्मफलं प्रोक्तं संक्षेपेण द्विजोत्तम ।
लग्नकर्मेशसम्बन्धादूह्यमन्यदपि स्वयम् ॥२२॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP