संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय १९

बृहत्पाराशरहोराशास्त्रम् - अध्याय १९

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


आयुर्भावफलं चाऽथ कथयामि द्विजोत्तम ।
आयुःस्थानाधिपः केन्द्रे दीर्घमायुः प्रयच्छति ॥१॥
आयुस्थानाधिपः पापैः सह तत्रैव संस्थितः ।
करोत्यल्पायुषं जातं लग्नेशोऽप्यत्र संस्थितः ॥२॥
एवं हि शनिना चिन्ता कार्या तर्कैर्विचक्षणैः ।
कर्माधिपेन च तथा चिन्तनं कार्यमायुषः ॥३॥
षष्ठे व्ययेऽपि षष्ठेशो व्ययाधीशो रिपौ व्यये ।
लग्नेऽष्टमे स्थितो वाऽपि दीर्घमायुः प्रयच्छति ॥४॥
स्वस्थाने स्वांशके वाऽपि मित्रेशे मित्रमन्दिरे ।
दीर्घायुषं करोत्येव लग्नेशोऽष्टमपः पुनः ॥५॥
लग्नाष्टमपकर्मेशमन्दाः केन्द्रत्रिकोणयोः ।
लाभे वा संस्थितास्तद्वद् दिशेयुर्दीर्घमायुषम् ॥६॥
एवं बहुविधा विद्वन्नायुर्योगाः प्रकीर्तिताः ।
एषु यो बलवांस्तस्याऽनुसारादायुरादिशेत् ॥७॥
अष्टमाधिपतौ केन्द्रे लग्नेशे बलवर्जते ।
विंशद्वर्षाण्यसौ जीवेद् द्वात्रिंशत्परमायुषम् ॥८॥
रन्ध्रेशे नीचराशिस्थे रन्ध्रे पापग्रहैर्युते ।
लग्नेशे दुर्बले जन्तुरल्पायुर्भवति ध्रुवम् ॥९॥
रन्ध्रेशे पापसंयुक्ते रन्ध्रे पापग्रहैर्युते ।
व्यये क्रूरग्रहाक्रान्ते जातमात्रं मृतिर्भवेत् ॥१०॥
केन्द्रत्रिकोणगाः पापाः शुभाः षष्ठाष्टगा यदि ।
लग्ने नीचस्थरन्ध्रेशो जातः सद्यो मृतो भवेत् ॥११॥
पञ्चमे पापसंयुक्ते रन्ध्रेशे पापसंयुते ।
रन्ध्रे पापग्रहैर्युक्ते स्वल्पमायुः प्रजायते ॥१२॥
रन्ध्रेशे रन्ध्रराशिस्थे चन्द्रे पापसमन्विते ।
शुभदृष्टिविहीने च मासान्ते च मृतिर्भवेत् ॥१३॥
लग्नेशे स्वोच्चराशिस्थे चन्द्रे लाभसमन्विते ।
रन्ध्रस्थानगते जीवे दीर्घमायुर्न संशयः ॥१४॥
लग्नेशोऽतिबली दृष्टः केन्द्रसंस्थैः शुभग्रहैः ।
धनैः सर्वगुणैः सार्धं दीर्घमायुः प्रयच्छति ॥१५॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP