भृगुसूत्रम् - प्रथमोऽध्यायः


‘ भृगुसूत्र’ नावे या ग्रंथात जन्मपत्रिकेचे फळ उत्तम प्रकारे अचूक कथन केले आहे.


अथ तत्वादिद्वादशभावस्थितरविफलमाह तत्रादौ लग्ने रविफलम् -

आरोग्यं भवति ॥१॥
पित्तप्रकृतिः नेत्ररोगी ॥२॥
मेधावी सदाचारो वा ॥३॥
उष्णोदरवान् ॥४॥
मूर्खः पुत्रहीनः ॥५॥
तीक्ष्णबुद्धिः ॥६॥
अल्पभाषी प्रवासशीलः सुखी ॥७॥
स्वोच्चे कीत्तिमान् ॥८॥
बलिनिरीक्षिते विद्वान् ॥९॥
नीचे प्रतापवान् ॥१०॥
ज्ञानद्वेषी दरिद्रः अन्धकः ॥११॥
शुभदृष्टे न दोषः ॥१२॥
सिंहे स्वांशे नाथः ॥१३॥
कुलीरे ज्ञानवान् ॥१४॥
रोगी बुद्‌बुदाक्षः ॥१५॥
मकरे ह्रद्रोगी ॥१६॥
मीने स्त्रीजनसेवी ॥१७॥
कन्यायां रवौ कन्याप्रजः दारहीनः कृत घ्रश्व ॥१८॥
क्षेत्री शुभयुक्तः आरोग्यवान् ॥१९॥
पापयुते शत्रुनीचक्षेत्रे तृतीये वर्षे ज्वरपीडा ॥२०॥
शुभदृष्टे न दोषः ॥२१॥

अथटीकाकारः स्वेष्टेदेवनमस्कारमाचष्टे -
श्रीपार्वतीपतिं नत्वा गुरुं चैव सरस्वतीम् ॥
सिद्धप्रभकारीनाभ्री टीकेयं रच्यते मया ॥
जनानां रञ्जनार्थाय दैवज्ञानां हिताय च ।
यस्या विज्ञानमात्रेण दैवज्ञो जायते ध्रुवम् ॥
" अत्रोदाहरणम् "

॥ श्रीगणेशायनमः ॥ श्रीशुभ सम्वत् १९९९ शके १८६४ प्रवर्त्तमाने रविरुत्तरायणगते , ग्रीष्मऋतौ , मासोत्तमे -आषाढ मासे कृष्णपक्षे , चतुर्थ्याम् सह पञ्चम्यां तिथौ गुरुवासरे ५।५७ धनिष्ठोपरिशतभिषानक्षत्रे , १७ -५१ प्रीत्युपरि आयुष्यमान योगे ४६ -३१ तत्रश्रीसूर्योदयादिष्ट घट्यादि ३७।५ सूर्यः २ -१६ लग्नस्पष्टः ९ -८ -५२ -० दिनमानसम् ३३ -२३ रात्रिमानम् २६ -३७ अहोरात्रम् ६० -० भयातम् १७ -४६ भभोगः ५८ -३२ मकरलग्नोदये श्रीसकल कल्याणवती शुभे वेलायाम् सुखेडाग्रामवास्तव्यः पण्डितश्रीसिद्धनाथशास्त्रिणः गृहे चि० पुत्र रत्न जन्मः चरणभेदेन जन्मनाम "शिवकुमारः " इतिप्रतिष्ठतंराशि कुम्भः स्वामी मन्दश्व ।
मुखरोगी ॥२२॥
पञ्चविंशतिवर्षे राजदण्डेन द्रव्यच्छेदः ॥२३॥
उच्चे स्वक्षेत्रे वा न दोषः ॥२४॥
पापयुते नेत्ररोगी ॥२५॥
स्वल्पविद्वान् रोगी ॥२६॥
शुभवीक्षिते धनवान् दोषादीन् व्यपहरति ॥२७॥
नेत्रसौख्यम् ॥२८॥
स्वोच्चे स्वक्षेत्रे वा बहुधनवान् ॥२९॥
बुधयुते पवनवाक् ॥३०॥
धनाधिपः स्वोच्चे वाग्मी ॥३१॥
शास्त्रज्ञः ज्ञानवान् नेत्रसौख्यम् राजयोगश्व ॥३२॥
लग्नात्तृतीये रविफलम्

बुद्धिमान् अनुजरहितः ज्येषनाशः ॥३३॥
पञ्चमें वर्षे चतुरष्टद्वादशवर्षे वा किञ्चित्पीडा ॥३४॥
पापयुते क्रूरकर्ता ॥३५॥
द्विभ्रातृवान् पराक्रमी ॥३६॥
युद्धे शुरश्व ॥३७॥
कीर्तिमान् निजधनभोगी ॥३८॥
शुभयुते सोदरवृद्धिः ॥३९॥
भावाधिपे बलयुते भ्रातृदीर्घायुः ॥४०॥
पापयुते पापेक्षणवशान्नाशः ॥४१॥
शुभवीक्षणवशाद्धनवान् भागीसुखी च ॥४२॥
लग्नाच्चतुर्थे रविफलम्

हीनाङुः अहंकारी जनविरोधी उष्णदेही मनः पीडावान् ॥४३॥
द्वात्रिंशद्वर्षे सर्वकर्मानुकूलवान् ॥४४॥
बहुप्रतिष्ठिसिद्धिः सत्तापदवीज्ञान शौर्यसम्पन्नः ॥४५॥
धनधान्यहीनः ॥४६॥
भावाधिपे बलयुते स्वक्षेत्रत्रिकोणे केन्द्रे लक्षणापेक्षया आन्दोलिकाप्राप्तिः ॥४७॥
पापयुते पाप वीक्षणवशाद्‌दुष्टस्थाने दुर्वाहनसिद्धि ॥४८॥
क्षेत्रहीनः ॥४९॥
परगृह एव वासः ॥५०॥
लग्नात्पञ्चमे रविफलम्

निर्धनः स्थूलदेही सप्तमे वर्षे पित्ररिष्टवान् ॥५१॥
मेधावी अल्पपुत्रः बुद्धिमान् ॥५२॥
भावाधिपे बलयुते पुत्रसिद्धिः ॥५३॥
राहुकेतुयुते सर्पशापात् सुतक्षयः ॥५४॥
कुजयुते शत्रुयुते मूलात् ॥५५॥
शुभदृष्टयुते न दोषः ॥५६॥
सूर्यशरभादिषु भक्तः ॥५७॥
बलयुते पुत्रसमृद्धिः ॥५८॥
लग्नात्षष्ठे रविफलम्
अल्पज्ञातिः ॥५९॥
शत्रुवृद्धिः धनधान्यसमृद्धि ॥६०॥
विंशतिवर्षे नेत्र वैपरीत्यं भवति ॥६१॥
शुभदृष्टयुते न दोषः ॥६२॥
अहिकाननपारकृन्मन्त्रसेवी ॥६३॥
कीर्तिमान् शोकरोगी महोष्णदेही ॥६४॥
शुभयुते भावाधिपे देहारोग्यम् ॥६५॥
ज्ञातिशत्रुबाहुल्यम् ॥६६॥
भावाधिपे दुर्बले शत्रुनाशः ॥६७॥
पितृदुर्बलः ॥६८॥
लग्नात्सप्तमे रविफलम्

विवाहविलम्बनं स्त्रीद्वेषी परदाररतः दारद्वयवान् ॥६९॥
पञ्चविंशतिवर्षे देशान्तर प्रवेशः ॥७०॥
अभक्ष्यभक्षणः विनोदशीलः दारद्वेशी ॥७१॥
नाशान्तबुद्धि ॥७ २॥
स्वर्क्षेबलवति एकदारवान् ॥७३॥
शत्रुनीचवीक्षिते पापयुते वीक्षणैर्बहुदारवान् ॥७४॥
लग्नादष्टमे रविफलम्

अल्पपुत्रः नेत्ररोगी ॥७५॥
दशमे वर्षे शिरोव्रणी ॥७६॥
शुभयुतदृष्टे तत्परिहारः ॥७७॥
अल्पधनवान् गोमहिष्यादिनाशः ॥७८॥
देहे रोगः ॥७९॥
खातिमान् ॥८०॥
भावाधिपे बलयुते इष्टक्षेत्रवान् ॥८१॥
स्वोच्चे स्वक्षेत्रे दीर्घायुः ॥८२॥
लग्नान्नवमे रविफलम्

सूर्यादिदेवता भक्तः ॥८३॥
धार्मिकः अल्पभाग्यः पितृद्वेषी सुतदारवान् स्वोच्चे स्वक्षेत्रे तस्य पिता दीर्घायुः ॥८४॥
बहुधनवान् तपोध्यानशीलः गुरुदेवताभक्तः ॥८५॥
नीचारिपापक्षेत्रे पापैर्युते दुष्टे वा पितृनाशः ॥८६॥
शुभयुते वीक्षणवशाद्वा पिता दीर्घायुः ॥८७॥
लग्नाद्दशमे रविफलम्

अष्टादशवर्पे विद्याधिकारेण प्रसिद्धो भवति द्रव्यार्जनसमर्थश्व ॥८८॥
दृष्टित्रितः राजप्रियः सत्कर्मतः राजशूरः ख्यातिमान् ॥८९॥
स्वोच्चे स्वक्षेत्रे बलपरः ॥९०॥
कीर्तिप्रसिद्धिः ॥९१॥
तटाकक्षेत्रगोपुरादिब्राह्मणप्रतिष्ठासिद्धिः ॥९२॥
दुष्टकृतिः ॥९४॥
अनाचारः दुष्कर्मकृत्पापी ॥९५॥
लग्नादेकादशे रविफलम्

बहुधान्यवान् पञ्चविंशतिवर्षे वाहनसिद्धिः ॥९६॥
धनवाग्जालद्रव्यार्जनसमर्थः प्रभुज्वरितभृत्यजनस्त्रेहः ॥९७॥
पापयुते बहुधान्यव्ययः ॥९८॥
वाहनहीन ॥९९॥
स्वक्षेत्रे स्वोच्चे अधिकप्राबल्यम् ॥१००॥
वाहनेशयुते बहुक्षेत्रे वित्ताधिकारः ॥१०१॥
वाहनयोगेन न बहुभाग्यवान् ॥१०२॥
लग्नाद्‌द्वादशे रविफलम्

षट्‌त्रिंशद्वर्षे गुल्मरोगी ॥१०३॥
अपात्रव्ययकारी पतितः धनहानिः ॥१०४॥
गोहत्यादोषकृत् परदेशवासी ॥१०५॥
भावाधिपे बलयुते वा देवतासिद्धिः ॥१०६॥
शय्याखट्‌वाङादि सौख्यम् ॥१०७॥
पापयुते अपात्रव्ययकारी सुखशय्यादीनः ॥१०८॥
षष्ठेशयुते कुष्ठरोगयुतः शुभदृष्टियुते निवृत्तिः ॥१०९॥
पापी रोगवृद्धिमान् ॥११०॥
इति श्रीभृगुसूत्रे सिद्धप्रभाकरी टिकाभियुक्ते सूर्यभावाध्यायनाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP