संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - पूर्वाफाल्गुनी नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


अथ चतुश्चत्वारिंशोऽध्यायः ४४

शिव उवाच ॥

सौराष्ट्रविषये देवि शोभनं नाम वै पुरम् ‌ । तत्र क्षत्री वसत्येको धनधान्यसमन्वितः ॥१॥

मोहनेति च विख्यातस्तस्य पत्नी सती शुभा । वैश्यवृत्तिरितो नित्यं व्यापारं कुरुते सदा ॥२॥

व्यापारार्थं ततो देवि वृषभा बहु पालिताः द्वौ वृषौ योजितौ देवि कूपै वै पतितौ प्रिये ॥३॥

मृतौ तौ रात्रिसमये जगाम स तदा न च । पापं च स न जानाति धनगर्वाद्वरानने ॥४॥

यक्तिश्चिक्रियते कर्म शुभं वापि सुरेश्वरि । तमोगुणं ततो देवि मोहनो नाम क्षत्रियः ॥५॥

ततो बहुगते काले मरणं तस्य चाभवत् ‌ । पश्चान्मृता तस्य पत्नी महालुब्धा वरानने ॥६॥

निक्षिप्तो नरके घोरे यमदूतैर्यमाज्ञया । षष्टिवर्षसहस्त्राणि भुक्त्वा नरकयातनाम ‌ ॥७॥

पुनः सरटयोनिश्च वृषयोनिस्ततोऽभवत् ‌ । मानुषत्वं ततो देवि मध्यदेशे वरानने ॥८॥

वृषयोश्च पुरा मृत्योर्न कृतं पापमोचनम् ‌ । तस्माद्वयाधिः समुत्पन्नः पूर्वकर्मप्रपश्चतः ॥९॥

मुखरा याऽभवत्पत्नी पुरा च प्रबला प्रिये । पुनर्विवाहिता देवि तद्रूपा मुखरा तथा ॥१०॥

तत्पापशमनार्थं च षडंशं दानमाचरेत् ‌ । गायत्रीमूलमंत्रेण पंचलक्षजपं यदा ॥११॥

ततः पापं क्षयं याति शीघ्रं पुत्रो भवेत्प्रिये । अपुत्रा मृतवत्सा च काकवन्ध्या च या शिवे ॥१२॥

पुत्रिण्यश्चैव ताः सर्वा नात्र कार्या विचारणा । रोगाः सर्वे विनश्यंति शीघ्रमेव न संशयः ॥१३॥

इति कर्मविपाकसंहितायां चतुश्चत्वारिंशोऽध्यायः ॥४४॥

अथ पश्चचत्वारिंशोऽध्यायः ४५

शिव उवाच ॥

कर्णाटदेशे भो देवि काष्ठकारोऽवसत्पुरा । छिनत्ति सर्वकाष्ठानि व्ययं कुर्याद्दिनेदिने ॥१॥

एका च गोत्रजा कन्या तस्यां वै मैथुनं कृतम् ‌ । ततो बहुगते काले तस्य मृत्युरभूत्पुरा ॥२॥

पश्चात्तस्य मृता नारी कुलटी व्यभिचारिणी । यमदूतैर्महाघोरैर्निक्षिप्तो नरकार्णवे ॥३॥

यमाज्ञया महादेवि भुक्त्वा नरकयातनाम् ‌ । षष्टिवर्षसहस्त्राणि नरके पच्यते च सः ॥४॥

कुक्कुटत्वं ततो जातं चक्रवाकस्ततोऽभवत् ‌ । मानुषत्वं ततो जातं देशे पूज्यतमे तथा ॥५॥

शूद्र्सेवारतो नित्यं शूद्रस्त्रेहेन यन्त्रितः । पितुर्मातुर्भवैद्वैरं महिष्याः क्रयविक्रयी ॥६॥

पूर्वजन्मनि भो देवि कृतं वृक्षस्य भेदनम् ‌ । तस्माद्रोगः समुत्पन्नः कटिशूलं निरन्तरम ‌ ॥७॥

गोत्रकन्याभिगमनं यत्कृतं पूर्वजन्मनि । तेन पापेन भो देवि पुत्रस्य मरणं भवेत् ‌ ॥८॥

गर्भस्त्रवो ततो भार्या काकवन्ध्यात्वमाप्रुयात ‌ । बह्वयः कन्यास्ततो जाताः कष्टं प्राप्रोत्यहर्निशम ‌ ॥९॥

अतः शांतिं प्रवक्ष्यामि पूर्वपापविशुद्धये । गृहवित्ताष्टमं भागं ब्राह्मणाय समर्पयेत् ‌ ॥१०॥

गायत्रीलक्षजाप्येन गोदानेन विशेषतः । वाटिकारोपणेनापि गृहदानेन वै शिवे ॥११॥

रोगाः सर्वे क्षयं यान्ति नात्र कार्या विचारणा । पूर्वजन्मकृतं पापं क्षयं याति न संशयः ॥१२॥

जायन्ते बहवः पुत्राः शूराः कीर्तिविवर्धनाः । कन्यका नैव जायन्ते वन्ध्यात्वमु पशाम्यति ॥

इति कर्मविपाकसंहितायां पश्चचत्वारिंशोऽध्यायः ॥४५॥

अथ षट्‌चत्वारिंशोऽध्यायः ४६

शिव उवाच ॥

सिंहले वै महाद्वीपे तत्र सिहंपुरे शिवे । कायस्थो वैष्णवोऽप्येकष्टीकारामेति नामतः ॥१॥

तस्य भार्या विशालाक्षी सूर्यानाम्री शुभा सती । आतिथ्यकरणे सक्ता देवतातिथिपूजका ॥२॥

कार्तिके माघवैशाखे दीपदानं करोति सा । कदाचिद्दैवयोगेन तीर्थयात्रार्थमागतः ॥३॥

स्वर्णकारो महादेवि बहुस्वर्णेन संयुतः । आगतः सिंहनगरे तत्र वासमकारयत् ‌ ॥४॥

प्रीतिः परस्पर्रं जाता कायस्थस्वर्णकारयोः । स्वर्णकारस्य कन्यैका सुंदरी कमलानना ॥५॥

कायस्थाभवद्भार्या दैवयोगात्तदा शिवे । स्वर्णकारस्य यत्सर्वं स्थितं तेन ह्रतम धनम् ‌ ॥६॥

द्रव्यक्षयमथो ज्ञात्वा स्वर्णकारो मृतः पुरा ॥७॥

पुत्रदारादिकं त्यक्त्वा कायस्थश्च तदा शिवे । तया सार्धं रमत्येको नित्यंनित्यं वरानने ॥८॥

एवं बहुगते काले कायस्थोऽपि मृतः प्रिये । कुम्भीपाकेऽभवद्वासो वर्षलक्षत्रयं तथा ॥९॥

पुनः कर्मवशाद्देवि मृगयोनिस्ततोऽभवत् ‌ । मानुषस्य वरारोहे पुनर्जातो महीतले । धनधान्यसमायुक्तो वंशो नैव प्रजायते ॥१०॥

बहुरोगसमायुक्तो ज्वरार्तेवै मृतेः समः । पुत्राणां मरणं देवि शीतलाद्यैरुपद्रवैः ॥११॥

पूर्वजन्मनि भो देवि परस्त्रीगमनं कृतम् ‌ । त्यक्ता विवाहिता नारी पुत्रकन्यासमन्विता ॥१२॥

तत्पापेन च भो देवि पुत्रादीनां विनाशनम् ‌ ॥ गर्भनाशो भवेद्देवि वन्ध्यात्वं जायते शिवे । काकवन्ध्या भवेन्नारी सुखं नैव प्रजायते ॥१३॥

स्वल्पभोगी कृशाङ्रश्च कथाश्रवणतत्परः । विद्यादानविहीनश्च स्वकुले बहुनिष्ठुरः ॥१४॥

अस्य शान्तिं प्रवक्ष्यामि कृतं यत्पूर्वजन्मनि । तत्सर्वं श्रृणु मे देवि यतः शुद्धिमवाप्नुयात् ‌ ॥१५॥

गायत्रीमूलमंत्रेण लक्षं जाप्यं वरानने । हवनं तद्दशांशेन तर्पणं मार्जनं ततः ॥१६॥

श्रवणं हरिवंशस्य कुर्यात् ‌ त्र्यावृत्तिसंख्यया । दशवर्णाप्रदानं च स्वर्णदानं विशेषतः ॥१७॥

निष्कत्रयं प्रदद्याच्च ततः पापक्षयो भवेत् ‌ । भोजयेद्‌ब्राह्मणान् ‌ षष्टिं तथा दद्याच्च दक्षिणाम् ‌ ॥१८॥

एवं कृते विधानेन पुत्रो भवति नान्यथा । रोगाः सर्वे क्षयं यान्ति नात्र कार्या विचारणा ॥१९॥

एवं यदा न कुर्यात्तु तदा रोगः पुनः पुनः । जायते नात्र संदेहः पूर्वजन्मफलात्किल ॥२०॥

इति कर्मविपाकसंहितायां षट्‌चत्वारिंशोऽध्यायः ॥४६॥

अथ सप्तचत्वारिंशोऽध्यायः ४७

शिव उवाच ॥

नर्मदादक्षिणे कूले ब्राह्मणो वसति प्रिये । ब्रह्मकर्मकरो नित्यं सदा वेदपरायणः ॥१॥

शंकरस्य पुरे देवि प्रत्यहं वेदपाठनम् ‌ । अर्भकान्ब्रह्मजातीयान्पाठयामास वै सदा ॥२॥

तस्य भार्याद्वयं चासीदेका प्रीतिमती सदा । विरोधिनी ततो ह्येका ज्येष्ठां भार्यां ततोऽत्यजत् ‌ ॥३॥

एवं बहुगते काले ब्राह्मणश्च सदाशिवे । ततो मृत्युवशं यातस्तस्य भार्या गरीयसी ॥४॥

चितां कृत्वा प्रयत्नेन भर्तुः खलु वरानने । भर्त्रा सह च भो देवि सती जाता च तत्क्षणात् ‌ ॥५॥

सत्यलोकस्त्वभूत्तस्य जायया सहितस्य वै । बहुवर्षसह्स्त्राणि सत्यलोकेऽवसत्तदा ॥६॥

ततः पुण्यक्षये जाते मर्त्यलोकेऽभवत्पुनः । मानुषत्वं शुभे जन्म कुले महति पूजिते ॥७॥

धनधान्यसमायुक्तो वंशहीनो विचक्षणः । पूर्वजन्मनि भो देवि भार्यात्यागः कृतो यतः ॥८॥

तेन दोषेण भो देवि ततः पुत्रो न जीवति । दिने दिने कुक्षिपीडा तस्य कन्या प्रजायते ॥९॥

पुण्यं श्रृणु महादेवि यतः पुत्रः प्रजायते । गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् ‌ ॥१०॥

वाणी कूपतडागांश्च पथि मध्ये च कारयेत् ‌ ॥११॥

गायत्रीजातवेदोम्यां जपं कुर्याद्विचक्षणः । होमं च तद्दशांशेन तिलतण्डुलपायसैः ॥१२॥

दशवर्णा प्रदातव्या विप्राणां भोजनं शतम् ‌ । एवं कृते न संदेहो वंशलाभो भवेदनु ॥१३॥

व्याधिश्चैव प्रमुच्येत सत्यं सत्यं वरानने ॥१४॥

इति कर्मविपाकसंहितायां सप्तचत्वारिंशोऽध्यायः ॥४७॥

N/A

References : N/A
Last Updated : May 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP