सप्तशीतितमः पटलः - परनाथाअष्टोत्तरसहस्त्रनामा्नि १

परनाथाअष्टोत्तरसहस्त्रनामा्नि


श्रीआनन्दभैरव उवाच
आनन्दभैरवि प्राणवल्लभे जगदीश्वरि ।
तव प्रसादवाक्येन श्रुतं नामसहस्त्रकम् ॥१॥

हाकिन्याः कुलयोगिन्याः परमाद्‍भुतमङुलम् ।
इदानीं श्रोतुमिच्छामि परनाथस्य वाञ्छितम् ॥२॥

सहस्त्रनामयोगाङुमष्टोत्तरसमाकुलम् ।
भ्रूपद्मभेदनार्थाय हाकिनीयोगसिद्धये ॥३॥

परनाथक्य योगाधिसिद्धये कुलभैरवि ।
कृपया वद मे प्रीता धर्मसिद्धिनिबन्धनात् ॥४॥

मम देहरक्षणाय पातिव्रात्यप्रसिद्धये ।
महाविषहरे शीघ्रं वद योगिनि विस्तरात् ॥५॥

त्वत्प्रसादात् खेचराणां भैरवानां हि योगिनाम् ।
नाथोऽहं जगतीखण्डे सुधाखण्डे वद प्रिये ॥६॥

पुनः पुनः स्तौमि नित्ये त्वमेव सुप्रिया भव ।
श्रीआनन्दभैरवी उवाच
अथ योगेश्वर प्राणनाथ योगेन्द्र सिद्धद ॥७॥

इदानीं कथये तेऽहं निजदेहसुदिद्धये ।
सर्वदा हि पठस्व त्वं कालमृत्युं वशं नय ॥८॥

कृपया तव नाथस्य स्नेहपाशनियन्त्रिता ।
तवाज्ञापालनार्थाय कालकूटविनाशनात् ॥९॥

भुक्तिमुक्तिक्रियाभक्तिसिद्धये तच्छृणु प्रभो ।
नित्यामृतखण्डसोल्लासनामसहस्त्रकम् ॥१०॥

अष्टोत्तर्म प्रयत्नेन योगिनां हि हिताय च ।
कथयामि सिद्धनामज्ञाननिर्णयसाधनम् ॥११॥

अस्य श्रीपरनाथमहादेवमात्मनोऽष्टोत्तरशस्त्रनाम्नः स्तोत्रस्य सदाशिव ऋषिरुष्णिक्‌छन्दः श्रीपरनाथमहापुरुषपरमात्मा देवता हसौं बीजं सां शक्तिः प्रचण्डपरनाथमूलकीलकं चतुर्वहाकिनी परयोगसिद्धर्थे जपे विनियोगः

ॐ हसौं सां परेश्वश्च पराशक्तिः प्रियेश्वरः ।
शिवः परः पारिभद्रः परेशो निर्मलोऽद्वयः ॥१२॥

स्वयंज्योतिरनाद्यन्तो निर्विकारः परात्परः ।
परमात्मा पराकाशोऽपरोऽप्यपराजितः ॥१३॥

पार्वतीवल्लभः श्रीमान् दीनबन्धुस्त्रिलोचनः ।
योगात्मा योगदः सिद्धेश्वरो वीरः स्वरान्तकः ॥१४॥

कपिलेशो गुरुर्गीतः स्वप्रियो गीतमोहनः ।
गभीरो गाधनस्थश्च गीतवाद्यप्रियङ्करः ॥१५॥

गुरुगीतापवित्रश्च गानसम्मानतोज्झितः ।
गयानाथो दत्तनाथो दत्तात्रेयपतिः शिवः ॥१६॥

आकाशवाहको नीलो नीलाञ्जनशरीरधृक्‍ ।
खगरुपी खेचरश्च गगनात्मा गभीरगः ॥१७॥

गोकोटिदानकर्त्ता च गोकोटिदुग्धभोजनः ।
अभयावल्लभः श्रीमान् परमात्मा निराकृतिः ॥१८॥

सङ्‌ख्याधारी निराकारी निराकरणवल्लभः ।
वाय्वाहारी वायुरुपी वायुगन्ता स्ववायुपाः ॥१९॥

वातघ्नो वातसम्पत्तिर्वाताजीर्णो वसन्तवित् ।
वासनीशो व्यासनाथो नारददिमुनीश्वरः ॥२०॥

नारायणप्रियान्दो नारायणनिराकृतिः ।
नावमालो नावकर्ता नावसंज्ञानधारकः ॥२१॥

जलाधारो ज्ञेय इन्द्रो निरिन्द्रियगुणोदयः ।
तेजोरुपी चण्डभीमो तेजोमालाधरः कुलः ॥२२॥

कुलतेजा कुलानन्दः शोभाढ्यो वेदरश्मिधृक्‍ ।
किरणात्मा कारणात्मा कल्पच्छायापतिः शशी ॥२३॥

परज्ञानी परानन्ददायको धर्मजित्प्रभुः ।
त्रिलोचनाम्भोजराजो दीर्घनेत्रो मनोहरः ॥२४॥

चामुण्डेशः प्रचण्डेशः पारिभद्रेश्वरो हरः ।
गोपिता मोहितो गोप्ता गुप्तिस्थो गोपपूजितः ॥२५॥

गोपनाख्यो गोधनेशश्च चारुवक्त्रो दिगम्बरः ।
पञ्चाननः पञ्चमीशो विशालो गरुडेश्वरः ॥२६॥

अर्धनारीश्वरोशश्च नायिकेशः कुलान्तकः ।
संहारविग्रहः प्रेतभूतकोटिपरायणः ॥२७॥

अनन्तेशोऽप्यनन्तात्मा मणिचूडो विभावसुः ।
कालानलः कालरुपी वेदधर्मेश्वरः कविः ॥२८॥

भर्गः स्मरहरः शम्भुः स्वयम्भुः पीतकुण्डलः ।
जायापतिर्याजजूको विलाशीशः शिखपतिः ॥२९॥

पर्वतेशः पार्वणाख्यः क्षेत्रपालो महीश्वरः ।
वाराणसीपतिर्मान्यो धन्यो वृषसुवाहनः ॥३०॥

अमृतानन्दितो मुग्धो वनमालीश्वरः प्रियः ।
काशीपतिः प्राणपतिः कालकण्ठो महेश्वरः ॥३१॥

कम्बुकण्ठः क्रान्तिवर्गो वर्गात्मा जलशासनः ।
जलबुद्‌बुदवक्षश्च जलरेखामयः पृथुः ॥३२॥

पार्थिवेशो महीकर्ता पृथिवीपरिपालकः ।
भूमिस्थो भूमिपूज्यश्च क्षौणीवृन्दारकर्चितः ॥३३॥

शूलपाणिः शक्तिहस्तो पद्मगर्भो हिरण्यभूत् ।
भूगतसंस्थितो योगी योगसम्भवविग्रहः ॥३४॥

पातालमूलकर्ता च पातालकुलपालकः ।
पातालनागमालाढ्यो दानकर्ता निराकुलः ॥३५॥

भ्रूणहन्ता पापराधिनागकः कालनायकः ।
कपिलोग्रतपःप्रीतो लोकोपकारकृन्नृपः ॥३६॥

नृपार्चितो नृपार्थस्थो नृपार्थकोटिदायकः ।
पार्थिवार्चनसन्तुष्टो महावेगी परेश्वरः ॥३७॥

परापारापारतरो महातरुनिवासकः ।
तरुमूलस्थितो रुद्रो रुद्रनामफलोदयः ॥३८॥

रौद्रीशक्तिपतिः क्रोधी कोपनष्टो विरोचनः ।
असंख्ययाख्ययुक्तश्च परिणामविवर्जितः ॥३९॥

प्रतापी पवनाधारः प्रशंस्यः सर्वनिर्णयः ।
वेदजापी मन्त्रजापी देवता गुरुरीश्वरः ॥४०॥

N/A

References : N/A
Last Updated : May 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP