द्वयशीतितमः पटलः - हाकिनीपरशिवपूजनम् २

हाकिनीपरशिवपूजनम्


पीठनायिकानामानि
कमला सुन्दरी रम्या मोहिनी हरमेखला ।
तेजोरुपा शिखावहिनज्वालाकालानलेश्वरी ॥४९॥

समया रमणी भीमा रतिः कामसरस्वती ।
वीणावती मधुमती वामनाकर्षिणी तथा ॥५०॥

ईरा शुद्धात्मिका भद्रा शान्तिर्निर्माल्यवासिनी ।
अरुन्धती च सावित्री किरणाच्छादिनी तथा ॥५१॥

स्वाहा स्वधा विशालाक्षी मदना मदनातुरा ।
भ्रान्तिः प्रभावती ज्ञानदात्री विज्ञानदायिनी ॥५२॥

कोकिलाक्षी कुरङाक्षी बोधिनी सप्तमण्डली ।
हिरण्या मन्दिरा चेतः शुद्धिदा सिद्धिदा तथा ॥५३॥

मन्दाकिनी बृहद्‌गङा सिद्धा भोगवती तथा  ।
तरश्मिनी च मोहा च त्रिवेणी मूर्तधारिणी ॥५४॥

गुर्वी तरङुपूज्या च विमला त्रिपुरा परा ।
त्रितारी तारिणी भद्रकालिका ग्रन्थिभेदिनी ॥५५॥

रत्नमाला पापहरा पार्वती मानसीश्वरा ।
भगमालिन्युमा देवी देवमाता कलावती ॥५६॥

पञ्चानना कालजित्वा दृप्ता पञ्चशिखा तथा ।
मर्दिनी रणमातङी खड्‌गहस्ता हसन्मुखी ॥५७॥

पद्ममाला किङ्किणी च धरित्री च वसुन्धरा ।
फाल्गुनी पञ्चपीठस्था दीप्ता घोषयसालसा ॥५८॥

पवित्रा धूमिनी दीर्घजङ्वा व्याघ्रमुखी तथा ।
कातरा तरुणी हक्षा हाकिनीन्द्रावती जया ॥५९॥

जयदा पूजिता एताः शतच्छदनिकेतने ।
पराशक्तिः पूजियित्वा मन्त्रशक्तिं प्रपूजयेत्‍ ॥६०॥

मनशक्तयः
तरला चञ्चला धात्री चारुणा सूर्यगा दया ।
स्मृतिर्दीक्षा धारणाक्षी दंशिनी भद्रकालिका ॥६१॥

षट्‌कालतारिणी रुद्रवलिता वर्णरुपिणी ।
एताः पूज्या महादेव योगिन्यो मन्त्रशक्तयः ॥६२॥

ह्रदि ध्यानं प्रवक्ष्यामि ध्यानात्मा शाकदो यतः ।
महाबीजं रक्तवर्णं विभावय न ... ... ... ॥६३॥

महासुन्दररुपं तु कोटिसूर्यसमप्रभम्‍ ।
विभाव्य मनसा योगी भूतशुद्धिं समाचरेत्‍ ॥६४॥

वहिनना दह्यमानं तु देह ध्यात्वा पुनः पुनः ।
वायुना शोष्य देहं तु जलेनाप्लावयन्‍ पुनः ॥६५॥

मूलमन्त्रेण सर्वाङुं सुधासागरसम्भवम्‍ ।
ध्यात्वा दिव्यमयं पश्चान्मनः पूजां समाचरेत्‍ ॥६६॥

न्यासजालं प्रवक्ष्यामि साधकानां हिताय च ।
न्यासजालप्रभावेण साधको योगिराड्‍ भवेत्‍ ॥६७॥

अच्छेद्याभेद्यकायः स्यान्मृत्युजेता स्वयं भवेत्‍ ।
ऋषिमातृकरन्यासं चाङुन्यासं ततः परम्‍ ॥६८॥

आचरेत्‍ पूर्ववद्‍ भक्त्या मूलं चाद्याक्षरेण च ।
सदाशिव ऋषिः प्रोक्तो गायत्रीच्छन्द एव च ॥६९॥

देवता हाकिनी देवी परनाथप्रियङ्करी ।
देवता क्लीं बीजसारं कीलकं मूलदेव च ॥७०॥

शीर्षे मुखे ह्रदि ग्रन्थौ मूलाधारे च विग्रहे ।
ऋषिन्यासं सदा कुर्याद्धाकिनी प्रीतिवर्धनम्‍ ॥७१॥

ॐ पदान्ते च शिरसि सदाशिवाय शब्दतः ।
ऋषये नम उच्चार्य मुखे शब्दं ततो वदेत्‍ ॥७२॥

गायत्रीच्छन्दसे पश्चान्नमःशब्दं ततो वदेत्‍ ।
ह्रदि श्रीहाकिनीदेव्यै परशक्त्यै ततो वदेत्‍ ॥७३॥

देवतायै नमः पश्चान्मूलाधारे ततो वदेत्‍ ।
क्लीं बीजाय नमः पश्चात्‍ सर्वाङे ततो वदेत्‍ ॥७४॥

मूलमार्यदेवतायै नमः शब्दं ततो वदेत्‍ ।
ततः कुर्यान्महादेव सर्वाङुसिद्धये ॥७५॥

ह्रदये हस्तमारोप्य श्रीतत्त्वमुद्रया सुधीः ।
बिन्दुयुक्तं न्यसेदादौ ततो दक्षभुजे न्यसेत्‍ ॥७६॥

एकारादि चतुर्वर्ण्यं मूलेन पुटितं प्रभो ।
बिन्दुयुक्तं दक्षहस्ते विन्यसेत्‍ साधकोत्तमः ॥७७॥


तथा वामभुजे न्यासमाचरेन्मनु सम्पुटम्‍ ।
ठादिढान्ताक्षरैर्बिन्दयुक्तैर्न्यासं समाचरेत्‍ ॥७८॥

नादिभान्ताक्षरैर्बिन्दुयुक्तैः स्वमनुसम्पुटैः ।
दक्षपादे न्यसेद्धीमान्‍ ततो वामपदे न्यसेत्‍ ॥७९॥

मादिक्षान्ताक्षरैर्बिन्दुसंयुतैर्मनुसम्पुटैः ।
मातृकाकान्यासमाकृत्य करन्यासं समाचरेत्‍ ॥८०॥

ह्रींबीजेन करन्यासं षड्‌दीर्घभाक्‌स्वरेण च ।
एवं चाङ्‌न्यासं कार्यं विधानेन कुलेश्वर ॥८१॥

पूर्वोक्तेनापि सकलं न्यासजालं समापयेत्‍ ।
ततः षोढा समाकुर्याद्धाकिनीपरदेवयोः ॥८२।

मुलाख्या मातृकास्थाने न्यासस्थानं सुलक्षणम्‍ ।
रुद्रैस्तु प्रथमो न्यासो द्वितीयस्तु ग्रहैर्युतः ॥८३॥

लोकपालैस्तृतीयः स्याच्छिवशक्त्या चतुर्थकः ।
शक्त्यादिभिः पञ्चमः स्यात्‍ षष्ठः पीठैर्निगद्यते ॥८४॥

N/A

References : N/A
Last Updated : May 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP