श्रीआनन्दभैरवी उवाच
अथ वक्ष्यामि लोकेश मन्त्रोद्धारान्तकालके ।
हाकिन्याः परनाथस्य साधनं पूजनं श्रृणु ॥१॥

त्रयाशीतितमान्ते तु चतुरशीतितमे मम ।
परनाथस्य हाकिन्या यजनं चाद्‌भुतं महत्‍ ॥२॥

अप्रकाश्यं महागोप्यं सारात्सारं परात्परम्‍ ।
भ्रूपद्मभेदनादीनां क्रमं श्रृणु महेश्वर ॥३॥

यो हि जानाति भ्रूमध्ये भ्रूपद्मेभेदनक्रमम्‍ ।
स ममाग्रे समायाति जीवन्मुक्तो भवार्णवे ॥४॥

तत्क्रमोपक्रमज्ञानं महापातकशनम्‍ ।
अकस्मात्‍ सिद्धिदं नित्यं सदानन्दपदप्रदम्‍ ॥५॥

भार्या भवति कामेशी लक्ष्मीनाथो भवेद्‍ ध्रुवम्‍ ।
आनन्दभैरव उवाच
अथ राज्यक्रियासारं केन प्राप्नोति भूतले ॥६॥

राजत्वं शिष्यवर्गाणां भेदनं केन वा भवेत्‍ ।
साक्षात्‍ सिद्धिक्रमज्ञानं भ्रूपद्मभेदनक्रमम्‍ ॥७॥

कृपया वद मे शीघ्रं यदि श्रद्धा दया मयि ।
आनन्दभैरवी उवाच
विस्तार्य कथायाम्यत्र सारसङ्केमङुलम्‍ ॥८॥

श्रीगुरोर्वदनाम्भोजनिजमन्त्रप्रकाशितम्‍ ।
श्रुत्वा योगी योगयोग्यो भवत्येव न संशयः ॥९॥

अधोमुखे भाति महारविप्रभा
ग्रन्थिप्रचण्डोपरिवारकाभिः ।
शनैः शनैर्भेदनयोगकाले
प्रयत्नमाकृत्य भवेद्धि योगी ॥१०॥

बद्धमेकासनं कृत्वा चित्तमारोप्य यत्नथ ।
भ्रूपद्मनिकरे शोभामण्डलानन्दपूरिते ॥११॥

सत्त्वग्रन्थिपदं भित्वा स्थिरचेता भवेद्‍ ध्रुवम्‍ ।
अकालमृत्युः कुत एव तस्य
प्रभाकरज्ञाननिकेतशोभौ ।
आकाशगामी भुवनाधिकारी
स्थिराशयः प्रेमकलापगामी ॥१२॥

सप्तसु ग्रन्थिमुखेषु देवताः सप्तधा मुदा ॥१३॥

विभन्ति योगिरक्षायै योगमायावशाय च ।
स्थिरमाया योगमाया कालमाया च लालिनी ॥१४॥

देवमाया धर्ममाया विमाया सप्त देवताः ।
ग्रन्थिमध्ये रत्नवर्ण निर्मलानन्ददायिकाः ॥१५॥

सत्त्वग्रन्थिर्महादेव आकाशग्रति भाति हि ।
आदौ तस्यापि भेदञ्च एकैकक्रयोगतः ॥१६॥

सूक्ष्मवायुक्रमेनैव भित्वा च योगमण्डले ।
शीघ्रं याति मनो यस्य स वीरो न तु मानुषः ॥१७॥

ग्रन्थिनामानि वक्ष्यामि सावधानोऽवधारय ।
खगिनी द्राविणी धूम्रा कठिनी कर्कटी तथा ॥१८॥

श्यामला कपिला सप्त ग्रन्थिरुपप्रतिष्ठिता ।
खगिनीमन्त्रमुच्चार्य सूक्ष्मश्वासक्रमेण तु ॥१९॥

ऊर्ध्वमार्गे विहायापि ह्राष्टोत्तरशतेन च ।
प्रणवं भुवनेशानी खनीबीजमेव च ॥२०॥

भेदा भेदा भवान्ते तु पुनः खं बीजमेव च ।
अस्त्रान्तं मन्त्रमुच्चार्य भेदने च दृढो भवेत्‍ ॥२१॥

द्राविणीमन्त्रमुच्चार्य सूक्ष्ममार्गेण भैरव ।
जपेदष्टोत्तरेणाइ शतमन्त्रेण सर्वदा ॥२२॥

प्रणवं परमाबीजं ब्रह्मबीजं ततो बहिः ।
वाग्भवं द्राविणीबीजं ग्रन्थिद्रावयुगमकम्‍ ॥२३॥

स्वाहास्त्र्यन्तं महामन्त्रं ध्यात्वा ध्यात्वा पुनः पुनः ।
जप्त्वा भ्रूदलसूक्ष्मदृष्ट्या विलोक्य भ्रूदलान्तरम्‍ ॥२४॥

अकस्माद्‍ भेदमाप्नोति किं बन्धक्लेशतः प्रभो ।
धूम्रामन्त्रं प्रवक्ष्यामि येन सिद्धो भवेन्नरः ॥२५॥

प्रणवं कमलाबीजं देवेबीजं ततः परम्‍ ।
धूम्राबीजं तदन्ते तु मृत्युनाशिनि शब्दतः ॥२६॥

ग्रन्थिं हनयुगान्ते तु चास्त्राय फडिति स्थितिः ।
इति मन्त्रं सहस्त्रं वा शतं वाष्टोत्तरं जपेत्‍ ॥२७॥

चक्रासनमुपाकृत्य भेकासनमथापि वा ।
भ्रुवारेन्तर्गतं पद्मं द्विदलं चारुमण्डलम्‍ ॥२८॥

तदन्तरे कर्णिकायां महापीठं विचिन्तयेत्‍ ।
बिन्दुषट्‌कोणमालिख्य त्रिकोणस्थान्तरः सुधीः ॥२९॥

तद्वहिः सप्तभूरेखं विचिन्त्य पङ्कजं शुभम्‍ ।
दिव्य़ं शतदलं विद्युत्कोटिकान्तिसमप्रभम्‍ ॥३०॥

पत्रे पत्रे महामुद्रास्थानं परमदुर्लभम्‍ ।
दिव्यस्थानं परीवारस्थानं ध्यात्वा पुनः पुनः ॥३१॥

कर्णिकाया ततो ध्यायेद्‍ हाकिनीपरमेश्वरम्‍ ।
कठिनामन्त्रमावक्ष्ये ग्रन्थिभेत्ता भवेदनु ॥३२॥

येन योगक्रमेणैव शास्त्रजालं वशं नयेत्‍ ।
प्रणवं वाग्भवं माया रमा कामस्ततः परम्‍ ॥३३॥

कठिनग्रन्थि छेदयेति युगलं परमेश्वरि ।
मायास्त्राय फडन्ताय महामन्त्र उदाह्रतः ॥३४॥

शतमष्टोत्तरं नित्यं सहस्त्रं वा जपेद्‍ बुधः ।
अधो मुण्डासनं कृत्वा तत्र पद्मासने विशेत्‍ ॥३५॥

भ्रूपद्मे चित्तमारोप्य महापीठे मनोरमे ।
पीठं त्रिकोणामध्ये तु बिन्दुषट्‌कोणमेव च ॥३६॥

तद्वहिः सप्तभूमिम्बं तत्र पद्मं विचिन्तयेत्‍ ।
रक्तं शत दलं पद्मं चतुर्द्वारं तदुत्तरे ॥३७॥

पत्रे पत्रे केशराणि त्रीणि त्रीणि क्रमेण तु ।
ब्रह्माविष्णुमहेशादिरुपाणि परिचिन्तयेत्‍ ॥३८॥

कर्कटीमन्त्रमावक्ष्ये साक्षाद्‌भूमिविभेदनात्‍ ।
ब्रह्मबीजं मायाशब्दं मायकर्कटीशब्दथ ॥३९॥

कूटग्रन्थिं भेदयेति द्वयं कामकला ततः ।
अस्त्राय फडिति ख्यातो महामन्त्रोत्तमोत्तमः ॥४०॥

शतमष्टोत्तरं ध्यात्वा मन्त्रं चिच्छक्तिमण्डले ।
श्यामलामन्त्रमावक्ष्ये भैरवेश महाप्रभो ॥४१॥

श्रृणुष्वाराधय ज्ञानं सार्वज्ञासिद्धिदायकम्‍ ।
प्रणवं कालिकाबीजं त्रिवारमुच्चरेत्‍ सुधीः ॥४२॥

तदन्ते मायायुगलं श्रीबीजं तदनन्तरम्‍ ।
तदन्ते श्यामलाबीजं दृढग्रन्थिविभेदिनी ॥४३॥

विलं निर्मलं शब्दान्ते मा कुरु द्वयमेव च ।
कामास्त्राय फडिति च मन्त्रसारः प्रयोगदः ॥४४॥

शतमष्टोत्तरं जाप्यं प्रत्यह्म चासनस्थितः ।
शनैः शनैः सिद्धियुक्तो ज्ञानी मौनी महागुणी ॥४५॥

भवेत्‍ साधकामुख्यश्च मम देहाश्रितो भवेत्‍ ।
कपिलामन्त्रमावक्ष्ये श्रृणुष्व भैरवेश्वर ॥४६॥

प्रणवं बालाबीजं तु कपिलाबीजमुत्तमम्‍ ।
तां तु ग्रन्थि भेदयेति युगलं छेदयेति च ॥४७॥

चित्तं मे भूगृहे पश्चात्‍ समारोपय युग्मकम्‍ ।
पुनस्तु कपिलाबीजं मायाबीजं ततो वदेत्‍ ॥४८॥

रमास्त्राय फडन्तोऽयं महामन्त्रोतमोत्तमः ।
शतमष्टोत्तरं वापि सहस्त्रं प्रजपेद्‍ यदि ॥४९॥

द्विमासात्‍ सप्तग्रन्थानी भेत्ता स्याद्‍ भैरवो यथा ।
इति ग्रन्थिभेदनस्य क्रमज्ञानमुदाह्रतम्‍ ॥५०॥

॥ इति श्रीरुद्रयामले उत्तरमन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्‌चक्रप्रकाशे भैरवीभैरवसंवादे भ्रूपद्मसप्तग्रन्थिभेदो नाम एकादशीतितमः पटलः ॥८१॥

N/A

References : N/A
Last Updated : May 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP