श्रीआनन्दभैरवी उवाच
श्रृणु भैरव वक्ष्यामि सङ्केतार्थनिर्णयम्‍ ।
मुलचक्रक्रमं सिद्धं शक्तिसदाशिवस्य च ॥१॥

अस्य विज्ञानमात्रेण कण्ठपद्मे स्थिरो भवेत्‍ ।
पद्माग्रे च सारचक्रे योगिनामतिसुसुप्रियम्‍ ॥२॥

ध्यानादेव महाबाहो सर्वचक्रप्रदर्शकम्‍ ।
ऊर्ध्वरेता कामजेता ज्ञानी मौनी दिगम्बरः ॥३॥

खेचरो धारकः श्रीमान्‍ कौलिकः साधको भवेत्‍ ।
तच्चक्रध्यानमेवं तु द्विद्वारमग्रतो मुखे ॥४॥

तदन्ते चापि द्विद्वारं तिलार्धं भिन्नरेखया ।
रेखाद्वये चैकद्वारमेवं द्वारद्वयं पुनः ॥५॥

अग्रादुत्तरपर्तन्तं ध्यायेद्‍ वारद्वयं सुधीः ।
द्वयोर्मध्ये चतुर्वेदरेखामण्डलभेव च ॥६॥

तदन्तरे च षट्‌कोणं द्विषट्‌कोणं तदन्तरे ।
तन्मध्येऽष्टदलं तन्मध्ये चन्द्रमण्डलम्‍ ॥७॥

तन्मध्ये शून्यरुपं तु निराकारं निरञ्जनम्‍ ।
तत्त्वज्ञानाश्रितानन्दविद्यात्मानं ममास्पदम्‍ ॥८॥

स्थूलसूक्ष्ममयं शुद्धं वाच्यवाचकभावनम्‍ ।
अभेदं तु ममात्मानं कोटिसूर्यसमप्रभम्‍ ॥९॥

कोटिविद्युत्प्रभाकारं चन्द्रकोटिसुशीतलम्‍ ।
सर्वव्यापकं मीशानमभेदज्ञनकारणम्‍ ॥१०॥

विधातारं परब्रह्मं सर्वज्ञं सर्वदर्शिनम्‍ ।
सर्वशास्त्रप्रवक्तारं ज्ञानज्ञेयं चराचरम्‍ ॥११॥

अष्टहस्तं विशालाक्षं शूलिनं मुण्डमालिनम्‍ ।
जरातीतं निर्विकल्पं तरुणं तारकं हरम्‍ ॥१२॥

हरिं ब्रह्माणमीशानं त्रिलोकानां प्रभामयम्‍ ।
अभेद्यभेदकं सिद्धं सिद्धासनकरं सुरम्‍ ॥१३॥

गन्धर्वनगरं देशं विशेषं सर्वतोमुखम्‍ ।
अकालतारकं स्वाहास्वधाशक्तिसमन्वितम्‍ ॥१४॥

कोटिकालानलाकारं रौद्रं रुद्रात्मकं भवम्‍ ।
कन्याश्रीसुन्दरीकाटिमण्डलान्तः प्रकाशकम्‍ ॥१५॥

तेजोबिम्बं भासमानं सर्वव्याधिनिकृन्तनम्‍ ।
ह्रषीकेशानन्दसिद्धं त्रिविक्रमफलोदयम्‍ ॥१६॥

नृसिंहक्रोधनिलयं सर्वदैत्याविनाशनम्‍ ।
मीनवतारवेदार्थसमुद्धरणकारणम्‍ ॥१७॥

कूर्मपृष्ठाधारचक्रं वराहदन्तभूषणम्‍ ।
नरसिंहाकारभक्तरक्षकं परमेश्वरम्‍ ॥१८॥

महेन्द्ररक्षकं दैत्यदर्पघ्नं वामनं तनुम्‍ ।
दैत्यक्षत्रियदर्पघ्नं परशुरामं द्विजाधिपम्‍ ॥१९॥

भृगुवंशपतिं सत्यज्ञानावतारमुत्तमम्‍ ।
श्रीरामं पावनं रक्षोहन्तारं तापसं गुरुम्‍ ॥२०॥

त्रैलोक्यधारमानन्दरुपं हलधरं परम्‍ ।
अनन्तं योगिनामाद्यं सहस्त्राङ्कफणान्वितम्‍ ॥२१॥

बुद्धं निराकारधर्मं सर्वशास्त्रार्थवर्धकम्‍ ।
नित्यश्रुत्युदितामोदधर्मविवर्जितम्‍ ॥२२॥

स्वयम्भुवं स्वप्रकाशं परमात्मानं मङुलम्‍ ।
एकाकां धर्मचक्रवेदिनं स्वच्छसङुरम्‍ ॥२३॥

दुष्टनिग्रहकर्तारं महावीरं धनञ्जयम्‍ ।
श्रीकृष्ण सवेसेवाभिः पूजितं तन्मयं शुभम्‍ ॥२४॥

विमदं रक्षकं ध्यानज्ञानमोक्षप्रकाशकम्‍ ।
राजराजेश्वरं वास्यं सर्वलोकनिषेवितम्‍ ॥२५॥

सर्वदेवस्थितं धर्मं धर्मात्मानं विनोदिनम्‍ ।
व्यापकं व्यापकाधारं निर्विकल्पं सुधामयम्‍ ॥२६॥

विशिष्टं पञ्चपाषाणमहापीठनिवासिनम्‍ ।
अनन्तान्तमहिमं कपालशूलधारिणम्‍ ॥२७॥

त्रिरेखामण्डलस्थानं चतुर्वेदक्रमाकरम्‍ ।
एकवक्त्रं द्विपादं च द्विमुखञ्च चतुष्पदम्‍ ॥२८॥

त्रिमुखं षड्‌भुजं नाथं चतुर्वक्त्रं विधिं परम्‍ ।
अष्टाम्भोजभुजाम्भोजं पञ्चवक्त्रं त्रिलोचनम्‍ ॥२९॥

शिवं दशभुजं सौख्यं सुन्दरं श्रीषडाननम्‍ ।
नित्यं द्वादशहस्तञ्च सर्वास्त्रधारिणं ध्रुवम्‍ ॥३०॥

सप्तसुखं महाकायं चतुर्दशभुजं प्रियम्‍ ।
अष्टमुखं शिवाहलादं भुजषोडशमण्डितम्‍ ॥३१॥

नवपद्मब्मुखाम्भोजष्टादशभुजं विभुम्‍ ।
उन्मत्तभैरवं कोटिमहाविद्याद्यवल्लभम्‍ ॥३२॥

अमरेशं महाकायष्टादशभुजापतिम्‍ ।
कालराशिं कृष्णवर्णं चित्रसर्पसुमालिनम्‍ ॥३३॥

शतवक्त्रं कोटिहस्तं सहस्त्रवदनाम्बुजम्‍ ।
शतकोटिमुखं नित्यानन्दसन्तानमन्दिरम्‍ ॥३४॥

अनन्त चरणाम्भोजमनन्तजनसेवितम्‍ ।
अनन्तहस्तकमलमनन्तालङ्‌तोज्ज्वलम्‍ ॥३५॥

अन्तःप्र्काशनिकरमनन्तगुणसम्भवम्‍ ।
अनन्तसृष्टिस्त्रष्टारमनन्तस्थितिकारणम्‍ ॥३६॥

अनन्तकमलावन्ये चानन्तसंह्रतिप्रियम्‍ ।
अनन्तबीजनिकरमनन्तशास्त्रनिश्चयम्‍ ॥३७॥

अनन्ततापसन्तृमनन्तजलमध्यगम्‍ ।
अनन्तपरमाधारमनन्तवहिनधारिणम्‍ ॥३८॥

अनन्ताकाशनिकरमनन्तपृथिवीपतिम्‍ ।
अनन्तज्वालामालाढ्यमनन्तबुद्धिकारणम्‍ ॥३९॥

अनन्तस्थानपूजाढ्यमनन्तनामसिद्धिदम्‍ ।
अनन्तगतिविज्ञानमनन्तराज्यदं सुखम्‍ ॥४०॥

अनन्तधर्मशास्त्रार्थकिरणं काव्यपूजितम्‍ ।
अनन्तदेवतास्थामनन्तकर्मसिद्धिदम्‍ ॥४१॥

अनन्तमालागुटिकाजापिनं नित्यसिद्धिदम्‍ ।
अनन्तचित्तसञ्चारमनन्तानन्तविक्रमम्‍ ॥४२॥

अनन्तजीवसंज्ञानमन्तभावनाप्रियम्‍ ।
अनन्तनिर्मलानन्दमन्तप्राणिवल्लभम्‍ ॥४३॥

अनन्तनाथाकर्तारमनन्तसिन्धुसंस्थितम्‍ ।
सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम्‍ ॥४४॥

सर्वमावृत्य तिष्ठन्तमपराजितमीश्वरम्‍ ।
ध्यात्वाऽऽनन्दमयं देवं पीठमध्ये च साधकम्‍ ॥४५॥

शाकिनीदेवशक्तिश्रीप्रमाहलादपरायणम्‍ ।
देवेदेवं विश्वमयं शाक्यरुपं सनातनम्‍ ॥४६॥

मम रुपं यदा नाम्ना स्तौति कामविनोदिनम्‍ ।
ध्यात्वा चक्रपुरे योगी निरालम्बो दिगम्बरः ॥४७॥

गगने चक्रसारं तु कुलनाम्ना प्रतिष्ठितम्‍ ।
ध्यात्वा भवति योगीन्द्रः खेचरो गतभीः प्रभुः ॥४८॥

अनायासेन सिद्धिः स्याद्‍ ज्ञानी च ज्ञानवान्‍ भवेत्‍ ।
ऊर्ध्वमुखं कण्ठपद्मं तदग्रे चक्रमण्डलम्‍ ॥४९॥

अधोमुखं नेत्रपद्म्म द्विदलं चातिसुन्दरम्‍ ।
तदग्रे च महाचक्रं तदाकारं महाप्रभम्‍ ॥५०॥

द्विचक्रसङुमं यत्र दृश्यते रात्रियोगतः ।
तदा भवति देवेश चतुर्द्वारं मनोहरम्‍ ॥५१॥

चक्रं निरञ्जनं ज्ञानज्ञेयं मन्त्रमयं शिव ।
यो जानति महादेव स भवेत्‍ कल्पपादपः ॥५२॥

इति कण्ठस्य माहात्म्यं संक्षेपात्‍ कथितं मया ।
जानाति योगी ध्यानेन ज्ञानयुक्तिन चेतसा ॥५३॥

पश्यत्येव महात्मानं ज्ञानज्ञेयं सुधामयम्‍ ।
कोटिवर्षशतनापि कथितुं नैव शक्यते ॥५४॥

तव भक्त्या महादेव तवायुःक्षेत्ररक्षणात्‍ ।
इदानीं कथितं कण्ठपद्मसञ्चारमङुलम्‍ ॥५५॥

अप्रकाश्यं महागुह्यं शब्दब्रह्मस्वरुपकम्‍ ।
निर्जने दोषरहिते व्याधिबाधाविवर्जिते ॥५६॥

सुभिक्शानिन्दारहिते स्थित्वा तत्र दृढव्रतः ।
भावयेत्‍ परया भक्त्या तव रुपं विचिन्तयन्‍ ॥५७॥

अचिराद्योगसिद्धः स्यान्निदानज्ञानसिद्धिभाक्‍ ।
श्रीमातृका महादेवी लीलावती शुभा सती ॥५८॥

अम्बा गुरी गुरुशक्तिः पातु मामतिकातरम्‍ ।
तामम्बाम्बुजाक्षी च प्रणम्य च पुनः पुनः ॥५९॥

इदानीं कथये नाथ भ्रूपद्मज्ञाननिर्णयम्‍ ॥६०॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने सिद्धमन्त्रप्रकरणे षट्‌चक्रप्रकाशे भैरवीभैरवसंवादे कण्ठाम्भोजभेदप्रकाशो नाम अष्टसप्ततितमः पटलः ॥७८॥

N/A

References : N/A
Last Updated : May 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP