श्रीआनन्दभैरव उवाच
इदानीं वद कौमारि सुन्दरि प्राणवल्लभे ।
अशीतितमे पटले वद योगार्थसञ्चयम्‍ ॥१॥

श्रीआनन्दभैरवी उवाच
श्रृणु भैरवराजेन्द्र सदाशिवादिशाकिनीम्‍ ।
द्वयोराहलायोगो हि भोगमोक्षफलायते ॥२॥

आकाशपरमाणूनां विशिष्टामलचक्षुषाम्‍ ।
दर्शनं विद्युज्जडितं प्राप्नोति सहसा सुधीः ॥३॥

सदाशिवकुलस्थानोपरि श्रीशाकिनीपदम्‍ ।
द्वयोर्यो हि विशिष्टज्ञो ज्ञानखेचरसिद्धये ॥४॥

तत्कुलस्थानमावक्ष्ये यथावदवधारय ।
षोडशाख्यदलग्रेषु मध्यमूलेषु सर्वतः ॥५॥

सदाशिवकुलस्थानं चक्रराजं विचिन्तयेत्‍ ।
विचिन्त्य शतधा किं न सिद्धयति भूतले ॥६॥

भूतानामधिपो भूत्वा स्थिरो भवति भूतले ।
भगवन्तं महाकायं परदेवं सदाशिवम्‍ ॥७॥

चक्रस्थं चक्रबाह्यस्थं बाह्यमध्यन्तरं परम्‍ ।
पश्यत्येव महायोगी कालचक्रं ततः परम्‍ ॥८॥

अनायासेन गगनग्रन्थि भित्वा परे लयम्‍ ।
चक्रराजप्रसादेन सर्वञ्चारगो भवेत्‍ ॥९॥

द्वात्रिंशत्कठिनग्रन्थिं भित्वाकाशे खगोर्ध्वगः ।
ततः परशिवानन्दचक्रं शक्त्यात्मकं ततः ॥१०॥

ततो हि शब्दनिकरं परास्थानं ततः परम्‍ ।
सकलनिष्कलास्थानं बोधनीमण्डलं ततः ॥११॥

तदूर्ध्वञ्चोन्मनीपीठं भित्वा च तदनन्तरम्‍ ।
भृगुपरं ततो भित्वा नादपूरं ततः परम्‍ ॥१२॥

नादान्तकं ततो भित्वा ब्रह्मविष्णुघटाकरम्‍ ।
क्रियाकरं प्राणलयं यज्ञस्थानं शिखापदम्‍ ॥१३॥

पूर्णगिरिमुड्डियानं भित्वा च स्वपदं ततः ।
दुर्गस्थानं ततो भित्वा प्रकाशस्थानमेव च ॥१४॥

तदूर्ध्वे पिङुलास्थानं तदूर्ध्वे तत्पदं ततः ।
सुषुम्नामण्डलं भित्वा धौम्रिकोणं महालयम्‍ ॥१५॥

तदूर्ध्वे विष्णुचक्रं तु कुलालिचक्रवत्सिथतम्‍ ।
तं भित्वा कामनगरं सर्वकामफलप्रमद्‍ ॥१७॥

तदूर्ध्वे शक्रचक्रं तु तदूर्ध्वे भूमिचक्रकम्‍ ।
तदूर्ध्वे कोषचक्रं तु तदूर्ध्वे वायुचक्रकम्‍ ॥१८॥

तदूर्ध्वे वहिनचक्रं तु तदूर्ध्वेऽमृतचक्रकम्‍ ।
तदूर्ध्वे जलचक्रं तु दिवाचक्रं तदूर्ध्वेके ॥१९॥

तदूर्ध्वे यामिनीचक्रं तदूर्ध्वे तारचक्रकम्‍ ।
तदूर्ध्वे धर्मचक्र तु कालचक्रं तदूर्ध्वके ॥२०॥

सर्वकालं सदा व्याप्य जगत्स्थावरज्ङुमम्‍ ।
सदा तादूर्ध्वनिकरं सप्तसागरमण्डलम्‍ ॥२१॥

तदूर्ध्व भाति सततं श्रीजलान्तकमण्डलम‍ ।
तदूर्ध्वे तु महाचक्रं महापद्मवनाकरम्‍ ॥२२॥

टङ्कारोपरि संध्यायेत्‍ सहस्त्रारे सुपङ्कजम्‍ ।
तं भित्वा ज्ञानपद्मं तु कर्णिकायां प्रपश्यति ॥२३॥

प्रेतरुपमहादेवशवाकारं तु निष्क्रियम्‍ ।
अस्येरसि प्रेतबीजं सूर्यायुतसमप्रभम्‍ ॥२४॥

ऊरुमूले च तस्यापि क्रोधबीजं शतारुणम्‍ ।
तस्त्योपरि महाकालीमवश्यं परिपश्यति ॥२५॥

प्रत्यालीढपदामम्बामम्बुजाक्षीं हसन्मुखीम्‍ ।
चतुर्भुजां खड्‌गमुण्डवराभयकराम्बुजाम्‍ ॥२६॥

त्रैलोक्यजननीं ब्रह्मरुपिणीं मुकुटोज्ज्वलाम्‍ ।
मुण्डमालां संवहन्तीं सर्वास्त्रा सर्वकारणाम्‍ ॥२७॥

अनन्तकोटिब्रह्मव्यापकरुपिणीम्‍ ।
प्रसन्नवदनां घोरां शवकर्णां करालिनीम्‍ ॥२८॥

योगीन्द्रजननीं नित्यां भवानीं भवमोचिनीम्‍ ।
विमलां निर्मलानन्दां ज्ञानान्दस्वरुपिणीम्‍ ॥२९॥

धर्मार्थकाममोक्षस्थां मुक्तकेशीं दिगम्बरीम्‍ ।
ललिता सुन्दरी श्यामां महाकालनिषेविताम्‍ ॥३०॥

महोग्रां चन्द्रघण्टानितम्बरत्नमेखलाम्‍ ।
सहस्त्रानन्तसूर्योतेजोरुपां कुलप्रियम्‍ ॥३१॥

श्मशानवासिनीं दुर्गां श्मशानालयवासिनीम्‍ ।
घोररावां महारौद्रीं कालिकां दक्षिणा पराम्‍ ॥३२॥

कर्णावतंसतां नीतशवयुग्मभयानकाम्‍ ।
घोरदंष्ट्रा करालास्यां पीनोन्नपतयोधराम्‍ ॥३३॥

शवानां करसङ्कातैः कृतकाञ्चीं प्रियंवदाम्‍ ।
सृक्कद्वय गलद्रक्तधाराविस्फुरिताननाम्‍ ॥३४॥

बालार्क मण्डलाम्भोजनयनत्रयभूषिताम्‍ ।
दन्तुरां दक्षिणव्यापिमुक्तालम्बिकुचश्रियम्‍ ॥३५॥

शवरुपमहादेवह्रदययोपरि संस्थिताम्‍ ।
शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्विताम्‍ ॥३६॥

महाकालव्यापकेन विपरीततातुराम्‍ ।
सुखप्रसन्नवदनां स्मेरारुणसरोरुहाम्‍ ॥३७॥

मधुमांसचर्वनाढ्यां वरदां मदनातुराम्‍ ।
वेदवेदाङुविद्याभिरुदारगुणसम्भवाम्‍ ॥३८॥

दैत्यदानवदर्पघ्नीं भगमालाकलेवराम्‍ ॥३९॥

चिन्तयेत्‍ कौलिका कालीं कुलवृक्षतलस्थिताम्‍ ।
श्रीकल्पलतिकां विद्युत्कोटिमण्डितकुण्डलाम्‍ ॥४०॥

नागयज्ञोपवीताढ्यां चन्द्रार्धकृतशेखराम्‍ ।
सर्वालङ्कारयुक्ताञ्च वहनयर्कशशिलोचनाम्‍ ॥४१॥

ललज्जिहवां कामरुपां कामपीठनिवासिनीम्‍ ।
अतिसौन्दर्यवदनां धाराविस्फुरितप्रभाम्‍ ॥४२॥

कामदां सिद्धगन्धर्वदेवचारननाटकैः ।
स्तूयमानां ब्रह्मविष्णुशिवशक्रमहर्षिभिः ॥४३॥

सर्वदा वन्दितां कोटिजलदाभतनुप्रभाम्‍ ।
संसारतारिणीं तारां तारब्रह्मस्वरुपिणीम्‍ ॥४४॥

इन्दुनीलमणिश्रेणिशोभाविद्युत्प्रकाशिनीम्‍ ।
श्रीवासमधुरानन्दप्रियप्रेमदिगम्बरीम्‍ ॥४५॥

लज्जातीतां कुलातीतां ज्ञानातीतां निरञ्जनाम्‍ ।
क्रोधपुञ्ज समुद‌भूतद्वीपिचर्मकटीप्रभाम्‍ ॥४६॥

नीला-घना-बला-माया-मात्रा-मुद्रा-कलादिभिः ।
सर्वदा पूजितां ध्यायेत्‍ सहस्त्रावराम्बुजे ॥४७॥

एवं ध्यात्वा महाकालीं श्यामां कामदुघां शिवाम्‍ ।
आकाशगामिनीं सिद्धिमवश्यं लभते वशी ॥४८॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने सिद्धमन्त्रप्रकरणे षट्‌चक्रप्रकाशे सदाशिवकुलचक्रक्रमनिरुपणे भैरवीभैरवसंवादे योगार्थसञ्चयनं नाम सप्तसप्ततितमः पटलः ॥७७॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP