आनन्दभैरव उवाच
कथितं शारदं धाम अप्रकाश्यं फलोदयम् ।
इदानीं कथय प्राणवल्लभे वरदा भव ॥१॥

कण्ठाभोजे दीदृशी या सभा परममोहिनी ।
गायन्ती योगिभिर्नित्यं परमानन्दवर्धिनी ॥२॥

सभोत्कृष्टां सिद्धसभां वर्तय ब्रह्मवादिनि ।
तदा मे सफलं ज्ञानं सफलं सारनिर्णयम् ॥३॥

यदि सा कथ्यते देवि सभा सर्वप्रतिष्ठता ।
श्रीआनन्दभैरवी उवाच
श्रूयतां देवदेवेश सर्वानन्दप्रपूरक ॥४॥

सभा ज्ञानमयी नित्या षोडशारप्रकाशिनी ।
विस्तीर्णा सप्ततिं चैव योजनानां शितप्रभा ॥५॥

तपसा निर्मिता लक्ष्मीर्ज्ञानमङुलमण्डिता ।
राशिप्रभा खेचरी सा कैलासशिखरोपमा ॥६॥

गुह्यकैरुह्यमाना सा मधुरध्वनिपूरणीं ।
दिव्यहेममयैरुच्चैः पादपैरुपशोभिता ॥७॥

रश्मिमती भास्वती च दिव्यगन्धमनोरमा ।
शिताभ्रशिखराकारा हेमतोरणशोभिता ॥८॥

दिव्यहेममयैः श्रृङैर्विद्युदि‌भरिव चित्रिता ।
षोडशारकर्णिकाया प्रतिभा विश्वजित्वरी ॥९॥

तस्यां सदाशिवो नाथो विचित्रभरणायुधः ।
स्त्रीसहस्त्रावृत्तः श्रीमानास्ते ज्वलितकुण्डलः ॥१०॥

दिवाकरनिभे रम्ये दिव्यास्तरणसंयुते ।
दिव्यपादोपधाने च निषण्णः परमासने ॥११॥

मन्दाराणामुदाराणां वनानि सुरभीणि च ।
सौगन्धिकानां चादाय गन्धान् गन्धवहः शुचिः ॥१२॥

नलिन्याश्चाणकाख्यायाश्चन्दनानां वनस्य च ।
मनोह्रदयसंहलादी वायुस्तमुपसेवते ॥१३॥

तत्र देवाः सगन्धर्वा गणैप्सरसा वृताः ।
दिव्यतालेन गायन्ति गीतानि परमेश्वर ॥१४॥

मिश्रकेशी च रम्भा च चित्रसेना शिचिस्मिता ।
चारुनेत्रा घृताची च मेनका मुञ्जिकस्तनी ॥१५॥

विश्वाची सहजन्या च प्रम्लोचा उर्वशे इरा ।
वर्गा च सौरभेयी च समीची बुद्धिदा लता ॥१६॥

रत्नावती महामाया कमला गन्धकेशिका ।
बाणमाता महाभर्गा ज्योतिः प्रज्ञा भवाऽभवा ॥१७॥

प्रभवा सम्भवा गुञ्जा साराङी सारविक्रमा ।
त्रिलोचनी त्रिवेदिस्था अम्बिका सप्तशायका ॥१८॥

विरला वरदा माया सिद्धा कात्यायनी तथा ।
योगिनी खेचरी सिद्धा जीवाङी दीर्घलोचनी ॥१९॥

रमणी च हिरण्याक्षी पद्मवक्त्रा हिरण्मयी ।
एताः सहस्त्रचान्या नृत्यगेतविशारदाः ॥२०॥

ईशानमुपतिष्ठन्ति गन्धर्वाप्सरसाङुणाः ।
अनिशं दिव्यवादित्रैर्नृत्यगीतैश्च सा स्रभा ॥२१॥

अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः ।
किन्नरोगगन्धर्वा नरा नाम तथा परे ॥२२॥

मानभद्रोऽथ धनदः श्वेतभद्रोऽथ गुह्यकः ।
काशवलो गण्डकण्डूः पत्योद्रश्च महाबलः ॥२३॥

कुस्तुम्बुरुः पिशाचाश्च गजकर्णे विशानकः ।
वराहकर्णस्ताम्रौष्ठः फलभक्षः फलोदकः ॥२४॥

अङुचूडः शिखावर्तो हेमनेत्रो विभीषणः ।
पुष्पाननः पिङुलकः शोणितोदः प्रवालकः ॥२५॥

वृकवांश्चानिकेतश्च चीरवासाश्च भावतः ।
भरद्वाजो वारिधरी महामायो धनञ्जयः ॥२६॥

कपिलः कपिलाचार्यो महायोगी क्षमाधरः ।
एते चान्ये च बहवो यक्षा शतसहस्त्रशः ॥२७॥

सदा भगवती लक्ष्मीस्तथैव नलकूबरः ।
तयोः परिजनाः सर्वे वारुणीमद्यकारकाः ॥२८॥

अतो मधुपुरी नाम चाष्टपूरं मधुस्थलम् ।
तद्बाह्ये सा सभा भाति चन्द्रकोटिसमोदया ॥२९॥

अहञ्च निवसाम्यस्यां भवन्त्यन्ये च मद्विधाः ।
ब्रह्मर्षयो भवन्त्यत्र तथा देवर्षयो परे ॥३०॥

क्रव्यादा राक्षसाश्चान्ये गन्धर्वाश्च महाबलाः ।
उपासन्ते महत्मानं तस्यां शिवदसमीश्वरम् ॥३१॥

भगवान् भूतसङ्कैश्च वृतः शतसहस्त्रशः ।
उमापातिः पशुपतिः शूलधृग्‍ भगनेत्रहा ॥३२॥

त्र्यम्बको रारशार्दूलो देवी च विगतक्रमाः ।
वामनैर्विकटेः कुब्जैः प्रिययक्षैर्महाबलैः ॥३३॥

मेदोमांसासवैरुग्रैरुग्रधन्वा महाबलः ।
नानाप्रहणैर्घोरेर्घातैरिव महाजविः ॥३४॥

वृतः सहायैस्तत्रास्ते सदैव श्रीसदाशिवः ।
प्रकृष्टाः सततञ्चा(पि?)प्यवन्तु शम्भुपरिच्छदाः ॥३५॥

गन्धर्वाणाञ्च पतयो विश्वावसुर्हाहा हुहूः ।
तुम्बुरुः पर्वतश्चैव शैलूश्चच तथापरः ॥३६॥

चित्रसेनश्च गतिज्ञस्तथा चित्ररथोऽपि च ।
एते चान्ये च गन्धर्वाः सदाशिवमुपासते ॥३७॥

विद्याधराधिपश्चैव चक्रवर्मा (हि)मानुगः ।
उपासतुस्ततस्तस्यां प्रभुं धनदमीश्वरम् ॥३८॥

हिमवान् पारिभद्रश्च विन्ध्यकैलासमन्दराः ।
किन्नराः शतशस्तत्र ज्ञानिनामीश्वरं प्रभुम् ॥३९॥

गणाश्च शतशस्तत्र भगदत्तपुरोगमाः ।
द्रुमः किंपुरुषश्चैव उपाते वरदेश्वरम् ॥४०॥

राक्षसाधिपतिश्चैव महेन्द्रो गन्धमादनः ।
सह यज्ञैः सगन्धर्वैः सह सर्वौशाचरैः ॥४१॥

विभीषणश्च धर्मिष्ठ उपास्ते श्रीसदशिवम‍ ।
मलयो मन्दर्श्चैव महेन्द्रो गन्धमादनः ॥४२॥

इन्द्रकीलः सनाभश्च तथा दिव्यौ च पर्वतौ ।
एते चान्ये च बहवः सर्वे मेरुपुरोगमाः ॥४३॥

उपासते महात्मानं सदाशिवमधीश्वरम् ।
नन्दीश्वरश्च भगवान् महाकालस्तथैव च ॥४४॥

शक्तं कर्णमुखाःसर्वे देव्याः परिषदास्तथा ।
काष्ठभृकुटी मुखोदन्ती विजया च तपोऽधिका ॥४५॥

श्वेतश्च वृषभश्चैव नर्दन्नास्ते महाबलः ।
वरदं राक्षसाश्चान्ये पिशाचाश्च समासते ॥४६॥

पार्षदैः संपरिवृतमुमया च महेश्वरम् ।
सदा हि देवेदेवेशं शिवं त्रैलोक्यभावनम् ॥४७॥

प्रणम्य मूर्ध्ना पौलस्त्यो बन्धुरुपमुमापतिम् ।
ततोऽभ्यनुज्ञां सम्प्राप्य महादेवात् कुलेश्वरात् ॥४८॥

आस्ते कदाचिद् भगवान् भवो धनपतेः सखा ।
निधिप्रवरमुख्यौ च शङ्कपद्मधनेश्वरौ ॥४९॥

सर्वान्निधीन् प्रगृह्याथ उपास्तद्वै सदाशिवम् ।
समता तादृशी रम्या मया गुप्तान्तरीक्षगा ॥५०॥

पितामहसभा तस्या ऊर्ध्वे भाति विभाविता ।
दिक्पालानां सभाग्रे तु स्थिरविद्युत्समोदया ॥५१॥

महादेवं कीर्तयिष्ये सतां कण्ठसरोरुहे ।
योगिनां मौनशीलानां ध्यानसिद्धिप्रदा सभाम् ॥५२॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP