श्रीआनन्दभैरव उवाच
शैलजे देवदेवेशि सर्वाम्नायप्रपूजिते ।
सर्वं मे कथितं देवि कवचं न परकाशितम् ॥१॥

प्रासाद्याख्यस्य मन्त्रस्य कवचं मे प्रकाशय ।
सदाशिवमहादेवभावितं सिद्धिदायकम् ॥२॥

अप्रकाश्यं महामन्त्रं भैरवीभैरवोदयम् ।
सर्वरक्षाकरं देवि यदि स्नेहोऽस्ति मां प्रति ॥३॥

श्रीआनन्दभैरवी उवाच
श्रूयतां भगवन्नाथ महाकाल कुलार्णव ।
प्रासादमन्त्रकवचं सदाशिवकुलोदयम् ॥४॥

प्रासादमन्त्रदेवस्य वामदेव ऋषिः स्मृतः ।
पङ्‌क्तिश्छन्दश्च देवेशः सदाशिवोऽत्र देवता ॥५॥

साधकाभीष्टसिद्धौ च विनियोगः प्रकीर्तितः ।
शिरो मे सर्वदा पातु प्रासादाख्यः सदाशिवः ॥६॥

षड्‌क्षररुपो मे वदनं तु महेश्वरः ।
अष्टाक्षरशक्तिरुद्धश्चक्षुषी मे सदाऽवतु ॥७॥

पञ्चाक्षरात्मा भगवान् भुजौ मे परिक्षतु ।
मृत्युञ्जयस्तिबीजात्मा आयू रक्षतु मे सदा ॥८॥

वटमूलसमासीनो दक्षिणामूर्तिरव्ययः ।
सदा मां सर्वतः पातु षट‌त्रिंशद्वर्णरुपधृक् ॥९॥

द्वाविंशार्णात्मको रुद्रः कुक्षिं मे परिरक्षतु ।
त्रिवर्णाढ्यो नीलकण्ठः कण्ठं रक्षतु सर्वदा ॥१०॥

चिन्तामणिर्बीजरुपोऽर्धनारीश्वरो हरः ।
सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः ॥११॥

एकाक्षरस्वरुपात्मा कूटव्यापी महेश्वरः ।
मार्तण्डो भैरवो नित्यं पादौ मे परिरक्षतु ॥१२॥

तुम्बुराख्यो महाबीजस्वरुपस्त्रिपुरान्तकः ।
सदा मारनभूमौ च रक्षतु त्रिदशाधिपः ॥१३॥

ऊर्ध्वमूर्ध्वानमीशानो मम रक्षतु सर्वदा ।
दक्षिणास्यं तत्पुरुषोऽवतु मे गिरिनायकः ॥१४॥

अघोराख्यो महादेवः पूर्वास्यं  परिक्षतु ।
वामदेवः पश्चिमास्य सदा मे परिक्षतु ॥१५॥

उत्तरास्यं सदा पातु सद्योजातस्वरुपधृक् ।
मृत्युजेता सदा पातु जलेऽरण्ये महाभये ॥१६॥

पर्वते विषमस्थाने विषहर्ता सदाऽवतु ।
कालरुद्रः सदा पातु सर्वाङुं कालदेवता ॥१७॥

कालाग्निरुद्रः सम्पातु महाव्याधिभयादिषु ।
अकालतारकः पातु खड्‌गधारी सदाशिवः ॥१८॥

कवची वामदेवश्च सदा पातु महाभये ।
कालभक्षः पातु रुद्रो रुरुकः क्षेत्रपालकः ॥१९॥

मातृकामण्डलं पातु सम्पूर्णचन्द्रशेखरः ।
चिरायुः शाकिनीभर्ता चायुषं पातु मे सदा ॥२०॥

सिंहस्कन्धः सदा पातु रुद्राणीवल्लभोऽवतु ।
भालं पातु वज्रदम्भालेखकः क्रान्तिरुपकः ॥२१॥

निरुपकः सदा पातु खेचरीखेचरप्रियः ।
रत्नमालाधरः पातु रक्तमुखीश्वरोऽवतु ॥२२॥

वदनं चक्षुषी कर्णौ पातु पञ्चाननो मम ।
वेदध्वनिः सदा पातु नासारन्ध्रद्वयं मम ॥२३॥

कपालधारकः पातु गण्डयुग्मं युगान्तकृत् ।
रक्तजिहवापतिः पातु ममोष्ठाधरवासिनम् ॥२४॥

दन्तावलियुगं पातु भृगुरामेश्वरः शिवः ।
तालुमूलं सदा पातु विश्वभोजी रसामृतम् ॥२५॥

जिहवाग्र वाक्पतीशश्च भवानीशः शिवो मम ।
मुखवृत्तं सदा पातु महासेनः कवीश्वरः ॥२६॥

क्रोधनाथः सदा पातु दक्षहस्तादिमूलकम् ।
दक्षकूर्परमापातु तदग्रं कुक्कुरेश्वरः ॥२७॥

चिरजीवी सदा पातु चाङ्‌गुलीमूलदेशकम् ।
अङ्‌गुल्यग्रं सदा ब्रह्मा ब्रह्मालिङुधरः प्रभुः ॥२८॥

विद्यापतिः पार्वतीशो वामहस्तादिमूलकम् ।
पातु वामकूर्परं मे वामकेश्वर ईश्वरः ॥२९॥

कुण्डवासी सदा पातु कूर्पराग्रं कुलाचलः ।
वेदमातृपतिः पातु कामधेनुपतिः प्रभु ॥३०॥

ममाङ्‌गुलीमूलदेश्म पातु पञ्चमुखो मम ।
वामाङ्‌गुल्यग्रभागं मे पातु पर्वतपूजितः ॥३१॥

तनुमूलाग्रभागं मे कूर्मचक्रधरः प्रभुः ।
शाकिनीवल्लभः पातु दक्षाङ्‌घ्रिमध्यदेशकम् ॥३२॥

गुल्फाग्रं गर्गरीनाथः पादाग्रं मूलदेवता ।
अभयावल्लभः पातु दक्षाङ्‌गुल्यग्रभाकम् ॥३३॥

पातु स्मरहरो योगी वामोरुमूलदेशकम् ।
वामपादमध्यदेश्म मध्यदेशेश्वरोऽवतु ॥३४॥

पातु मे भगवाञ्छम्भुर्मम गुल्फाग्रदेशकम् ।
मूलदेशं वामपादं पातु मेऽङुगुष्ठमूलकम् ॥३५॥

कारणात्मा नीलकण्ठः प्रभाधारी यमान्तकः ।
अङ्‌गुष्ठाग्रं सदा पातु सुषुम्नानाडिकेश्वरः ॥३६॥

महारुद्रेश्वरः पातु मम नाभिमनोभवम् ।
उदरं गगनाधारः कामहर्ता ह्रदम्बुजम् ॥३७॥

सर्वानन्दात्मकः पातु मम स्कन्धयुगं शिवः ।
ह्रदयाद् दक्षहस्ताग्रपर्यन्तं पातु शोकहा ॥३८॥

ह्रदयाद् वामहस्ताग्रपर्यन्तं परमेश्वरः ।
ह्रदयान्मम दक्षाङि‌घ्रनखान्तं मे शिवोऽवतु ॥३९॥

सदानन्दा सदा पातु ह्रदाद्यङ्‌घ्रिं तु उन्मदः ।
वासुकीवल्लभः पातु ह्रदादिगुददेशकम् ॥४०॥

अनन्तनाथ आपातु ह्रदादिमूर्धदेशकम् ।
व्यापकः सर्वदा पातु सदाशिव उमापतिः ॥४१॥

तारात्मकः कयसिद्धः शक्तीशः शुक्रदेवता ।
पञ्चचूडः सदा पातु पञ्चतत्त्वाङुरुपकम् ॥४२॥

शीर्षादिपादपर्यन्तं कामधेनुः सदाऽवतु ।
जलेऽरण्ये घोरवने सङ्कटे च महापथे ॥४३॥

प्रान्तरे पातु गुप्ताक्षः कामराजः परापरः ।
अर्धनारीश्वरः पातु मातृकापरमेश्वरः ॥४४॥

मातृकामन्त्रपुटितः स्वस्वस्थानं सदावतु ।
धर्मात्म धर्मसन्धि मे पिङुला पातु चण्डिकाम् ॥४५॥

विहवलः सर्वदा पातु भोलानाथः सदाऽवतु ।
सर्वदेशे सर्वपीठे कामरुपे विशेषतः ॥४६॥

सर्वदा योगिनीनाथः परमात्मा सदाऽवतु ।
कामरुपाख्यपीठादि पञ्चाशत् पीठदेवताः ॥४७॥

पञ्चाशत्पीठमाया तु कामरुपं सदाशिवः ।
भवो रुद्रो महेशश्च शङ्करो मन्मथान्तकः ॥४८॥

गुह्यकेशः पापहर्ता कपाली शूलधारकः ।
पञ्चवक्त्रो दशभुजो भुजङुभूषणो हरः ॥४९॥

महाकालो महारुद्रो महावीरो हदि स्थितः ।
महादेवो महागुह्यो महामाया महागुणः ॥५०॥

पशुपर्तिर्विरुपक्षो हरीशो धवलेश्वरः ।
वटुकोशः क्रमाचार्यः पञ्चशूली हदुद्भवः ॥५१॥

उन्मनीश साहसिकः पराख्यः पर्वतेश्वरः ।
सर्वात्मा च महात्मा च शिवात्मा च श्मशानगः ॥५२॥

क्रोधवीरः कालकारी सूक्ष्मधर्मा धुरन्धरः ।
श्यामकः क्रूरहर्ता च गणेशः कालमाघवः ॥५३॥

ज्ञानात्मा कपिलात्मा च सिद्धात्मा योगिनीपतिः ।
कोटिसूर्यप्रतीकाश एकपञ्चाशदीश्वराः ॥५४॥

सदा पान्तु मातृकस्थाः स्थितिसर्गलयात्मकाः ।
आदिपीठं कामरुपं काञ्चीपीठं तदन्तिके ॥५५॥

अयोध्यापीठनगरं तदूर्ध्वे जालकन्धरम् ।
जालन्धरं तदूर्ध्वे तु सिद्धपीठं तदन्तिके ॥५६॥

कालीपीठं तदूर्ध्वे तु चण्डिकापीठमग्रके ।
अष्टपुरीमहपीठं कण्ठदेशं सदाशिवः ॥५७॥

सदा पातु महावीरः कालधर्मी परात्परः ।
मधुपुरीमहापीठं चाष्टपुरान्तरस्थितम् ॥५८॥

मायावतीमहापीठं तदूर्ध्वे परिकीर्तितम् ।
वारानसीमहापीठं धर्मपीठं तदन्तिके ॥५९॥

ज्वालामुखीमहापीठं तदन्तःस्थं प्रकीर्तितम् ।
तदूर्ध्वे च महापीठं ज्वलन्तीपीठमेव च ॥६०॥

तदूर्ध्वे पूणगिर्याख्यं कुरुक्षेत्रं तदन्तिके ।
उड्डियानं तदूर्ध्वे तु कमलापीठमेव च ॥६१॥

हरिद्वारं महापीठं बदरीपीठमेव च ।
व्यासपीठं नारदाख्यं तदूर्ध्वे वाडवानलम् ॥६२॥

हिङ्‌गुलादं तदूर्ध्वे तु लङ्कापीठं तदूर्ध्वके ।
तदूर्ध्वे शारदापीठं रतिपीठं तदूर्ध्वके ॥६३॥

लिङुपीठं कलापीठं द्वारकापीठमेव च ।
कपालपीठं हर्याख्ये वरदापीठमुत्तरे ॥६४॥

कालीपीठं तदूर्ध्वे तु तारापीठं तदूर्ध्वके ।
उग्रतारामहापीठं महोग्रापीठमेव च ॥६५॥

नीलसरस्वतीपीठं जरापीठं तदूर्ध्वके ।
तदूर्ध्वे तारिणीपीठं सहस्त्रदलमध्यके ।
कर्त्रीपीठं तदूर्ध्वे च देवीपीठं तदूर्ध्वके ॥६७॥

राजराजेश्वरीपीठं षोडशीपीठमेव च ।
सहस्त्रदलमध्ये तु सहस्त्रपीठमेव च ॥६८॥

मध्ये एकजटापीठं कर्त्रीतीरकलोपरि ।
षोडशीमुखविद्याभिर्वेष्टिता तारिणीकला ॥६९॥

काली नीला महाविद्या त्वरिता छिन्नमस्तका ।
वाग्वादिनी चान्नपूर्णा देवी प्रत्यङिरा पुनः ॥७०॥

कामाख्या वासली बाला मातङी शैलवासिनी ।
षोडशी भुवनेशानी भैरवी बगलामुखी ॥७१॥

धूमावती वेदमाता हरसिद्धा च दक्षिणा ।
एता विद्या महाविद्याः शिवसेवनशोभिताः ॥७२॥

द्वाविंशतिमहाविद्या द्वारं द्वाविंशतिस्थलम् ।
महापीठे सहस्त्रारे सर्वदा पान्तु मां कलाः ॥७३॥

सदाशिवः शक्तियुक्तः पातु चण्डेश्वरो हरः ।
पञ्चामराधरः पातु देवीनाथः सदाऽवतु ॥७४॥

पार्वतीप्राणनाथो मे सर्वाङो पातु सर्वदा ।
अघोरनाथ ईशानो वरदो मदनात्नकः ॥७५॥

यज्ञहर्ता दक्षखण्डो वीरभद्रो दिगम्बरः ।
अष्टादशभुजो रौद्रो नीलपङ्कलोचनः ॥७६॥

त्रिलोचनः कालकामो महारुद्रो गणेश्वरः ।
काकिनीवल्लभः शूली योगकर्ता महेश्वरः ॥७७॥

वागीश्वरः स्मरहरो महामन्त्रो हलायुधः ।
श्रीनाथः पूजितो बालो बालेन्द्रो बलवाहनः ॥७८॥

बलरामः कृष्णरामो गोविन्दो माधवीश्वरः ।
जितामित्रेश्वरश्चूडामणीशो मानदः सुखी ॥७९॥

मुखं वृन्दावनं पातु षड्‌दलाम्भोरुहस्थितम् ।
वैष्णवीवल्लभः पातु ब्रह्माणं कुलकुण्डली ॥८०॥

विष्णुनाथः सदा पातु ब्रह्माग्निं गरुडध्वजः ।
ज्वालामालाधरः पातु कालानलधरोऽवतु ॥८१॥

काकिनीवल्लभः पातु ईश्वरो भैरवेश्वरः ।
महारुद्रो नीलकण्ठो मणिपूरं सुलाकिनीम् ॥८२॥

सदा पातु मणिगृहं रुद्राणीप्रियावल्लभः ।
महारुद्रो नीलकण्ठो महाविष्णु सदावतु ॥८३॥

राकिणीं विष्णुलक्ष्मीं च पातु मे वैष्णवीं कलाम् ।
सदाशिवो नीलकण्ठो मम पातु ह्रदि स्थलम् ॥८४॥

ईश्वरं परमात्मानं मम रक्षतु शाकिनीम् ।
सदाशिवं सदा पातु द्विदलस्थोऽपरो हरः ॥८५॥

हाकिनीशक्तितः पातु सहस्त्रारं शिवोऽवतु ।
तारानाथविधिः पातु सहस्त्रारनिवासिनीम् ॥८६॥

महाकाशं सदा पातु तदधो वायुमण्डलम् ।
वहिनमण्डलमापातु तदधः शाकिनीश्वरः ॥८७॥

तदात्मकः सदा पातु कीलालं कौलदेवता ।
पृथिवीं पार्थिवः पातु सर्वदैकं सदाशिवः ॥८८॥

इत्थं रक्षाकरं नाथ कवचं देवदुर्लभम् ।
प्रातःकाले पठेद्यस्तु सोऽभीष्टं फलमाप्नुयात् ॥८९॥

पूजाकाले पठेद्यस्तु कवचं साधकोत्तमः ।
कीर्तिश्रीकान्तिमेधायुर्बृंहितो भवति ध्रुवम् ॥९०।

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP