श्रीआनन्दभैरव उवाच
कथितं शाकिनीसारं सदाशिवफलोदयम् ।
श्रुतं परमकल्याणं भेदभाषाक्रमोदयम॥१॥

इदानीं श्रोतुमिच्छामि कवचं सारदुर्लभम् ।
यस्य विज्ञानमात्रेण भवेत् साक्षात् सदाशिवः ॥२॥  

वद कान्ते शब्दमयि यदि स्नेहोऽस्त मां प्रति ।
आनन्दभैरवं नत्वा सोवाचानन्दभैरवी ॥३॥

श्रीआनन्दभैरवी उवाच
गुरोः परमकल्याणं कवचं कथये तव ।
सदाशिवस्य शाकिन्या भैरवानन्दविग्रह ॥४॥

श्रृणुष्व कामदं नामाद्भुतं कवचङुलम् ।
त्रैलोक्यसारभूतं च सर्वज्ञानविवर्धनम् ॥५॥

सर्वमन्त्रौघनिकरं ज्ञानमात्रेण सिद्धयति ।
सर्वगूढीप्रियानन्दं सामरस्यं कुलान्तरम् ॥६॥

प्रचण्डचण्डिकातुल्यं सर्वनिर्णयसाक्षिणम् ।
सर्वबुद्धिकरानन्दं कुलयोगिमनोगतम् ॥७॥

सदाशिव-शाकिनी कवच का फलादेश
रामसेव्यं शिवं शम्भुसेवितं विषनाशनम् ।
अप्रकाश्यं महायोगं धनारोग्यविवर्धनम् ॥८॥

सर्वसौभाग्यजननं सर्वानन्दकरं परम् ।
सर्वतन्त्रदुर्लभं यत् कथितं रुद्रयामले ॥९॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP