इत्येतत्‍ कवचं तारं तारकब्रह्ममङुलम्‍ ॥६८॥

कथितं नाथ यत्नेन कुत्रापि न प्रकाशितम्‍ ।
तव स्नेहवशादेव प्रसन्नह्रदयान्विता ॥६९॥

कृपां कुरु दयानाथ तवैव कवचाद्‌भुतम्‍ ।
हिताय जगतां मोहविनाशायामृताय च ॥७०॥

पठितव्यं साधकेन्द्रैर्योगीन्द्रैरुपवन्दितम्‍ ।
दुर्लभं सर्वलोकेषु सुलभं तत्त्ववेदिभिः ॥७१॥

असाध्यं साधयेदेव पठनात्‍ कवचस्य च ।
धारणात्‍ पूजनात्‍ साक्षात्‍ सर्वपीठफलं लभेत्‍ ॥७२॥

काकचञ्चपुटं कृत्वा सप्तधा पञ्चधापि वा ।
कवचं प्रपठेद्विद्वान्‍ गूढसिद्धिनिबन्धनात्‍ ॥७३॥

काकिनीश्वरसंयोगं सुयोगं कवचान्वितम्‍ ।
ईश्वराङुं विभाव्यैव कल्पवृक्षसमो भवेत्‍ ॥७४॥

एतत्कवचपाठेन देवत्वं लभते ध्रुवम्‍ ।
आरोग्यं परमं ज्ञानं मोहनं जगतां वशम्‍ ॥७५॥

स्तम्भयेत्‍ परसैन्यानि पठेद्‌वारत्रयं यदि ।
शान्तिमाप्नोति शीघ्रं स षट्‌कर्मकरणक्षमः ॥७६॥

आकाङ्‌क्षा रसलालित्यविषयाशाविवर्जितः ।
साधकः कामधेनुः स्यादिच्छादिसिद्धिभाग्भवेत्‍ ॥७७॥

सर्वत्र गतिशक्तिः स्यात्‍ स्त्रीणां मन्मथरुपधृक्‍ ।
अणिमालघिमाप्राप्तिगुणादिसिद्धिमाप्नुयात्‍ ॥७८॥

योगिनीवल्लभो भूत्वा विचरेत्‍ साधकाग्रणीः ।
यथा गुहो गणेशश्च तथा स मे हि पुत्रकः ॥७९॥

श्रीमान्‍ कुलीनः सारज्ञः सर्वधर्मविवर्जितः ।
शनैः शनैर्मुदा यति षोडशारे यतीश्वरः ॥८०॥

यत्र भाति शाकिनीशः सदाशिवगुरुः प्रभुः ।
क्रमेण परमं स्थानं प्राप्नोति मम योगतः ॥८१॥

मम योगं विना नाथ तव भक्तिः कथं भवेत्‍ ।
एतत्सम्मोहनाख्यस्य कवचस्य प्रपाठतः ॥८२॥

वाणी वश्या स्थिरा लक्ष्मीः सर्वैश्वर्यसमन्वितः ।
त्यागिता लभ्यते पश्चान्निः सङो विहरेत्‍ शिवः ।
सदाशिवे मनो याति सिद्धमन्त्री मनोलयः ॥८३॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने सिद्धमन्त्रप्रकरणे षट्‌चक्रप्रकाशे भैरवीभैरव संबादेऽनाहतेश्वरसम्मोहनख्यकवचं नाम त्रिषष्टितमः पटलः ॥६३॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP