सकलं चामरायोगं मन्त्रेणानेन भक्षयेत् ।
तातद्वयं समुद्धृत्य ऋयुगं तदन्तरम् ॥३८॥

विसर्गबिन्दुसंयुक्तं तत्पश्चादमृतामुखि ।
मरणं मारयद्वन्द्वं योगसिद्धिं ततः परम् ॥३९॥

देहि देहि पदस्यान्ते स्वाहान्तं मन्त्रमुत्तमम् ।
एतन्मन्त्रेण चोत्पाट्य मन्त्रयित्वा प्रभक्षयेत् ॥४०॥

एतत्काण्डस्य मन्त्रं तत्रैव परियोजयेत् ।
निर्गुण्डीमन्डीमन्त्रराजं तु श्रृणु वक्ष्यामि भैरव ॥४१॥

कामबीजत्रयं पश्चात् कालीबीजत्रयं तथा ।
सर्वयोगं ततः पश्चात् साधयद्वयमेव च ॥४२॥

अमृतत्वं मयि शक्तं समर्पद्वयं ततः ।
स्वाहान्तमनुना चाथ चोत्पाट्य भक्षणं चरेत् ॥४३॥

बिल्वपत्रं प्रगृहणीयात्तन्मन्त्रं श्रृणु भैरव ।
लज्जाबीजं कामबीजं शक्तिबीजं ततः परम् ॥४४॥

ब्रह्मबीजं ततः पश्चाद् गौरसुन्दरि चावदेत् ।  
मां स्थापय महायोगे पालयद्वयमेव च ॥४५॥

शङ्करप्रेमगलित स्वाहान्तं मन्त्रमुच्चरेत् ।
तुलसीपत्रं संशोध्य चोत्पाट्य मनुनाऽमुना ॥४६॥

विष्णुप्रिये महामाये शिवयोगप्रसाधिनि ।
मायाच्छेदं ततः पश्चात् संसारं हारयद्वयम् ॥४७॥

अमरत्वं देहि देहि स्वाहान्तं प्रणवादिकम् ।
श्रृणु श्रीविजयापत्रशोधनं हि चतुर्विधम् ॥४८॥

चतुर्वर्णं स्वमन्त्रेण परिशोध्य कुलाकुलम ।
तत्क्रमं परिवक्ष्यामि सावधानाऽवधारय ॥४९॥

प्रणवं पूर्वमुच्चार्य देवीबीजं ततः परम् ।
स्वाहान्तं मन्त्रमुद्धृत्य संशोध्य भक्षयेत् सुधीः ॥५०॥

एकीकृत्य महादेव चैतन्मन्त्रेण मन्त्रयेत् ।
अमृतेऽमृतशब्दान्ते तद्भवे पदं ततः ॥५१॥

श्रीबीजं मन्मथं बीजं लज्जाबीजद्वयं क्रमात् ।
क्रमेण च समुद्धृत्य विजये ज्ञानसुन्दरि ॥५२॥

योगमोक्षप्रदे पश्चात् कायशोधिनि पावनि ।
मम पश्चात् कायसिद्धिं देहि देहि ततः परम् ॥५३॥

अमृतवर्षिणि शब्दान्ते अमृतं तदनन्तरम् ।
आकर्षयद्वयं पश्चात् सिद्धिं देह्यनलप्रिये ॥५४॥

एतन्मन्त्रेण संशोध्य सावधानेन भक्षयेत् ।
न्यूनाधिकं न कर्तव्यं शनैरभ्यासमाचरेत् ॥५५॥

यावत् प्रमाणभक्षः स्यात् प्रमाणे चाधिकं न च ।
एतद्भोजनमाकृत्य पयः पानं समाचरेत् ॥५६॥

तत्प्रकारं श्रृणु प्राणनाथ ईश्वर शङ्कर ।
मरीचबीजं संशोध्य दुग्धशोधनमाचरेत् ॥५७॥

एतत्प्रकारं द्विविधं तत्प्रकारं वदम्यहम् ।
वाञ्छाकल्पतरेर्मूले गुरुं ध्यात्वा पुनः पुनः ॥५८॥

मानसोपचारद्रव्यैः पूजयित्वा विधानतः ।
मरीचं तोलकार्धं तु शोधयेन्मनुनामुना ॥५९॥

श्रीकृष्णबीजमुद्धृत्य पृथ्वीबीजत्रयं तथा ।
घोरघोरतरे पश्चान्मरीचकुलसुन्दरि ॥६०॥

नीला त्वं भव देहे मे शरीरं शोधयद्वयम् ।
द्विठान्तोऽयं मनुः प्रोक्तस्तत्पश्चाद् दुग्धशोधनम् ॥६१॥

आदौ मरीचं भुक्त्वा तु दुग्धपानं महाबलम् ।
चर्वयित्वा मरीचं तु दुग्धपानं महाबलम् ॥६२॥

कृष्णबीजं स्मुद्धृत्य कामेश्वरीमनुं ततः ।
शिवबीजद्वयं पश्चात् कृष्णगोवसवासिनी ॥६३॥

योगविग्रहमुद्धृत्य मम कामप्रसाधिनि ।
तत्पश्चाद् योगसिद्धिनामीश्वरि क्षेत्रवासिनि ॥६४॥

शरीरं वसमन्ते च चालयद्वयमेव च ।
विघ्नान् वारययुग्मं तु स्वाहान्तोऽयं महामनुः ॥६५॥

द्वादशवारमुच्चार्य चाथवा पञ्चवारकम् ।
वारत्रयं मुदा शोध्य सर्वत्रायं विधिः स्मृतः ॥६६॥

यदि पिबेत् खेचरत्वं तथा दुग्धं द्विपादकम् ।
यदि चेत् केवलं दुग्धं तदा प्रस्थं चतुर्दश ॥६७॥

लघ्वाहारी महाज्ञानी पञ्चमादि विरागावित् ।
मणिपूरे मनोयोगं समाकृत्यामरो भवेत् ॥६८॥

चतुर्वर्गः करे तस्य यो मणेः पीठमाश्रयेत् ।
श्रीआनन्दभैरव उवाच
मणिपूरभेदनार्थ मनोयोगसुसिद्धये ॥६९॥

खेचरादिमहायोगसिद्धये सर्वसिद्धये ।
मृत्युअञ्जयस्य देवस्य रुद्रशक्त्याश्च दर्शनात् ॥७०॥

तथा पीठस्थिरार्थाय कालजालवशाय च ।
सहस्त्रनामबीजानि चाष्टोत्तरशतानि च ॥७१॥

मृत्युञ्जस्य लाकिन्याः स्तोंत्र मकारकूटकम् ।
कथयस्व वरारोहे यदि स्नेहोऽस्ति मां प्रति ॥७२॥

ज्ञानदे परमेशानि शरीरं मम रक्षतु ॥७३॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरण भैरवभैरवीसंवादे मणिभेदप्रकाशो नाम पञ्चाशत्तमः पटलः ॥५०॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP