सप्तचत्वारिंशः पटलः - पीठन्यासः

रूद्राणीरूद्रयो पूजाप्रकरणम्


अनन्तपद्ममेवं तु अं सूर्यमण्डलं तथा ।
द्विषट्‌कलात्मना सार्धं सं सोममण्डलं तथा ॥२५४॥

षोडशकलात्मानञ्च मं वहिनमण्डलं तथा ।
दशकलात्मना सार्धं सं सत्वं तदनन्तरम् ॥२५५॥

रं बीजं रजसं तत्र तं तमसमेव च ।
आं आत्मने न्यसेन्मन्त्री अं अन्तरात्मने नमः ॥२५६॥

पं बीजं परमात्नानं मायाज्ञानात्मने नमः ।
इत्यन्तं न्यस्य देवेश मन्त्रसिद्धिमवाप्स्यसि ॥२५७॥

मणिपूरे मन्त्रसिद्धिं सर्वसिद्धिमवाप्नुयात् ।
यः करोति सदा न्यासं ध्यानपूजापरायणः ॥१५८॥

वामां ज्येष्ठा तथा रौद्रीं कालीं कलपदादिकाम् ।
विकरण्याहवया युक्ता बलविकरणीं तथा ॥२५९॥

बलप्रमथिनीं चैव न्यसेत् साधकासत्तमः ।
ततः सर्वभूतदमनीं मनोन्मनीं ततो न्यसेत् ॥२६०॥

तदुपरि न्यसेन्नाथ ॐ नमो भगवते पदम् ।
सकलगुणात्मनः शक्तिं चान्ते युक्ताय पद्मावदेत् ॥२६१॥

अनन्ताय पदस्यान्ते योगपीठात्मने पदम् ।
नमोऽन्तोऽयं महामन्त्रः सर्वोपरि न्यसेत्सुधीः ॥२६२॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP