सप्तचत्वारिंशः पटलः - सदाशिवस्तोत्रम्

रूद्राणीरूद्रयो पूजाप्रकरणम्


ॐ नमः परमकल्याण नमस्ते विश्वभावन ।
नमस्ते पार्वतीनाथ उमाकान्त नमोऽस्तु ते ॥२३३॥

विश्वात्मने विचिन्त्याय गुणाय निर्गुणाय च ।
धर्माय ज्ञानमोक्षाय नमस्ते सर्वयोगिने ॥२३४॥

नमस्ते कालरुपाय त्रैलोक्यरक्षणाय च ।
गोलोघातकायैव चण्डेशाय नमोऽस्तु ते ॥२३५॥

सद्योजाताय देवाय नमस्ते शूलधारिणे ।
कालान्ताय च कान्ताय चैतन्याय नमो नमः ॥२३६॥

कुलात्मकाय कौलाय चन्द्रशेखर ते नमः ।
उमानाथ नमस्तुभ्यं योगीन्द्राय् नमो नमः ॥२३७॥

सर्वाय सर्वपूज्याय ध्यानस्थाय गुणात्मने ।
पार्वती प्राणनाथाय नमस्ते परमात्मने ॥२३८॥

एतत्स्तोत्रं पठित्वा च स्तौति यः परमेश्वरम् ।
याति रुद्रकुलस्थानं मणिपूरं विभिद्यते ॥२३९॥

एतत्स्तोत्रपाठेन तुष्टो भवति शङ्करः ।
खेचरत्वं पदं नित्यं ददाति परमेश्वरः ॥२४०॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP