सप्तचत्वारिंशः पटलः - रूद्रस्य पीठशक्तयः

रूद्राणीरूद्रयो पूजाप्रकरणम्


एवं ध्यात्वा सुमनैश्च सम्पूज्यार्घ्य ।
कृत्वार्घ्यं रुद्रमन्त्रेण पूठपूजाम समाचरेत् ॥९४॥

वामा ज्येष्ठा रौद्री काली कलपदादिका ।
विकरण्याक्षरा प्रोक्ता बलादिविकरण्यथ ॥९५॥

बलप्रथमनी पश्चात् सर्वभूतदमन्यथ।
मनोम्मनीति सम्र्पोक्तः शिवस्य पीठशक्तयः ॥९६॥

पूजयेद् गन्धपुष्पाद्यैः म्रकेण तु ।
प्रणवादि नमोऽन्तेन पूजा कार्या विधानतः ॥९७॥

पुनर्ध्यात्वा च पाद्याघ्यैंवाह्य परिपूजयेत् ।
पाद्यमर्घ्यमाचमनीयं स्थानीयं पुनराचमनम् ॥९८॥

गन्धपुष्पबिल्वदलैः पूर्वावरणमर्चयेत् ।
वं ह्रदयाय नम इत्यादिषङ्ङुपूजनम् ॥९९॥

मध्ये चतुर्दिक्षु चैवं वारद्वयं वदेत् ।
इन्द्रादीन् लोकपालांश्च पूजयित्वा ततोऽर्चयेत् ॥१००॥

वज्रादींश्च महाकाल धूपदीपैर्निवेदयेत् ।
नैवेद्यं बहु कृत्वा (च) पानार्थं जलदानकम् ॥१०१॥

शरीरशोधन कृत्वा प्राणायामं ततश्चरेत् ।
जपेत् शतत्रयं मन्त्री विशुद्धः शुद्धचेतसा ॥१०२॥

अष्टोत्तरं योजयित्वा गजान्तकसहस्त्रकम् ।
अथवाष्टोत्तरशंत जप्त्वा समर्पणं चरेत् ॥१०३॥

प्राणायामत्रयं कुर्यान्निजमन्त्र प्रसिद्धये ।
ततः प्रणाममाकुर्यात् शक्तिचैतन्यहेतुना ॥१०४॥

नमो रुद्राय देवाय कोटिसूर्येन्दुऊर्त्तये ।
सर्वाय ज्ञानदानाय नमस्ते शूलधारिणे ॥१०५॥

नमस्ते कालरुद्राय कालाय वेदरुपिणे ।
वेद मार्गप्रदर्शाय शत्रुसंक्षयकारिणे ॥१०६॥

रौद्राय शक्तियुक्ताय शङ्कराय नमो नमः ।
चतुर्भुजाय वेदाय महाकाशस्वरुपिणे ॥१०७॥

वरपद्मशूलखड्‌गधारिणे ब्रह्मणे नमः .... ।
रुद्रशक्त्यर्चनं कृत्वा महारुद्रेण संयुतम् ॥१०८॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP